सामग्री पर जाएँ

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४६२ । अन उपधालोपिनोऽन्यतरस्याम् । (४-१-२८)

अन्नन्ताद्वहुव्रीहेरुपधालोपिनो वा ङीप्स्यात् । पक्षे डाब्डीब्निषेधौ । बहुराज्ञी-बहुराजा । बहुराज्ञ्यों-बहुराजे-बडुराजानौ ।

४६३ । प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः । (७-३-४४)

प्रत्ययस्थात्ककारात्पूर्वस्याकारस्येकारः स्यादापि परे, स आप्सुपः परो न चेत् । सर्विका । कारिका । * अतः' किम् । नौका । * प्रत्ययस्थात्


रान्तत्वञ्च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते । अन उपधा ॥ इदं सूत्रं नात्र प्रकरणे पठितम् । किन्तु “दामहायनान्ताञ्च' इत्युत्तरं पठितं प्रसङ्गादत्रोपन्यस्तम् । “बहुव्रीहे रूधसो ङीष्' इत्यतो बहुव्रीहेरिति अनुवर्तते, सङ्खयाव्ययादेङीप्” इत्यतो ङीबिति च । प्रादिपदिकादित्यधिकृतम् अन इत्यनेन विशेष्यते, तदन्तधिः । तदाह । अन्नन्तादित्यादिना ॥ पक्षे डाब्ङीनिषेधाविति । कदाचित् ङीब्निषेधः डापु चेत्यर्थः । अन्यतरस्यांग्रहणस्य प्रयोजनमिदम् । अकृते त्वन्यतरस्यांग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्य “अनो बहुव्रीहेः' इति डीप्प्रतिषेधस्य “डाबुभाभ्याम्' इति डापश्च बहुराजन्शब्दादावुपधालोपिनि अनवकाशेन ङीपा बाधस्यात् । बहुराज्ञीति । ङीपि अल्लोपे सोर्हल्ङयादिलोपः इति भावः । बहुराजेति ॥ डापि ङीब्निषेधे च सौ रूपम् । बहुराश्याविति ॥ ङीप्पक्षे औडि यण् । बहुराजे इति ॥ डाप्पक्षे औङि रूपम् । बहुरराजानाविा ॥ ङीब्निषेधे औङि रूपम् । प्रत्ययस्थात् ॥ ककारादिति ॥ क् इति वर्णादित्यर्थः । अकार उच्चारणार्थः । “वर्णात्कार इत्युक्त्तेः । एवञ्च सूत्रे कादित्यत्र अकार उच्चारणार्थ इति सूचितम् । स आबिति । इत्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः । सुपः परो न चेदिति ।। सूत्रे असुपः इति पञ्चम्यन्तम्, असमर्थसमासः । आपि सुपः परस्मिन् सति इत्वं न भवतीत्यर्थो विवक्षित इति भावः । सर्विकेति । सर्वशब्दाद्वापि सवर्णदीर्घे सर्वाशब्दः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् । सर्वनामकायेम् । ततश्च “अव्ययसर्वनान्नाम्' इति टेः प्रागकच् । तत्र ककारादकार उच्चारणार्थः ।चकारः इत् । अक् इति ककारान्तः प्रत्ययः टेः प्राग्भवति । सर्वकाशब्देऽस्मिन् ककारात्पूर्वस्य अत इत्वे सर्विकेति रूपम् । ननु ककारात्पूर्वस्य अकारस्य कथमित्वम् । कारण व्यवहिततत्ता आप्परकत्वाभावादिति चेन्न । “येन नाव्यवधानम्’ इति न्यायेन तद्वयवधानस्य अबाधकत्वात् । कारिकेति ॥ कृङओ ण्वुल्, अकादेशः, 'अचो ञ्णिति' इति ऋकारस्य वृद्धिः रपरत्वं, कारकशब्दात् टाप्, सवर्णदीर्घः, कात्पूर्वस्य रेफादकारस्य इत्त्वम् कादिति सङ्घातग्रहणे तु एतिका इति न सिध्द्यति । एतच्छब्दे टेः प्रागकचि एतकद््शब्दात् जसि, त्यदाद्यत्वे, पररूपे अदन्तत्वाट्टापि, कात्पूर्वस्य इत्वे, एतिका इति रूपम्। अत्राकचि अकारस्य उच्चारणार्थतया प्रत्यय स्थकशब्दाभावात् इत्त्वन्न स्यात् । ककारादुत्तरावर्णस्याकजनवयवत्वात् । नचाकचि अकारस्य नोचारणार्थत्वमिति शङ्कयम् । एवं सति निरित्यव्यये अकचि नकिर् इति न स्यात् । अतः कादि त्यनेन ककारादित्येव विवक्षितम् । यका सकेत्यत्र ‘न यासयोः' इति इत्त्वनिषेधालिङ्गाच्च । अन्यथा