पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम्]
३४३
बालमनोरमा

मन्नन्तान्न ङीप् । सीमा-सीमानौ

४६० । अनो बहुव्रीहेः । (४-१-१२)

अन्नन्ताद्वहुव्रीहेर्न ङीप् । बहुयज्वा-बहुयज्वानौ ।

४६१ । डाबुभाभ्यामन्यतरस्याम् । (४-१-१३)

सूत्रद्वयोपात्ताभ्यां डाब्वा स्यात् । सीमा, सीमे-सीमानौ। दामा दामे-दामानौ । 'न पुंसि दाम' इत्यमरः । बहुयज्वा, बहुयज्वे-बहुयज्वानौ ।


"षट्संज्ञायां नलोपासिद्धत्वस्य न फलम्” इति “नलोपस्सुप्स्वर' इति सूत्रभाष्ये उक्तमित्याहु मनः ॥ 'न षट्स्वस्रादिभ्यः' इत्यतः नेति * ऋन्नेभ्यः' इत्यतः ङीबिति चानुवर्तते । मन इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । तदाह । मन्नन्तान्न ङीबिति । सीमेति ॥ “षिञ् बन्धने' औणादिको मनिन् प्रकृतेर्दीधैश्च । सीमन्शब्दात् ङीपि निषिद्धे राजवद्रूपम्। ङीपि सति तु अल्लोपे सीम्नीति स्यादिति भावः । ननु वक्ष्यमाणडापि सीमेति सौ रूपसिद्धेः किं ङीनिषेधेन इत्यत आह । सीमानाविति ॥ डापि तु सति सीमे इत्येव स्यादिति भावः । अनो बहुव्रीहेः ॥ अन इति बहुव्रीहेरित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीबिति च पूर्ववदनुवर्तते । तदाह । अन्नन्तादिति । बहुयज्वा, बहुयज्वानाविति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीपः प्रतिषेधे राजवद्रूपाणि । ‘न संयोगात् इति निषेधान्नायमुपधालोपी । अतोऽत्र * अन उपधालोपिनः’ इति विकल्पो न प्रवर्तितुमर्हति । डाबुभाभ्याम् । उभाभ्यामियेतद्वयावष्टे । सूत्रद्वयोपात्ताभ्यामिति ॥ मन इति “ अनो बहुव्रीहेः' इति च सूत्रद्वयोपात्तात् मन्नन्तात् अन्नन्तबहुव्रीहेश्व इत्यर्थः । नन्विहान्यतरस्यां ग्रहणं व्यर्थम् । नच तदभावे डाब्नित्यस्यादिति वाच्यम् । डापो नित्यत्वे तेनैव ङीपो निवृत्ति सम्भवेन ङीब्निषेधवैयर्थ्यात् । एवञ्च ङीप्निषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धेः अन्य तरस्यां ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति वित् । भाष्ये तु “ अन्यतरस्याम्' इति योगवि भागमाश्रित्य “बहुव्रीहौ वा' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दात् डापि टिलोपे सीमाशब्दात् सोर्हल्डयादिलोपः । डाबभावपक्षेऽपि “मन:’ इति ङीब्निषेधे सौ सीमे त्येव राजवदूपम् । तर्हि डाव्विधेः किं फलमित्यत आह । सीमे, सीमानाविति ॥ मन्नन्त विषये उदाहरणान्तरमाह । दामेति ॥ दाधातोरौणादिको मनिन् “हिरण्मयन्दाम् दक्षिणा इत्यादौ दामन्शब्दस्य नपुंसकत्वदर्शनादाह । न पुंसीति ॥ दामन्शब्दः पुंसि न, किन्तु स्त्रीनपुं सकयोरित्यर्थः । “निषिद्धलिङ्गं शेषार्थम्' इति परिभाषितत्वात् । अन्नन्तबहुव्रीहेरुदाहरति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः। डापि टिलोपे बहुयज्वाशब्दात् सोर्हल्डया दिलोपः। ङीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह । बहुयज्वे, बहुयज्वाना चिति ॥ शसि बहुयज्वनः । अत्र अल्लोपस्तु न भवति । “न संयोगाद्वमन्तात्' इति निषेधात् । अत एव “अन उपधालोपिनः' इत्यस्य नायं विषयः । अथ बहवो राजानो यस्या इति बहुव्रीहौ बहुराजन् शब्दात् “अनो बहुव्रीहेः' इति ङीब्निषेधे ‘डाबुभाभ्याम्' इति डापि च नान्तत्वमाका