पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३८३
बालमनोरमा ।

असंयोगोपधमुपसर्जनं यत्स्वाङ्ग तदन्ताद्दन्तात्प्रातिपदिकाद्वा डीष् । केशानतिक्रान्ता अतिकेशी-अतिकेशा । चन्द्रमुखी-चन्द्रमुखा संयोगो पधात्तु सुगुल्फा । “उपसर्जनात्' किम् । शिखा । स्वाङ्गं त्रिधा ।

अंद्रवं मूर्तिमत्स्वाङ्ग प्राणिस्थमविकारजम् ।

सुस्वेदा, द्रवत्वात् । सुज्ञाना, अमूर्तत्वात् । सुमुखा शाला, अप्राणिस्थत्वात् सुशोफा, विकारजत्वात् ।


विशेषणम्, तदन्तविधिः। तदाह । असंयोगोपधमित्यादिना ॥ वा डीषिति अस्वाङ्गपूर्वपदाद्वा' इत्यतः वेति “ अन्यतो डीष्' इत्यतः डीषित्यस्य चानुवृत्तेरिति भाव बहुव्रीहेरित्यनुवर्तमाने उपसर्जनग्रहणं किमर्थमित्याशङ्कय परिहरति । केशानतिक्रान्तेति अत्यादयः क्रान्ताद्यर्थे ' इति समासस्तत्पुरुष अत्र बहुव्रीहित्वाभावेऽपि प्राप्त्यर्थमुपसर्जन ग्रहणमिति भावः । 'एकविभक्ति चापूर्वनिपाते' इति केशशब्दस्य उपसर्जनत्वम्। चन्द्रमुखी चन्द्रमुखेति।चन्द्र इव मुखं यस्या इति विग्रहः । सुगुल्फेति । सु शोभनौ गुल्फौ यस्या इति विग्रहः।‘पदंघ्रिश्चरणोऽस्त्रियाम्'। 'तद्वन्थी घुटिके गुल्फौ' इत्यमरः। उपसर्जनात्। किमिति ॥ केवलकेशादिशब्दानां अनुपसर्जनानां स्त्रीत्वविरहादेवाप्राप्तेः प्रश्नः।शिखेति । अत्र स्वाङ्गान्तत्वात् केवलशिखाशब्दात्डीनिवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम् । अन्यथा टापं बाधि त्वा पक्षे डीषु स्यादिति भाव शोभना शिखा सुशिखेति क्वचित् पुस्तकेषु दृष्टम्, तत् प्रक्षिप्तं वेदितव्यम् । टाबन्तेन समासे अनदन्तत्वादेव प्राप्तिविरहात् । ननु स्वस्य अवयवीभूतस्य अङ्गं स्वाङ्गम् । तथा च सुमुखा शालेल्यादावतिव्याप्तिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात् ।किञ्च सुकेशी रथ्येत्यत्राव्या तत्र केशानां रथ्याङ्गत्वाभावादित्यत आह । स्वाङ्गं त्रिधेति ॥ “अद्रवम्मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टञ्च तेन चेत्तत्तथा युतम्” इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गमिह विवक्षितमि त्यर्थः।तत्र प्रथमार्धं प्रथमं स्वाङ्गलक्षणमित्यभिप्रेत्य विच्छिद्य पठति । अद्रवमिति।।न विद्यते द्रवः यस्य तत् अद्रवम् । मूर्तिः अवयवसंयोगः अस्यास्तीति मूर्तिमत्, अवयवसंयोगा समवायिकारणं द्रव्यमिति यावत् । प्राणिनि प्राणवति जन्तौ विद्यमानं प्राणिस्थम् । अविकारजं रोगादिविकाराजन्यच्च यत् तत् प्रथम स्वाङ्गमित्यर्थः। अद्रवमित्यस्य प्रयोजनमाह । सुस्वे देति ॥ सु शोभनः स्वेदः घर्मजः उदकप्रस्रवः यस्याः इति विग्रहः । स्वेदस्य शोभनत्वन्तु दुर्गन्धाभावः । द्रवत्वादिति ॥ न स्वाङ्गत्वमिति शेषः । अतो न डीषित्यर्थः । मूर्तिमदि त्यस्य प्रयोजनमाह । सुज्ञानेति ॥ सु शोभनं ज्ञानं यस्या इति विग्रहः । अमूर्तत्वादिति न स्वाङ्गत्वमिति शेषः। प्राणिस्थमित्यस्य प्रयोजनमाह । सुमुखा शालेति ॥ सु शोभनं मुखं प्रथमभागः यस्या इति विग्रहः । अप्राणिस्थत्वादिति । न स्वाङ्गत्वमिति शेष अविकारजमित्यस्य प्रयोजनमाह ।सुशोफेति ॥सु अधिकः शोफः श्वयथुः यस्या इति


भाष्योक्तमिदम् ।