सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३८१
बालमनोरमा ।

५०७ । क्तादल्पाख्यायाम् । (४-१-५१)

करणादेः क्तान्ताद्दन्तात्स्त्रियां ङीष्स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । 'अल्पाख्यायाम्' किम् । चन्दनलिप्ता अङ्गना ।

५०८ । बहुव्रीहेश्चान्तोदात्तात् । (४-१-५२)

बहुव्रीहेः क्तान्तादन्तोदात्ताद्दन्तात्स्त्रियां ङीष्स्यात् । 'जातिपूर्वादिति वक्तव्यम्' (वा २४८४) । तेन “ बहुनञ्सुकालसुखादिपूर्वान्न' ऊरुभिन्नी ।


दित्यादिना ॥ करणमादिर्यस्येति विग्रहः । प्रातिपदिकशब्दो विशेष्यम्, तेन करणादे रिति पुंस्त्वमुपपन्नम् । वस्त्रक्रीतीति ॥ ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे कर्तृकरणे कृता बहुळम्’ इति समासात्मकं प्रातिपदिकम् आदन्तमेव, न त्वदन्तमिति कथमत्र डीषिति चेत्, सत्यम् । समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः । वस्र भिस् क्रीत इति स्थिते 'गतिकारकोपपदानां कृद्भिस्सह समासवचनं प्राक् सुबुत्पत्तेः’ इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे 'सुपो धातु' इति सुब्लुकि वस्रक्रीतेति प्रातिपदिकस्य अदन्तत्वन्निर्बाधमिति भावः । एतञ्च 'पुंयोगादाख्यायाम्' इति सूत्रे भाष्ये स्पष्टम् । तर्हि धनकीतेत्यत्रापि डीष् स्यादित्यत आह । क्व चिन्नेति ॥ 'कर्तृकरणे कृता बहुळम्' इति बहुळग्रहणेन “गतिकारकोपपदानाम्' इत्यस्य क्वचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः। तत्र च सुपः प्रागेवान्तरङ्गत्वात् टापि सति ततस्सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तत्वाभावान्न डीषित्यर्थः । एवञ्च अत इत्यनुवृत्तेरेतत्प्रयोजनमित्युक्तं भवति । एतच्च 'उपपदमतिङ्' इत्यत्र कैयटे स्पष्टम् । करणपूर्वात् किम् । सुक्रीता । नचैव मपि वस्त्रेण क्रीतेति वाक्यात् डीष्प्रसङ्गः । क्रीतेति प्रातिपदिकस्य करणपूर्वत्वात् अदन्तत्वाच्चेति वाच्यम् । करणपूर्वादिति हि क्रीतान्तस्य प्रातिपदिकस्य विशेषणम्, नतु क्रीतशब्दस्य । करणं पूर्व यस्मिन् इति बहुव्रीहिः । करणशब्दात्मकपूर्ववयवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थ । एतदर्थमेव पूर्वग्रहणम् । अन्यथा क्रीतात्करणादित्येवावक्ष्यदित्यलम् । क्तादल्पाख्यायाम्।। करणादेरिति ॥ करणपूर्वादित्यनुवृत्तेरिति भावः । त्क्तान्तादिति ॥ क्तान्तान्तादित्यर्थः । प्रत्यग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात् । अदन्तादिति ॥ अत इत्यनु वृत्तरिति भावः । अल्पत्वे द्योत्ये इति ॥ अल्पाख्यायामिति समुदायोपाधिः । अल्पत्वं करणगतं क्रियागतं वा । अभ्रलिप्ती द्यौरिति ॥ अभ्रैरल्पैराच्छन्नेत्यर्थः । अभ्ररीषदाच्छ न्नेति वा । बहुव्रीहेश्च ॥ क्तादिति अत इति चानुवर्तते । तदाह । बहुत्रीहेरिति ॥ क्तान्तादिति ॥ क्तान्तान्तादित्यर्थः । तेनेति ॥ जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न डीष् इत्यर्थः । “सुखादिभ्यः कर्तृवेदनायाम्' इत्यत्र सुखादिगणः पठितः । “जातिकालसुखा दिभ्योऽनाच्छादनात् तो कृतमितप्रतिपन्नाः' इति “नञ्सुभ्याम्' इति, बहोर्नञ्वदुत्तरपद भूम्नि' इति च, क्तान्तबहुव्रीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युत्तेर्बह्वादिपूर्व स्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः । ऊरुभिन्नीति ॥ ऊरू भिन्नौ असंयुक्तौ