सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३८
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

५९३ । जनिकर्तुः प्रकृतिः । (१-४-३०)

जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ।

५९४ । भुवः प्रभवः । (१-४-३१)

भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः । 'ल्यब्लोपे कर्मण्यधिकरणे च' (वा १४७४-१४७५) । प्रासादात्प्रेक्षते, आसनात्प्रेक्षते । प्रासादमारुह्य, आसने उपविश्य, प्रेक्षते


पदं व्याचष्टे । नियमपूर्वकेति ॥ भाष्ये तथोक्त्तेरिति भावः । आख्यातेति तृजन्तं व्याचष्टे । वक्त्तेति ॥ अध्द्यापयितेत्यर्थः । उपाध्यायादधीते इति । नियमविशेषपूर्वकं उपाध्याय स्योच्चारणम् अनूचारयतीत्यर्थः । षष्ठयपवादोऽयम् । भाष्ये तु उपाछायान्निर्गतं वेदं गृह्णाती त्यर्थमाश्रित्य प्रत्याख्यातम् । जनिकर्तुः प्रकृतिः ॥ जनिर्जननमुत्पातिः । “जनी प्रादुर्भावे' दैवादिकोऽकर्मकः । 'इणजादिभ्यः' इति भावे इण् । 'जनीवध्योश्च' इति निषेधान्नोपधावृद्धिः । जनेः कर्तति विग्रहः । शेषषष्ठ्या समासः । “तृजकाभ्यां कर्तरि' इति निषेधस्तु कारकषष्ठया एवेति वक्ष्यते । जायमानस्येति ॥ जनधातोः कर्तरि लटश्शानच्, श्यन्, “ज्ञाजनोर्जा आने मुक्' उत्पत्त्याश्रयस्येत्यर्थः । प्रकृतिशब्दं व्याचष्टे । हेतुरिति ॥ ब्रह्मणः इति ॥ हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत् तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम् । संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्दः उपादानकारणपर एव । अत एव भाष्यकैयटयोः “गोमयादृश्चिका जायन्ते गोलोमाविलोमभ्यो दूर्वा जायन्ते” इत्युदाहृत्य परिणामेषु प्रकृतिद्रव्यावयवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेेषसत्त्वात् ‘ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवञ्च 'ब्रह्मणः प्रजा प्रजायन्ते’ इत्यत्र ब्रह्मशब्देन मायोपहितमीश्वरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्यो पादानमिति वेदान्तसिद्धान्तः । भुवः प्रभवः ॥ पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेक देशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह । भूकर्तुरिति ॥ भवनं भूः सम्पदादि त्वात् क्लिप् । भुवः कर्ता भूकर्ता तस्येत्यर्थः । प्रभवः इति ॥ प्रभवति प्रथमं प्रकाशते ऽस्मिन्निति प्रभवः । प्रथमप्रकाशस्थानामित्यर्थः । प्रभवतीत्यस्य उत्पद्यते इत्यर्थे तु अस्सङ्गतिः । गङ्गायास्तत्रानुत्पत्तेः । तदाह । प्रकाशते इत्यर्थः इति । प्रथमं प्रकाशते इति यावत् । अत एव हिमवति प्रकाशते इत्यत्रं न भवति । एतेन जनिकर्तुरित्यनेन ‘ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य ‘ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । अथोपपदविभक्तयः । ल्यब्लोपे इति ॥ ल्यबन्तस्य लोपे अदर्शने अप्रयोगे सति गम्यमानतदर्थे प्रति कर्मणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिह्रेतीति ॥ लज्जते इत्यर्थः । नन्वत्र ल्यबन्तस्य प्रयेोगाभावात् कथं तदर्थ प्रति कर्माद्यवगतिरित्यत आह ।