पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

अतत्स्थं तत्र दृष्टं च सुकेशी-सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । --तेने चेत्तत्तथायुतम्' ॥ सुस्तनी-सुस्तना वा प्रतिमा । पेणवत्प्राणिसदृशे स्थितत्वात् ।

५११ । नासिकोदरोष्ठजङ्घादन्तकर्णश्रृङ्गाच्च । (४-१-५५)

एभ्यो वा डीष्स्यात्, आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते, पुरस्ताद्प वादन्यायात् । ओष्टादीनां पञ्चानां तु * असंयोगोपधात्' इति पर्युदासे प्राप्ते


विग्रहः । “शोफतु श्वयथुः' इत्यमरः । विकारजत्वादिति । रोगजत्वादित्यर्थः । न स्वाङ्गत्वमिति शेषः । अतत्स्थं तत्र दृष्टञ्चेति । द्वितीयं स्वाङ्गलक्षणम् । तच्छब्देन प्राणी परामृश्यते । अतत्स्थं अप्राणिस्थं तत्र प्राणिनि दृष्टं यत् तदपि स्वाङ्गमित्यर्थः । रथ्येति । रथ्यास्थानां केशानां प्राणिस्थत्वाभावात् पूर्वलक्षणेन स्वाङ्गत्वासिद्धेर्लक्षणान्तरमिति भावः । उक्तलक्षणमुदाहरणे योजयति । अप्राणिस्थस्यापीति ॥ इदानीं प्राणिस्थत्वाभावेऽपि कदा चित् प्राणिस्थत्वादपि स्वाङ्गत्वमित्यर्थः । तेन चेत्तत्तथा युतमिति ॥ तृतीयं स्वाङ्ग लक्षणम् । अत्र भाष्ये “स्वाङ्गमप्राणिनोऽपि' इति शेषः पूरितः । चेदिति यद्यर्थे । तेन प्राणि स्थेन स्तनाद्यङ्गाकृतिकावयवविशेषेण तत् अप्राणिद्रव्यं प्रतिमादि तथा प्राणिद्रव्यवत् युतं सम्बद्धं यदि तदा तत् स्तनाद्याकृतिकं अप्राणिनोऽपि स्वाङ्गमित्यर्थः । सुस्तनी सुस्तना वा प्रति मेति ॥ सु शेोभनौ स्तनौ स्तनाकृती अवयवौ यस्या इति विग्रहः । प्रतिमागतयोः स्तना कृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाभावात् प्राण्यन्तरे अदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्ते र्लक्षणान्तरमिदम् । अथोदाहरणे लक्षणं योजयति । प्राणिवदिति । सप्तम्यन्ताद्वतिः । प्राणिवत् प्राणिसदृशे प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः । नच कल्याणपाणिपादेति बहुव्रीहावपि डीषु स्यादिति वाच्यम् । “ अस्वाङ्गपूर्वपदाद्वा' इत्यनुवृत्तेः । अत्र हि पाणि पादेति समुदायो न स्वाङ्गम्, किन्तु स्वाङ्गसमुदाय एव । यत्तु स्वाङ्गं पादेति नतु तत् स्वाङ्गात् पूर्वपदात् परम्, पाणिपदेन व्यवधानात् । तथाच स्वाङ्गस्य पादस्य अस्वाङ्गात् पूर्वपदात् कल्याणशब्दात् परत्वाभावान्न डीषिति भाष्ये स्पष्टम् । नासिकोदरोष्ठजङ्गादन्तकर्ण शृङ्गाच्च ॥ “अस्वाङ्गपूर्वपदाद्वा' इत्यतो वेति “अन्यतो डीष' इत्यतो डीषिति चानुवर्तते । तदाह । एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः । पूर्वसूत्रादुपसर्जनादित्य नुवृत्तेः । ननु 'स्वाङ्गाच्च' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । आद्ययोरिति ।। नासिकोदरशब्दयेर्विषये “न कोडादिबह्वचः' इति निषेधः प्राप्तः, सः अनेन डीष्विकल्पविधिना बाध्द्यते इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका अनासिका, सहोदरा, अनुदरा, इत्यत्र “सहनञ्विद्यमानपूर्वाच्च' इति निषेधोऽपि अनेन बाध्द्यताम् ।'सहनञ्' इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्यत आह । पुरस्ता


१-२. भाष्योक्तमिदम्