सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

नेह बहुक्रीता । “जातान्तान्न' (वा २४७९) । दन्तजाता । * पाणिगृहीती भार्यायाम्' (वा २४८०) । पाणिगृहीता अन्या ।

५०९ । अस्वाङ्गपूर्वपदाद्वा । (४-१-५३)

पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती-सुरापीता। “ अन्तोदात्तात् किम् । वस्त्रच्छन्ना । “ अनाच्छादनात्' इत्युदात्तनिषेधः । अत एव पूर्वेणापि

५१० । स्वाङ्गाचोपसर्जनादसंयोगोपधात् । (४-१-५४)


यस्या इति विग्रहः । ‘निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति । जातिकालसुखा दिभ्यः परा निष्ठा वाच्या' इति वार्तिकात् । “जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्त मिदम् । जातिलक्षणन्तु 'जातेतरस्रीविषयात्' इत्यत्र वक्ष्यते । बहुक्रीतेति । बहवः क्रीताः ययेति विग्रहः । अकृता, मासयाता, सुखयाता, दुःखयाता, इति च भाष्ये प्रत्युदाहृतम् । जातान्तान्न इति वार्तिकम्। ‘बहुव्रीहेश्च' इत्युक्तो डीष् नेत्यर्थः । दन्तजातेति । दन्ताः जाताः यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः । पाणिगृहीती भार्यायामिति ॥ इदमपि वार्तिकम्। विधिवदूढा भार्या, तस्यां विद्यमानादेव पाणिगृहीतशब्दात् डीषित्यर्थः। विवाहकाले विधि वत् पाणिः गृहीतो यस्या इति विग्रहः । पाणिगृहीतान्येति । दास्यादिरित्यर्थः । अस्वाङ्गपूर्व पदाद्वा ॥ स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते । अस्वाङ्गं यत् पूर्वपदं तस्मात् परं यत् क्तान्तं तदन्तात् बहुव्रीहेडीष् वा स्यात् इति सूत्रार्थः । यद्यपि अस्वाङ्गं पूर्वपदं यस्य तस्मात् त्क्तान्त बहुव्रीहेरित्यपि व्याख्यातुं शक्यम् । तथापि उत्तरसूत्रे अस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारय समासाश्रयणात् इहापि तथा व्याख्यानमुचितम् । ननु बहुकृता अंकृता इत्यादावपि अस्वाङ्गपूर्व पदक्तान्तबहुव्रीहित्वात् डीष्विकल्पस्यादित्याशङ्कय आह । पूर्वेणेति ॥ ‘बहुव्रीहेश्चान्तोदात्तात् इति पूर्वसूत्रेण नित्यं डीषि प्राप्त तद्विकल्पोऽत्र विधीयते इत्यर्थः । एवञ्च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य च इहापि सम्बन्धात् बहुकृता इत्यादौ नातिप्रसङ्ग इति भावः । सुरापीती सुरापीतेति ॥ सुरा पीता ययेति विग्रहः । ऊरुभिन्नीतिवत् पूर्वनिपातः । अन्तोदात्तात् किमिति ॥ 'बहुव्रीहेश्व' श्रुतं 'अस्वाङ्गपूर्वपदाद्वा' इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत् इत्यत्र किमर्थमिति प्रश्रः । वख्त्रच्छन्नेति ॥ ऊरुभिन्नीतिवत् पूर्वनिपातः । अथ वस्रच्छन्नेत्यत्र 'जाति कालसुखादिभ्यः’ इत्यन्तोदात्तत्वमाशङ्कय निरस्यति । अनाच्छादनादिति ॥ तथाच बहुव्रीहि त्वात् पूर्वपदप्रकृतिस्वरे शेषनिघातेन अनुदात्तान्तमेतादिति भावः । अत एवेति ॥ “अस्वाङ्ग पूर्वपदात्' इत्यनेन ‘बहुव्रीहेश्च' इति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च डीष् नेत्यर्थः । अन्तोदात्तत्व एवोभयोः प्रवृत्तिरिति भावः । स्वाङ्गाञ्च । उपसर्जनादिति असंयोगो पधादिति च स्वाङ्गादित्यत्रान्वेति । स्वाङ्गादित्येतत् अत इत्यनुवृत्तञ्च प्रातिपदिकादित्यनुवृत्तस्य