काश्यपसंहिता/सिद्धिस्थानम्
← चिकित्सास्थानम् | काश्यपसंहिता सिद्धिस्थानम् काश्यपः |
कल्पस्थानम् → |
==अथ सप्तमं सिद्धिस्थानम् ==
राजपुत्रीया सिद्धिर्नाम प्रथमोऽध्यायः
अथातो राजपुत्रीयां सिद्धिं वक्ष्यामः १
इति ह स्माह भगवान् कश्यपः २
भगवन् राजपुत्राणामन्येषां वा महात्मनाम्
कतिवत्सर युक्तस्य बस्तिकर्म समीरितम् ३
स्नेहप्रमाणं किं बस्तौ बस्तयः के च तद्धिताः
केषु रोगेषु शस्यन्ते बस्तयः केषु गर्हिताः ४
आस्थापनमवस्थायां कस्यां केषु गदेषु च
बस्तिकर्मप्रमाणं किं --- ५
---
हिताहितं व्यापदः काः किं च तासां चिकित्सितम् ६
ऋषिमध्ये तथा पृष्टः प्रश्नान् प्रोवाच कश्यपः
निबोध सम्यग्भवता महत्कार्यं प्रचोदितम् ७
बस्तिकर्म हि दुर्ज्ञानं बालकेषु विशेषतः
--- ८
शिशूनामशिशूनां च बस्तिकर्मामृतं यथा
भिषजामर्थयशसी शिशोरायुः प्रजां पितुः ९
त्रयमेकपदे हन्ति भेषजं दुरनुष्ठितम्
तस्मादापन्नरोगेषु वातप्रायेषु देहिषु १०
---
जन्मप्रभृति बालानां बस्तिकर्मोपकल्पयेत् ११
इत्याह गार्ग्यो नेत्याह बालत्वादि दति माठरः
मासेन शस्यते मासाद्बालो हि स्यादवस्थितः १२
अल्पान्तरत्वान्नेत्याह तमात्रेयः पुनर्वसुः
चतुर्मास्योऽनुवास्य स्तु--- १३
--- प्राह स्तन्यक्षीरघृताशनात्
ऊर्ध्वाधो बृंहमाणस्तु रोगैः संतर्पणोद्भवैः
कृच्छ्रसाध्यो भवेद्ग्रस्तस्तस्मात् संवत्सराद्धितम्
तदा शक्यश्च शक्तश्च बालो व्रजति जल्पति
मति ---
---न्नभुक्
पाराशर्यस्तु नेत्याह तदा दुर्ललितो हि सः
त्रिवर्षस्यैव तु हितं नेति भेलस्तमब्रवीत्
अल्पान्तरत्वाद्व्याघाताद्विभ्रमाणामसंसहात्
षड्वर्षप्रभृतीनां तु भेल ---।
---षु पक्षेषु सूक्ष्मेष्वपि पुनः पुनः
निश्चयार्थं ततः सर्वे कश्यपं पर्यचोदयन्
स तेभ्यो निश्चयं प्राह शिशूनां बस्तिकर्मणि
अधस्तनोऽन्नभोक्ता च चयदावा---
---भिषक् पुण्याहे कनकरजतताम्रकांस्यत्रपुसीसलोहगजदन्ततरुवेणुशृङ्गास्थिनलानामन्यतमस्योपपत्त्या-मत्रकं कारयेच्छ्लक्ष्णमव्रणमृजु गुलिकामुखं गोपुच्छ---नोष्णोदकपरिषेकगन्धशुक्लवसनकुसुमरोचनाप्रतिसराभ्यलङ्करणभोजनविनोदान् क्रमेण सुखानाप्नुयात् । म्रक्षणोत्सादनोष्णोदकपरिषेकभोजनान्यहन्यहनि प्रागनुवासनादिष्यन्ते । पश्चान्निरूहेभ्य अ---कोष्णोदकोपचारब्रह्मचर्योपसेवनं च
विरिक्तवदिति परिषत्
तत्र श्लोकाः--
एतेन विधिना बस्तीन् दद्यादेकान्तरं भिषक्
अहन्यहनि बस्तीनां प्रणिधानं विनाशनम्
स्नेहो गुरुः स्वभावेन बहुत्वाद्ब---
---च्छूलं ज्वरोऽरुचिः
आनाहाध्मानकृमयो विड्भेदः कुष्ठसंभवः
अपस्मारजडत्वाद्यास्तस्मादेकान्तरं हितः
एकान्तरमपि प्राप्ते बस्तौ देये शरीरिणाम्
न देयो धातुवैषम्ये धातूनेव स सादयेत्
--- विचक्षणः
निरूहयेदर्थतस्तु ह्रासवृद्ध्या निरूहयन्
जडीभवन्ति स्रोतांसि स्नेहदानात्पुनः पुनः
उद्घाटनार्थं शुद्ध्यर्थं तेषामास्थापनं हितम्
निरूहकाले संप्राप्ते यो बालो न निरूह्यते
स ---
स्विन्नं पर्युषितं जीर्णं निवातशयनादिकम्
स्वभ्यक्तमकृताहारं भिषग्बालं निरूहयेत्
वातं मूत्रं पुरीषं च देहिनां विषमस्थितम्
अनुलोमयते शीघ्रं निरूहः साधु योजितः
आमं जडत्वमरचिं विष्टम्भं दो ---
--- दीपयत्यपि
वस्त्रस्य धावनमिव दर्पणस्येव मार्जनम्
आस्थापनं नृणां तद्वत् प्राज्ञैः कालोपपादितम्
अनुवासनवच्चास्य विधिः सर्वः प्रशस्यते
निरूहः पुनरावृत्तान्न तु वेगान् विधारयेत्
निरुपद्रवमाश्वस्तं ---
---णां विकारे स्नानमिष्यते
हृद्रोगे पार्श्वशूलेषु कुष्ठेषु कृमिकोष्ठिषु
प्रमेहोदरगुल्मेषु वातशूले सकुण्डले
संसृष्टदोषरोगेषु लीनगम्भीरगेषु च
रक्ते श्लेष्मणि वा दुष्टे निरूहमुपकल्पयेत्
---येत्
आकेशाग्रनखाग्रेभ्यो बस्तिर्बृंहयते नरान्
वर्णतेजोबलकरमायुष्यं शुक्रवर्धनम्
योनिप्रसादनं धन्यं वन्ध्यानामपि पुत्रदम्
बस्तिकर्म कृतं काले बालानाममृतोपमम्
वातिकान् वातसंसृष्टान् ---
---हबीजं सर्वं बस्तिरपोहति
यासां च गर्भाः स्रंसन्ते जाता वा न दृढाः सुताः
सुकुमार्यश्च या नार्यः सुभगा नित्यमैथुनाः
बहुस्त्रीकाश्च ये बाला ईश्वराणामयौवनाः
संक्षीयन्तेऽतिसङ्गाद्वा ये च ---
--- तेषां प्रशस्तममृतं यथा
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने राजपुत्रीया सिद्धिर्नाम प्रथमोऽध्यायः १
त्रिलक्षणा सिद्धिर्नाम द्वितीयोऽध्यायः
अथातस्त्रिलक्षणं सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
त्रिविधं लक्षणं पश्येन्नृणां पञ्चसु कर्मसु
दुर्यो---
---च पण्डितः
शरीरयात्रां कायाग्निं शक्तिं वर्णं बलं स्वरम्
दोषांश्च विकृतान् दृष्ट्वा यथादोषं विशोधयेत्
सर्वदोषाः प्रशाम्यन्ति बलमायुर्वपुर्वयः
अग्निः प्रजाश्च ---
विरेचनेन शुद्ध्यन्ति प्रसीदन्तीन्द्रियाणि च
धातवश्च विशुद्ध्यन्ते बीजं भवति कार्मुकम्
मेदोदौर्गन्ध्यकफजै रोगैर्वान्तश्च मुच्यते
रोगोपशान्तिर्ह्रासो वा विशुद्धिलाघवासु ---
आमाशयस्य पूर्णत्वं गौरवं हृदयस्य च
शीतज्वरागमाध्मानं ष्ठीवनं च मुहुर्मुहुः
शिरोग्रहोऽरुचिर्जाड्यमग्निसादोऽतिनिद्रता
आलस्यं व्याधिवृद्धिश्च विद्याद्दुर्वान्तलक्षणम्
--- सां च व्यथनमतिवान्तस्य लक्षणम्
यदा तु पित्तं रक्तं वा पुरीषं मिश्रमेव वा
वमत्यविरसं शूली न स सिद्ध्यति कुर्वतः
आमपक्वाशयौ पित्तं गुदो गर्भाशयासृजी
विरेक ---
---क्षुद्वातमूत्रानुलोमता
लाघवं चाग्निदीप्तिश्च सम्यक्स्रंसितलक्षणम्
कृच्छ्रविण्मूत्रता त्वक्षपिडका ज्वरसंभवः
अरुचिर्गौरवाध्माने दुर्विरिक्तस्य लक्षणम्
मूर्च्छा शूलं गुदभ्रंशो वात ---
बृंहणं कर्शनं चैव द्विविधं नस्यकर्म तु
बृंहणं वातरुक्प्राये कफाधिक्ये तु कर्शनम्
बृंहणं विविधैः स्नेहैर्मधुरौषधसंस्कृतैः
सूक्षैर्वा कटुसिद्धैर्वा स्नेहैः कर्शनमुच्यते
ते गुणा बृहण ---
--- नस्यमुच्यते
रोगशान्तिः प्रमोदश्च देहयात्रानुवर्तनम्
स्मृतिमेधाबलाग्न्याप्तिरिन्द्रियाणां प्रसन्नता
विद्धि सम्यक्कृते नस्ये दुर्योगस्तदलक्षणैः
उन्मादवातपित्ताँश्च ---
--- हृद्द्रवौ
सूर्यावर्तो न तृप्तिश्च नस्येनात्यपतपिते
अग्निदीप्तिर्वयःस्थानं पुष्टिर्वर्णो धृतिर्बलम्
वातानुलोमता शान्तिः स्वनुवासितलक्षणम्
विषादस्तृप्तिररुचिर ---
---णम्
विष्टम्भो गाढवर्चस्त्वं रोगवृद्धिर्विवर्णता
वेपथुर्वातवृद्धिश्च रूपं दुरनुवासिते
शुद्धस्फटिकसंकाशं यदा श्लेष्म विरिच्यते
विना मूत्रपुरीषेण ---
---
निरुपद्रवता क्षुच्च निरूढः सम्यगुच्यते
विण्मूत्रनिग्रहः शूलमानाहो व्याधिसन्नतिः
तन्द्री निद्राऽरुचिस्तृप्तिर्दुर्निरूढस्य लक्षणम्
वातप्रकोपो बलवान् सर्वदेहो ---
---बस्तयः कर्मसंज्ञिताः
अन्तरेषु निरूहाः स्युरतश्चोर्ध्वं न दापयेत्
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने त्रिलक्षणासिद्धिर्नाम द्वितीयोऽध्यायः २
वमनविरेचनीयासिद्धिर्नाम तृतीयोऽध्यायः
अथातो वमनविरेचनीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मयस्वलक्षणैर्वमनेनोपपादयेद्विधिवदुपस्निग्धमग्निबलावेक्षी वा यथाशक्तिस्विन्नमुषितमपरेद्युर्विजीर्णभक्तं प्रातरेव दन्तकाष्ठाद्यनु--कटफलनिचुलशिरीषादीनां लाभतः पल्लवान् सर्वशो वाऽऽहृत्यापां द्रोणमात्रेऽधिके वारिण्युत्क्वाथ्य ग्रहघ्नीकृतवेधनवचासैन्धवपिप्पलीवत्सकत्रपुसमदनबीजा --- उपविष्टमासने प्राङ्मुखो भिषगालोड्य तं कषायं ग्रहघ्न्यादिकल्कैर्नातिघनोष्णशीतमाकण्ठात् पाययेत् यथाबलमरिष्टं वा पञ्चषट्कालोत्तरमथ विधायोत्पलकुमुद---न वेगमुत्पन्नमवगृह्णीयात् न वेगान्तरे विश्रमयेत् उपसंगृहीतपार्श्वः
स्यादीषन्न्युब्जः
वमनं तु द्वित्रिवेगं कनीयः चतुष्पञ्चवेगं मध्यमं षट्सप्तवेगमुत्तममिति कोत्सः श--- महतां कृशमध्यबलवतां योग्यमिति पाराशर्यः व्याध्यवेक्षमिति भूयांसः ॥ अथैनं वान्तमुष्णाभिरद्भिराचाम्य निवाते प्राक्शिरसं शाययित्वाऽपामार्गपिप्पलीशिरीषान्यतमतण्डुला --- रितविलग्नस्य कफस्याकर्षणार्थं संक्षम्य तिष्ठन् प्रतिश्यायशिरोरोगाक्ष्यभिष्यन्दकर्णशूलकर्णपाकमन्याग्रहदन्तपुष्पुटकदन्तमूलशोथ-कण्ठगलग्रह --- स्य मण्डादिदिवाजागरोष्णोदकोपचार उपदिष्टः पथ्यतमः । शृङ्गवेरशृतमुदकं पिपासितः पिबेदीषदुष्णम् । अल्पशोऽपि शीतं ह्यस्य प्रतिश्यायादीन् प्रकोपयति --- कुष्ठहृल्लासज्वरारुचिनिद्रातन्द्रीरुपजनयति तस्मादित्येतत् षड्वर्षादीनामर्थे तदुपदेक्ष्यामोऽतिबालो ह्यशक्त एनं विधिमनुष्ठानहिते चक्षुराख्याति न --- दुपगृह्य देयमातङ्कशमनं विडङ्गमात्रं बदरास्थिमात्रं बदरमात्रमामलकमात्रमौषधं सर्वमेव संभृतं स्यात् । वमनोपगं विरेचनोपगं वा चाचुर्मास्याष्टम ---षु सर्वाणि सशर्कराणीति वृद्धकाश्यपः । तेषां पलाध्यर्धपलद्वित्रिपलान्यालोडनानि युक्त्या वा ततो विधार्य भिषग्धात्री वा कुशला कॢप्तन्खयाङ्गुल्यान्तर्खावयवा ---थ सर्पेण गौतमी वाऽङ्गुली हीना स्यान्नस्यमेकेनेति वृद्धकाश्यपः अतिबालस्य सक्षौद्रशर्करमपामार्गतण्डुलद्वयं त्रयं वेति वैदेहो जनकः ॥ अथ खलु --- नैरतिबाले हि भगवन् भिषग्वमनादीनि प्रयुञ्जानः कालमात्रावयोव्याधिबलाबलानामनभिज्ञो बालविनाशायात्मधर्मविनाशाय च संपद्यत इत्याह --- मिति वार्योविदः धात्रीगुरुलघुत्वहेतोरिति वात्स्यः धात्रीशर्मणि शिशुशर्मेति भूयांसः
अथ भगवान् कश्यपोऽब्रवीदसम्यगेतत् सर्वमप्यसाधकम ----
मिति
तत्र श्लोकाः --
शिशोर्व्याधौ समुत्पन्ने धात्रीणामेव शोधनम्
अलं बालसुखायेति को लोके नावबुद्ध्यते
यस्तु कायगतस्तस्य दोषाणां पूर्वसंचयः
अनुद्धृते कथं तस्मिन् ---
--- व्याधिस्तस्य प्रशाम्यति
अनागतविघातस्तु न वर्धयति वाऽऽशयम्
उभयोस्तु यदा सम्यक्शोधनं कुरुते भिषक्
तदाऽऽरोग्यं भवत्याशु शिशोर्लेखा यथाऽश्मनि
दोषाणामाशयो धात्री भूधराः सरितामिव
--- रोभूतो दोषो बालं प्रबाधते
तयोः संशोधनमृते न शातिरिति धारणा
स्वयं छर्दयते यस्तु पीतं पीतं पयः शिशुः
न तं कदाचिद्बाधन्ते व्याधयो देवमानुषाः
स्तनमौ ---
--- रार्यते
मुखपाकं च बालानां कुर्याद्धात्र्या ज्वरं तथा
तस्माद्बलादिवाचूच्या दद्यादेवौषधं शिशोः
अथ खलु विधिवदुपस्निग्धस्विन्नसुखोषितजीर्णाहार --- दन्तीश्यामाकम्पिल्लकनीलिकासप्तलावचाविषाणिकादीनां पूर्वोक्तानां लाभतः कर्षिणां भागानर्धपलिनां वा प्रस्थद्विप्रस्थमात्रीष्वप्सु चतुर्भागावशेष--- मूत्रसंयुक्तं नातिद्रवोष्णशीतं पाययेत् कालबलवयोगदावेक्षम् । बालं तु पूर्ववदाडूकेन प्रपाययेन्नवनीतेन वा सार्धमेतं लेययेत्तपश्चित्तं नित्यं द्वित्रिवेगं चतु---मेकद्वित्रिप्रस्थम् । अत
ऊर्ध्वमतियोगमाचक्षते । तत्रापि वमनवदुपचारः सर्व इति
तत्र श्लोकाः--
पित्तान्तं वमनं कुर्यात् कफान्तं च विरेचनम्
स्वयं चोपरतं श्रेष्ठमनाबाधं त ---
--- न तु वेगान् विधारयेत् ।
हस्तस्वेदं च शूलेषु बालकानां विधापयेत्
षड्वर्षप्रभृतीनां तु पटस्वेदः प्रशस्यते
अथ खल्वतिबृंहणादतिरौक्ष्यादतिकार्श्यादतिमांसमेदो ऽत्यल्पौषधत्वादौषधस्यातिघ-नत्वादतिद्रवत्वादत्युष्णत्वादतिशीतत्वादतिमधुरत्वादतिकटुत्वाद-तिलवणत्वादतिकषायत्वादत्यम्लत्वादतिक्षारत्वादतिबीभत्सरूपरसगन्धत्वात् --- न्नस्य पीतौषधस्य वा प्रचलायतः प्रस्वपतोऽन्यमनसः शीतवातशीतगृहशीतोदकशीताम्बरोपसेवनादुपानत्पादुकाग्निवर्जनाद्वेग-विधारणाद्वेगप्रेरणात्---वमनविरेचनौषधानां दुर्योगातियोगावुत्पद्येते तयोर्लक्षणानि भवन्ति --- आध्मानप्रतिश्यायविबन्धहृदयोपग्रहशूलपरिकतिकाच्छर्दिशिरोग्रहप्रवाहिकाहिक्काश्वा-सकासतालुशोषकण्ठ---मुखवैरस्यनिष्ठीविकोरोघातज्वरविषादस्रोतोमलप्रादुर्भावा दुर्योगलक्षणोपद्रवाः । श्रमदौर्बल्यविषादमोहस्मृतिश्रोत्रभ्रंशवान्क्तनुत्वविप्रलापजीवादानपक्वाशयशूलाप्लवन --- मुखहृदयशोषमन्यापार्श्वाक्षेपहृदयकम्पकेशमुखाङ्गरूक्षताकटिबस्तिवङ्क्षणशूलमेढ्रदाह-गुदशूलपाकभ्रंशातीसारोरुकम्पजानुघातजङ्घावा---च महागदा अतियोगादुत्पद्यन्ते
वमनं च विरेकाय विरेको वमनाय
यदा भवति तं प्राहुरतियोगविपर्ययम्
क्रूरकोष्ठोऽनुपस्निग्धोऽल्पेनौषधेन मृदुना प्रतिश्यायानाहकफप्रसेकाः । सश्लेष्मणि ज्वरेऽतीसारे चौषधं कुर्वतो बिवन्ध उत्पद्यते मृद्वल्पौषधेन वा । अतिविस्रंसनाद्गुदभ्रंशानिलप्रकोपसंज्ञानाश--- परिकर्तिकाः । स्नेहस्वेदहीनस्याजीर्णे पिबतश्चौषधं प्रवाहिकाशूलच्छर्दिहिक्काध्मानश्वासकासारोचकहृल्लासग्रहाः । अतिस्निग्धस्य शूलतन्द्रीनिद्रागुदस्रावशिरो---दाहौष्ठसंवेष्टाग्निसादयक्ष्माणः । वेगविधारणाद्दोषत्रयप्रकोपश्चाल्पजीवादानोन्मादभ्रमाः । स्नेहस्वेदोपपन्नं मृदुकोष्ठमपि बहुनौषधेन य उपक्रमते तस्यौषधं जीवादानाय संपद्यते --- गुणमवाप्नोत्यनिलं चास्य प्रकोपयति स प्रकुपितः प्रलापोन्मादहिक्काश्वासकासतालुशोषतृष्णाशूलबाधिर्यवाग्ग्रहबीजोपघाततिमिरपुष्पो-पघाताय संपद्यते --- मतिलवणमतिकषायमतिप्रतान्तकालमनुदीरितमवशेषितमौषधं वमनीयमुपकल्पितमस्य विरेचनाय संपद्यते । अजीर्णे सश्लेष्मणि वाऽतिद्रवमतिशीत --- यतो वा विरेचनं वमनाय संपद्यते तमौषधविपर्ययमाचक्षतेऽतियोगं च । स्नेहनिरूहयोश्चोर्ध्वभावं च दोषाणां मन्दप्रवृत्तिर्दुर्योगोऽप्रवृत्तिरयोगः । तयो --- शोधनमिष्यते निरूहो वा । तदस्य परिकर्तिकाध्मानपरिस्रावाटोपशूलनिद्रातिविषादरोगोपशमाय भवति । त्रिफलाचित्रकोरुपूगदन्तीश्यामासिद्धं चैनं घृतं पाययेत् प्रयोगेण अथवा जीवनीयौषधसिद्धं सर्पिस्तैलं पयो वा बस्तिना दद्याद् विबन्धाटोपशूलपरिस्रावप्रवाहिकामारुतोपशान्तये --- त्रिफलाकाश्मर्यमृद्वीकागन्धत्वङ्मूलशृतं वा पयो विबन्धपरिस्रावयोर्बस्तौ प्रशस्यते । गन्धर्वतैलं चास्यानुवासने प्रशस्यते सर्वानिलामयोपशमनं सिद्धं वा गन्धर्वकषायेण हिङ्गुदारु --- दारुबिल्वशलाटुपथ्यापूतिककल्केनाम्लकाञ्जिकयोपसिद्धेन पूर्ववदेवानुवासनं सर्वोपद्रवशमनमाहुरेतद्गन्धर्वतैमित्युच्यतेऽनुवासनीयमिति
तत्र श्लोकाः ।
--- मानस्य तथाऽतिमात्रं शीताम्भसा लेहनमेव पथ्यम्
तथोभयोः शीतकषायपान---
घृतेन चैन सशिरस्कमाशु दिग्धं सुशीतेन जलेन सिञ्चेत्
पादौ च धाव्यौ शिशिरोदकेन ---
---ष्टः ।
सकट्फलं पद्मयवासमोचं सकेशरोशीरसमङ्गयुक्तम्
एतैःसुपिष्टैःशिशिराम्बुयुक्तैःकल्कैस्तथा शीतपयोद्रुमाणाम्
प्रलिप्यमानं सशिरस्कपादं सं ---
--- श्च शय्याशनपानभोज्यैः ।
संस्थापयेदत्ययमाशु विद्वान् गृह यथा प्रज्वलितैकदेशम्
द्रव्यैस्तु तैरेव यथोपपत्त्या शृते जले छागपयोऽर्धमिश्रे ।
संस्कृत्य शाल्युत्तमलाजपेयां ---
---द्रुते च्छर्दिरुदीर्यते हि ।
अल्पाल्पकं चैव विलम्बितं च शीतं कषायं तु पिबेद्वरिष्ठम्
फलाम्लवल्कश्च रसाञ्जनं च लोध्रं च तत्तण्डुलवारियुक्तम्
पिबेद्विरेके वमनेन वृद्धे तेनाशु शान्तिं लभते हि बालः
--- नाम् ।
तत् स्थापनं श्रेष्ठमुदाहरन्ति कपित्थसिद्धश्च रसश्च मध्वा
जम्ब्वाम्रवेतसपयोद्रमाग्रैस्तोयं विपक्वमथ दुग्धमिश्रम्
भूयः शृतं प्रवरमाहुरेतत् पाने तथा बस्तिविधौ प्रयुक्तम्
---घ्नमोचौ ।
धातक्यथैतैरुदकं पयो वा शृतं यवागूश्च हिताऽतियोगे
मांसानि मुख्यानि च जाङ्गलानि संस्कृत्य यूषाम्रसकापयश्च
साज्ये विदद्ध्यादतियोगशान्त्यै ---
--- सा विरेको गुदशूलपाकौ
उपद्रवाश्चापि न कीर्तिता ये सर्वे शमं यान्ति भवत्यरोगः
स्वभ्यक्तगात्रस्य तु वातशूले स्वेदं यथायोग्यमुशन्तिवैद्याः ।
पेयां पिबेद्दीपन ---
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने वमनविरेचनीयासिद्धिर्नाम तृतीयोऽध्यायः ३
नस्तःकर्मीयासिद्धिर्नाम चतुर्थोऽध्यायः
अथातो नस्तःकर्मीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
शोधनं पूरणं चैव द्विविधं नस्यमुच्यते
कफानिलाधिकत्वे ष --- कवृश्चीकापिप्पलीक्ष्वाकुक्षवकप्रवरकशिग्रबीजशिरीषबीजापामार्गबीजनक्तमालबीज-लसुनबीजमयूरकसैन्धवसौवर्चलवराङ्गत्वग्ज्योतिष्मतीविश्वभेषजाद्यन्यतमं द्वे त्रीणि --- धौतायां दृषदि बीजपूरकस्वरसमूर्च्छितमार्द्रकस्वरसमूर्च्छितं वा तयोर्वाऽन्यतमं क्षौद्रमृद्वीकासंयुतमाडूके समवाप्येषदुष्णं कृत्वाऽऽतुराय प्राक्शिरसे शयानायोन्न तनासाग्राय ---गलधमनीमुखललाटनासिकाशिरःश्मश्रुमुखमन्यादेशानर्हतः स्वेदयित्वा भिषग्भिषगनुमतो वा वामेनाङ्गुष्ठेनावनम्य नासिकाग्रं शिरस्तो भवेद् दक्षिणे --- त्वन्यत्राल्पशोऽल्पशो दत्त्वा श्लेष्माणमाकर्षयेदभीक्ष्णं च हृदयादीनङ्गावयवान् स्वेदयेत् परिमृद्नीयादनु त्वल्पकफप्रसेचनात् । त्रिचतुष्पञ्च कृत्वेति वा --- तः शुष्कचूर्णानि प्रधमनानि जिघ्रतो वस्त्रपुटिकाबद्धानि भवन्ति । क्षौद्रयुतानि त्ववपीडः स्यात् । मुखनासिकयोरलं कफं विघातयतीति परिषत् ॥ तैरेव कटुतैलमज्जामूत्रसिद्ध --- । बालाय धात्र्यङ्कगताय बलादुपगृह्य देयं व्याधिर्ह्युपेक्ष्यमाणो विषवत् परिणमति तस्मान्नातिद्रतं नातिविलम्बितं नातिघनं नातितनुं नात्युष्णं नातिशीतं ---द्वा पिपासतः पीतवतो वा नापक्वे प्रतिश्याये नाजीर्णे न वातशिरोरोगज्वरयोर्न श्रमे न शिरःस्नातुकामस्य न सद्यःशिरःस्नातस्य न रजस्वलायाः --- कर्म विदध्यादन्यत्रात्ययात् । तस्यातिद्रुतं दत्तमौषधं प्राणानुपरुणद्धि खानि चास्योपतप्यन्ते श्वासकासहिक्कालालास्राववाग्ग्रहायासाश्चोत्पद्यन्ते । --- वाऽत्युष्णं दाहं व्रणान् दिवाकरावर्तं चोत्पादयति । अतिशीतं विष्टम्भयति । अतिबहु सकृदाशु प्रत्यागच्छति । अल्पं शश्वदावेजयति । अतिबहुशो वातप्रको --- अतितीक्ष्णमजस्रं स्मृतिभ्रंशोन्मादवातादीन् प्रकोपय
ति । एतेनैवोपचारो व्याख्यातः
अथ पीतवतो नस्यकर्मणा नासास्रावशिरोरोगगौरवकफप्रसेका --- पक्वे प्रतिश्याये घ्राणोपघातपूतिनाससोर्मीरमिन्मिन नासार्शांसि । अजीर्णप्रतिश्याये पार्श्वोपरोधकण्ठोद्ध्वंसकासश्वासच्छर्दिज्वरारोचकारतयः । शिरःस्नातस्य --- ऽर्धावभेदकज्वराग्निनाशाः । वातज्वरादिषु तानेव रोगान् संतनोति । रजस्वलाया ऋतुर्व्यापद्यते । शुद्धस्नाताया योनिरुपशुष्यति । गर्भिण्या हीनाङ्गस्य --- पघातारोचकौ । बुभुक्षितस्य क्लमारुची । तृषितस्य कासश्वासकफच्छर्दयः । अथ खल्वेषां यथार्थमौषधमुपदेक्ष्यामः रूक्षं स्निग्धं वोभयं हि नस्तःकर्म --- तेषां स्वं स्वं चिकित्सितमविरुद्धम् । अयं चात्र विशेषः -- मृद्वीकादाडिमजम्ब्वाम्रमुस्तशृतं कषायं शीतं स्रुतं पूतं सक्षौद्रशर्करं पाययेच्छर्द्याम् । पूर्ववच्च --- प्रशस्यते । रक्तशालिमुद्गमण्डसैन्धवोष्णभोजनं च स्वेदलङ्घनकवलग्रहावपीडष्ठीवनानि च धूपनधूमपाने च प्रतिश्याये लङ्घनमिति परिषत् ॥ जीर्णे --- कफप्रसेके त्रिफलाचूर्णं ससैन्धवं सक्षौद्रं वा लिह्यात् । चक्षुषोरुक्तं सैन्धवमरीचरसाञ्जनमनःशिला वाऽजाक्षीरपिष्टा वर्त्यः कण्डूतिमिरोपदेहदूषिकाशमन्यो भवन्ति । रसक्रिया वा स --- शिरोविरेचनधूमपानावपीडवमनविरेचननिरूहपथ्यभोजनानि शस्यन्ते । देवदारुतालीसमांसीमुस्तशिगु?रगन्धर्ववासकपुनर्नवाकल्कैः सक्षौद्रैस्तैलं पक्वमभीक्ष्णमुपचार्यमाणमस्य योऽतिनस्या --- र्य तृष्णालोः शीततो वेपमानस्य तीक्ष्णं शिरोविरेचनमनिलशङ्खहनुस्तम्भदिवाकरावर्तातिमोहानुपज नयति ज्वरं वा सोपद्रवं तेषु कुमारतैलं यष्टीमधुकतैलं पुनर्नवातैलं घृतं वा तद्वत्संस्कृतं वा --- त्रकं प्रशस्यते जाङ्गलश्च संस्कृतो रसः । निद्रानाशे मत्स्यमांसदधियवगोधूमशालिषष्टिकान्नगुडसंस्कृतानि स्नेह लवणवेषणोपदंशयुक्तान्यानयन्ति निद्राम् । रजस्वलायाः स्नाताया गर्भिण्याश्च पुष्पाध्याययूषाध्याय --- येभ्योऽध्यायेभ्यो भेषजं विदद्ध्यात् । क्षीरं
वा जीवनीयोपसिद्धमिति परिषत्
तत्र श्लोकाः --
कुमारतैलमेतेषां व्याधीनां शमनं परम्
नस्ये पाने तथाऽभ्यङ्गे पुराणं घृतमेव च
लङ्घनं धूमधूपौ च स्वेदोष्णपरिषेचनम्
उपनाहोऽवपीडश्च श ---
यवान्नं शालयो मुद्गधात्रीदाडिमसैन्धवम्
हितं नस्यविधौ भोज्यं तदा ह्यार्तस्य विभ्रमे
नस्यकर्मणि बालानां स्तनपानां विशेषतः
कटुतैलं प्रयुञ्जीत घृतं वा सैन्धवान्वितम्
बिन्दुं बिन्दुमथो द्वौ द्वौ त्रींस्त्रीन् वा रोगदर्शनात्
अङ्गुल्या नासयोर्दद्यादपिदध्यात् क्षणं ततः
तेनास्य पच्यते श्लेष्मा श्लेष्मणा न च बाध्यते
स्नानादीन् परिहारांश्च यथोक्तानुपचारयेत्
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने नस्तःकर्मीयासिद्धिर्नाम चतुर्थोऽध्यायः ४
क्रियासिद्धिर्नाम पञ्चमोऽध्यायः
अथातः क्रियासिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
क्रियाणां सिद्धिमन्विच्छन्नित्यं ब्रूयाद्भिषङ्नरः
तैलपात्रमिवात्मानं --- रोगदर्शनात् ३
अजीर्णं मैथनं यानमुच्चैर्भाष्यं दिवाशयम्
अतिचङ्क्रमणस्थानमसात्म्यादि च वर्जयेत् ४
अजीर्णे वर्धते व्याधिः पुनः कार्श्यं च जायते
क्रियायां मैथुनाच्छाण्ढ्यं पाण्डुत्वं च निगच्छति ५
योऽतीव नित्यं रमते यानाद्वातश्च कुप्यति
अग्निसादो दिवास्वप्नात् कफवृद्धिर्ज्वरोऽरुचिः ६
मन्यास्तम्भः शिरःशूलं वाक्पार्श्वहनुसंग्रहः
कण्ठोद्ध्वंसः श्रमो ग्लानिर्ज्वरश्चात्युञ्चभाषणात् ७
कटीवङ्क्षणपादोरुजानुबस्त्यनिलामयः
शर्कराश्मरिखल्ल्याद्या अतिचङ्क्रमणोद्भवाः ८
सुप्तताऽधरकायस्य तन्द्रीजाड्यादिविभ्रमाः
वातशोणितहृल्लासप्रे --- ९
वैवर्ण्यमरुचिर्ग्लानिः कण्डुपाण्डुज्वरभ्रमाः
कामलाकुष्ठवैसर्पपामाद्याश्चाप्यसात्म्यजाः १०
तेषां चिकित्सितं स्वं स्वमविरुद्धं विधापयेत्
कृशान् संबृंहयेच्चापि कर्शयेत् परिबृंहितान् ११
अतिदीर्घमतिस्थूलं जर्जरं स्फुटितं तनु
कुटिलं --- च वर्जयेत् १२
अतिह्रस्वः खरः स्थूलस्तनुदीर्घचिरस्थिताः
छिद्री महानुपहतो वर्जिता बस्तयो नव १३
अप्राप्तमतिनीतं च विन्यस्तमतिपीडितम्
स्रुतं विलग्नं शिथिलं रुद्धवातं चिराचिरम् १४
प्रज्ञापराधजा दोषाः प्रणेतुर्बस्तिकर्मणि
--- भगन्दरम् १५
जीवकर्षभसिद्धेन तं घृतेनानुवासयेत्
निरूहयेत् स्रंसयेद्वा ततः संपद्यते सुखी १६
क्षीरं यवान्नशाकानि जङ्गलान्यामिषाणि च
भोजयेत् स्नेहयुक्तानि गुदरोगोद्भवे शिशुम् १७
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने क्रियासिद्धिर्नाम पञ्चमोऽध्यायः ५
बस्तिकर्मीयासिद्धिर्नाम षष्ठोऽध्यायः
अथातो बस्तिकर्मीयां सिद्धि व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
--- गुदे मलाभिभूते गुदे समुपस्थितानिले वोपस्थितपुरीषे वा संस्थितश्लेष्मणि वा नेत्रे वा जिह्मे शिथिलवत्यपीडिते न स्नेहः
पक्वाशयमनुप्राप्नोति । तमयोगं विद्यात् ३
यः --- वातपित्तकफपुरीषमूत्राभिभूतस्य --- गच्छन्नूर्ध्वं वा प्रपद्यते विरिक्तस्रतविशोषिततृषितबुभुक्षितश्रान्तचिन्तेर्ष्यायासशोकभयार्तस्य वा न प्रत्यागच्छति तमतियोगं विद्यात् । तयोस्तृष्णामूर्च्छाहृल्लासज्वरदाहहृद्रोगश्वयथशूलार्शः पाण्डुका मला---तिस्तैमित्याद्या
रोगा उत्पद्यन्ते । तत्रापि यथादोषं स्नेहस्वेदवमनविरेचनास्थापनफलवतिहितमिताशनादिभिः शममापद्यते
तत्र श्लोकाः --
भृशमुत्पीडितो बस्तिर्बाहुल्याद्वातमूर्च्छितः ।
---
--- पित्तकफसंमिश्रो मुखे निपतितेऽपि वा ।
विष्टम्भयति वा तीव्रं प्राणानुपरुणद्धि वा
तृण्मूर्च्छास्वेदहृल्लासदाहगौरवविभ्रमाः
ऊर्ध्वमागच्छतस्तस्य रूपाण्येतानि लक्षयेत्
एतानि रूपाण्युपलभ्य ---
---विश्राम्य विश्राम्य पुनः पुनश्च
निपीडयेज्जातबलं बलेन शीताभिरद्भिः परिषेचयेच्च
वित्रासयेद्भीषयेद्रोदयेच्च ब्रूयान्मृतान् वा स्वजनेष्टबन्धून्
बद्धान् हतान् विप्रकृतांस्तथैव शीताम्बुसिक्तैर्व्यजनै ---
कुष्ठं सुपिष्टं कुमुदेन सार्धं गव्यं च पित्तं प्रपिबेज्जलेन
गोमूत्रयुक्तामभयां पिबेद्वा युक्तं त्रिवृत् सैन्धवसप्तलाद्यैः
विरेचनद्रव्यकषायसिद्धं सतैलमुष्णं लवणीकृतं च
निवृत्तदोषस्य सपञ्चमूलमास्थापनेऽत्यन्तमुशन्ति वृद्धाः
--- म्बुयुक्तेन रसेन चैनम् ।
संभोजयेज्जाङ्गलकेन शालीन् स्नानादि सर्वं परिहारयेच्च
ततोऽस्य सात्म्याग्निबलाद्यवेक्ष्य संबृंहयेद्बस्तिभिरेव बालम्
आनाहिनं शूलरुजापरीतं सुस्निग्धगात्रं फलवर्तियोगैः
विस्रंसयेत् पथ्यभुजं यथोक्तं --- ।
--- गैश्च सकिण्वसिद्धार्थकमाषचूर्णैः
ससैन्धवैस्तैलगुडोपपन्नैर्यवोपमाः फलवर्तीविदद्ध्यात्
आनाहिनस्ताः प्रणयेदपाने षट् सप्त पञ्चेति वयोनुरूपम्
ताभिर्विरिक्ते लभते स शर्मे विरेचयेत्तदसिद्धौ तु तीक्ष्णैः
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने बस्तिकर्मीयासिद्धिर्नाम
षष्ठोऽध्यायः ६
पञ्च कर्मीया सिद्धिर्नाम सप्तमोऽध्यायः
अथातः पञ्चकर्मीयां सिद्धिं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
अथ खलु भगवन् देहिनां व्याधयः के वमनसाध्या के न के विरेचनसाध्याः के न केऽनुवासनसाध्याः के न के निरूह साध्याः के न ---भगवान् कश्यपः--कफज्वरारुचिमुखवैरस्यकफप्रसेककफहृद्रोगविसूचिकाकासश्वासगलग्रहगलशुण्डि-कागलगण्डगण्डमालारोहिणिकाविदारिकाधोरक्तपित्तहृल्लासप्रमेहहलीमक---स्कन्दग्रहस्कन्दापस्मारस्कन्दपितृनैगमेषक्षीरगौरवक्षीरवृद्धिक्षीरघनत्वाजीर्णपरिकतिका-हृल्लासशूलाटोपातिविरिच्यमानगरितविषपी ताद्या वमनसाध्या इति ३
अत्र श्लोकः
कफाधिकाश्च ये रोगा --- ।
---
वृद्धजीवक पुष्पिण्यतुमती गर्भिणी कुटीगताऽल्पक्षीरा लघुक्षीरा नष्टक्षीरा छीरच्छर्दनपुत्रा प्रच्छर्दिनी सुभगा पण्डितमानिनी जाठरी वातज्वरी स्थूलोऽक्षिरोगी तृष्णालुर्मूर्च्छावान्निरूढोऽनुवासितः क्षतः क्षीणःसोप---गैन्नोऽतिबालोऽतिवृद्धो गुल्मप्लीहोर्ध्वरक्तलोमव्यापत्कर्णरोगशिरःकम्पार्दितार्धावभेदकसूर्यावर्तरेवतीपौण्डरी-कशकुनीपूतनामुखमण्डिकार्ताश्च न वाम्याः अगर्भा गर्भकामा विवर्णक्षीरा स्रवत्क्षीरा मन्दाग्नयो --- वैसर्पशोणितार्शोविषमाग्निकुष्ठश्वयथुश्वित्रोर्ध्वरक्तप्लीहगुल्ममधुमेहहलीमककामला-पाण्डुरोगहृद्रोगकृमिकोष्ठापस्मारोपस्तम्भोदावर्तकफोन्मादविद्रधिश्लीपदयोनि --- द्या
इति
अत्र श्लोकः --
व्याकुलान् सन्निपातोत्थान् पैत्तिकान् कफपैत्तिकान्
संसृष्टान् कफमूलांश्च स्रंसनेनाभ्युपक्रमेत्
अनुपस्निग्धरिक्तकोष्ठकृशस्थूलदुष्णाफदुर्बल ललितसुकुमारश्रीधन-नष्ट --- षक्षतपक्षहततृष्णातालुशोषोरुस्तम्भार्दितहनुग्रहवातहृद्रोगरेवतीकेवलवातार्ताश्च न विरेच्याः ॥ प्रतिश्यायकासश्वासशोषहिक्कामुखशोषापस्मारगलग्रहरोहिणिका --- तिमुखार्बुदाधिमन्थनासार्शालज्युपजिह्विकागलगण्डगण्डमालागलशुण्डिकाक्ष्यभि ष्यन्दाश्च नस्ततो विरेच्याः
दन्तचालहनुस्तम्भमन्यास्तम्भशिरोग्रहबाधिर्यकर्णशूलार्धावभेदकसू-र्यावर्तापतानक---स्वरभेदवाग्ग्रहौष्ठस्फुरणतिमिरमुखनासिकादौर्गन्ध्याकालपलितखालित्यानिलात्म-कार्ताश्च नस्तत उपस्नेह्या इति
अत्र श्लोकः --
स्नेहयेद्वातिकान्नस्तः कफजांस्तु विरेचयेत्
ऊर्ध्वजत्रुगतान् रोगांस्तद्धि तेषां परायणम्
शोषमर्मवातप्लीहवातगुल्ममूत्रकृच्छ्रपक्वाशयशूलकुक्षिवातकुण्डलयोनिशूलोदा-वर्तसन्धिग्रहगात्रवेष्टगात्रभेदापतानकार्दिताल्पपुष्पानष्टपुष्पानष्टबीजाकर्मण्यबी-जपरीता---अनुवास्या इति
अत्र श्लोकः --
वातिका वातभयिष्ठाः शोषणाः स्तम्भना गदाः
हुण्डना भञ्जनाश्चैव तेऽनुवास्या हितैषिणा
हृदयग्रहपाण्डुत्वश्वयथूदरप्रमेहकुष्ठरोगार्शोभगन्दरराजयक्ष्मवैसर्प --- कफरोगार्तांश्च नानुवासयेत् ॥ हृद्रोगोदावर्तवातगुल्मवातोदरविबन्धमूत्रग्रहबस्तिकुण्डलप्रमेहरक्तगुल्मयोनिजाड्योप-रोधपार्श्वरुजामधुमेहकुष्ठश्वित्रभगन्दरापस्तम्भसंसृष्ट --- हृदयद्रवकृशव्याधिपरिगतरक्तातीसारमूर्च्छाशोथमैथुनश्रमभयचिन्तेर्ष्याप्रजागरहताश्च न
निरूह्या इति
अत्र श्लोकाः --
स्नेहप्रमाणं यद्बस्तौ निरूहस्त्रिगुणस्ततः
एके तु सममेवाहुर्वयःकालादिदर्शनात्
निरूहं यदि वा बस्तिमल्पमल्पं महर्षयः
प्रशंसन्ति बहु त्वज्ञाः प्रभूतादत्ययो ध्रुवः
य एते कफजा रोगा एते संतर्पणोद्भवाः
ते चापतर्पणीयाः स्युर्लङ्घनीयास्त एव च
य एव वातिका रोगास्तेऽपतर्पणजाः स्मृताः
त एव बृंहणीयाः स्युः संसृष्टास्तु ततः परम्
स्नेहस्वेदोपपन्नानामूर्ध्वं चाधश्च शोधनम्
सर्वसंसृष्टरोगाणां स्नेहनं न तु बस्तिभिः
इति ह स्माह भगवान् कश्यपः
इति सिद्धिस्थाने पञ्चकर्मीयासिद्धिर्नाम सप्तमोऽध्यायः ७
मङ्गलसिद्धिर्नामाष्टमोऽध्यायः
अथातो मङ्गलसिद्धि व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मङ्गलान्येव सततं प्रजानामभिवर्धयेत्
सर्वे गृहस्थाः सेवेरन् दानानि च तपांसि च ३
मङ्गलाचारयुक्तानां नित्यं च नियतात्मनाम्
ददतां जुह्वतां चैव विनिपातो न विद्यते ४
आमः पक्वोऽपि वा स्नेहो बस्ति ---
--- नित्ये च तच्चोक्तमनुवासनम्
कषायैर्विविधैर्मिश्रः स्नेहः स्नेहैश्च मूर्च्छितः
सक्षौद्रमूत्रलवणो निरूहो दोषवाहनात्
त्रिफलाश्वगन्धाभूतीकदशमूलपुनर्नवाः
बलागोक्षुरकोशीर ---
--- लीनानि कुट्टयेत् ।
अष्टभागावशेषं तं जलद्रोणे विपाचयेत्
ततस्तेन कषायेण द्वौ प्रस्थौ तैलसर्पिषोः
पचेच्चतुर्गुणे क्षीरे कल्कं चेमं समावपेत्
सैन्धवं मधुकं द्राक्षां शतपुष्पां महासहाम्
बीजानि चात्मगुप्ताया मोर्वारुकस्य च
विडङ्गकुञ्चिकवचावृषकं शिरिवारिका
जीवनीयानि सर्वाणि दद्यात् खरबुषामपि
शैशुको नाम स स्नेहो बस्तिकर्मणि शस्यते
बालानां सर्वरोगघ्नो निदिष्टः पुण्यकर्मणा
वमनं स्रंसनीयानि दशमूलं च शोधयेत्
तत्कषायं परिस्राव्य गोमूत्रलवणान्वितम्
घृततैलार्धयुक्तोष्णं निरूहमुपकल्पयेत्
तेनास्य विलयं दोषा यान्ति वह्निश्च दीप्यते
श्रेष्ठामदनबीजानामाढकं निस्तुषीकृतम्
विपाचयेदपां द्रोणे चतुर्भागावशेषितम्
उपकुञ्चीखरबुषापिप्पल्यः सैन्धवं वचा
त्रपुसो --- नि शतपुष्पा यवान्यपि
स कषायः समायुक्तः क्षीरगोमूत्रकाञ्जिकैः
सर्वानिलामयहरः स निरूहोऽर्धतैलिकः
त्रिफला सारिवा श्यामा बृहत्यौ वत्सकत्वचम्
त्रायमाणाबलारास्नागुडूचीनिम्बकूलकम्
--- कल्पयेत्
महासहा शक्रयवाः शतपुष्पाऽथ वत्सकः
मधूकांशुमतीद्राक्षाः समुद्रान्ताऽथ बालकम्
क्षीरक्षौद्रघृतोपेतो निरूहः पित्तनाशनः
त्रिफलादारुभूतीककरञ्जद्वयचित्रकान्
एकाष्ठीलां विषाणीं च ---
कणामूलं त्रिवृद्दन्त्यौ पूर्वकल्पेन शोधयेत्
ऊर्ध्वाधःशोधनैः कल्कैर्युक्तो लवणतैलयोः
ईषदुष्णः सगोमूत्रो निरूहः कफनाशनः
अयं तु सर्वदोषघ्नो निरूहः कत्तृणादिकः
कतृणोशीरभूतीकत्रिफला ---
रास्नाश्वगन्धाश्वदंष्ट्राशिग्रुरयामाः शतावरी
एलापुनर्नवाभार्ग्यः सपटोला गुडूच्यपि
त्रिपलीनां जलद्रोणे पचेत् पादार्वशोपिते
ततस्तेन कषायेण पेष्याणीमानि योजयेत्
वचाजमोदे मदनपिप्पली ---
सिद्धिस्थानस्यैतावानेव भाग उपलब्धः