पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विभक्तिप्रकरणम्]
४४१
बालमनोरमा ।

हरिः । ' अपपरिबहिः–’ (सू ६६६) इति समासविधानात् ज्ञापकाद्वहिर्योगे पञ्चमी । ग्रामाद्वहिः ।

५९६ । अपपरी वर्जने । (१-४-८८)

एतौ वर्जने कर्मप्रवचनीयौ स्तः ।

५९७ । आङमर्यादावचने । (१-४-८९)

आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ।

५९८ । पञ्चम्यपाङ्परिभिः । (२-३-१०)

एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परिहरेः , संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परेि । आमुक्त्तेः संसारः । आसकलाद्व्ह्म ।


म्यर्थे वार्तिकस्यावश्यकत्वात्तदसङ्गतिः स्पष्टेव । एवञ्च प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एव च “कार्तिक्याः प्रभृति' इति भाष्यव्याख्यावसरे तत आरभ्येत्यर्थः इति कैयट आह । तत्र हि । तत इति पञ्चम्यास्तसिः । एतत् सर्वमभिप्रेत्योदाहरति । भवात् प्रभृति, आरभ्य वेति ॥ भवः उत्पातिः, आरभ्येत्यस्यावधिं परिगृह्येत्यर्थः । प्रभृतीत्यव्यय मप्येतदर्थकमेव । भवमवधिं परिगृह्य हरिस्सेव्य इत्यर्थः । उत्पत्तिक्षणात्मकपूर्वावधिकोत्तरकाले सर्वदा आमरणं हरिस्सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव । उपपदविभक्तः कारकविभक्तिर्बलीयसी' इत्युक्तेः। । यथा 'सूर्योदयमारभ्य आस्तमयात् जपति इत्यादौ । शेषत्वविवक्षायान्तु षष्ठीं बाधित्वा भवशब्दात् पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्ये त्यर्थे कदापि न द्वितीया । प्रभृतिशब्दार्थस्यावधिं परिगृह्यत्यस्यावध्यादिघटितत्वेन क्रियात्वा भावात् । अपपरीति ॥ बहिश्शब्दयोगे पञ्चमीं सिद्धवत्कृत्य 'अपपरिबहिरञ्चवः पञ्चम्या इति समासविधानात् बहिश्शब्दयोगे पञ्चमी विज्ञायते इत्यर्थः । इदश्च “अपपरि' इति सूत्रे भाष्ये स्पष्टम् । “करस्य करभो बहिः' इति त्वसाध्वेव । 'ज्ञापकसिद्धन्न सर्वेत्र' इति वा कथ चित्समाधेयम् । अपपरी वर्जने ॥ कर्मप्रवचनीयौ स्त इति ॥ कर्मप्रवचनीयाः इत्यधि कृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतस्सिञ्चतीत्यर्थः । अत्रोपसर्गत्वात् “उपसर्गात्सुनोति ? इति षत्वम् । आङमर्यादाववचने । उक्तसंज्ञः इति ॥ कर्मप्रवचनीयसंज्ञक इत्यर्थः । ननु “ आडमर्यादायाम्' इत्येव सिद्धे वचनग्रहणं व्यर्थ मित्यत आह । वचनग्रहणादिति ॥ तेन विनेति मर्यादा, तेन सहेत्यभिविधिः । मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम् “ आङमर्यादाभिविध्योः' इति सूत्रम् । तत्र य आङ्ः दृष्टः स कर्मप्रवचनीयसंज्ञकस्यादित्यर्थः । तथाच मर्यादाभिविध्योराड् कर्मप्रव चनीय इति फलतीति भावः । पञ्चम्यपाङ्परिभिः ॥ एतैरिति ॥ अप आङ् परि