काश्यपसंहिता/चिकित्सास्थानम्
← इन्द्रियस्थानम् | काश्यपसंहिता चिकित्सास्थानम् काश्यपः |
सिद्धिस्थानम् → |
चिकित्सितस्थानम्
षष्ठं चिकित्सितस्थानम् ज्वरचिकित्सिताध्यायः
अथातो ज्वरचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
प्रजापतिं समासीनमृषिभिः पुण्यकर्मभिः
पप्रच्छ विनयाद्विद्वान् कश्यपं वृद्धजीवकः ३
सूत्रस्थाने भगवता निर्दिष्टो द्विविधो ज्वरः
पुनरष्टविधः प्रोक्तो निदाने तत्त्वदर्शिना ४
तेषां ज्वराणां कतमो जातमात्रस्य जायते
पूर्वरूपं च रूपं च किञ्च तस्य चिकित्सितम् ५
इतरेषां ज्वराणां च पूर्वरूपं सलक्षणम्
चिकित्सितं च किं तेषामामजीर्णज्वरेषु च ६
क्षीरपस्य च किं पथ्यं पथ्यं किंचान्नभोजिनः
क्षीरान्नभोजिनः किंच ज्वरितस्य शिशोर्हितम् ७
कां च वृत्तिं ---
गर्भिणीचिकित्सिताध्यायः
संयोज्य मधुना शीतं क्षीरं मधुरसाधिकम्
शर्करा मधु तैलं च यष्टीमधुकफाणितम्
एते हि लोहिता घ्नन्ति तथैव परिकर्तिकाम्
फाणितं तिलकल्कं च शर्करा मधुकं तथा
तण्डुलोदकसंयुक्तं सद्यो हन्ति प्रवाहिकाम्
काश्मर्यवृक्षत्वक्कल्कं श्यामामूलं तथैव च
यवागूं दधिमण्डेन सिद्धामल्पघृतां पिबेत्
किराततिक्तकं लोध्रं यष्टीमधुकमेव च
पातव्यं मधुसंयुक्तं सद्यो हन्ति प्रवाहिकाम्
वर्षाभूमूलनिष्क्वाथं योजयेद्देवदारुणा
तत् पिबेन्मधुसंयुक्तं शूना स्त्री मूर्वया सह
पिप्पल्यङ्कोठमूलानि वाजिलेण्डरसं तथा
माहिषेण पिबेद्दध्ना कामलायां चिकित्सितम्
मातुलुङ्गरसः पेयः सैन्धवेन सुयोजितः
हृदि शूलस्य भैषज्यं श्रेष्ठमित्याह कश्यपः
पिप्पलीमूलकल्कस्तु पत्रं गन्धप्रियङ्गवः
मातुलुङ्गरसश्चैव हृदि शूलस्य भेषजम्
प्रियङ्गवोऽथ पिप्पल्यो भद्रमुस्तं हरेणवः
क्षौद्रं बदरचूर्णं च षडङ्गं हृदयौषधम्
स्निग्धो मांसरसः पथ्यः सैन्धत्त्रावेनावचूर्णितः
माहिषे षष्टिका वाऽपि स्यादम्ले त्वचि मारुते
भद्रदारुहरीतक्यौ सैन्धवं कुष्ठमेव च
सफाणितं घृतं चैव लेह ऊर्ध्वानिलापहः
पिप्पल्यो गैरिकं भार्गी हिङ्गु कर्कटकी तथा
समाक्षिको भवेल्लेहो हिक्काश्वासनिबर्हणः
पिप्पली पिप्पलीमूलं मुस्ता नागरमेव च
दीपनीयं पिबेदेतं पयसा शर्कराऽन्वितम्
नित्यं स्नाता च हृष्टा च शुक्लवस्त्रधरा शुचिः
देवविप्रपरा सौम्या गर्भिणी पुत्रभागिनी
नैवोन्नता न प्रणता न गुरुं धारयेच्चिरम्
उद्वेजनं तथा हास्यं संघातं चापि वर्जयेत्
इति ह स्माह भगवान् कश्यपः
इति गर्भिणीचिकित्सितम्
दुष्प्रजाताचिकित्सिताध्यायः
अथातो दुष्प्रजाताचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
ये स्त्रीणां दुष्प्रजातानां व्याधयः संभवन्ति हि
नामतस्तान् प्रवक्ष्यामि तेषां चैव चिकित्सितम् ३
याः कृच्छ्रेण प्रजायन्ते प्रसूताश्चामयन्ति याः
स्नेहस्वेदैस्ततस्तासां क्षिप्रं वायुः प्रशाम्यति ४
यवागूं दीपनीयां तु स्मृतिमान् दातुमर्हति
यथा शेते सुखं नारी नीरुजा शयने सुखे ५
रात्रौ निर्गमनात्त्रासात् सहसोत्पनादपि
ईर्ष्याशोकभयक्रोधान्नानावेगविधारणात् ६
एतैश्चान्यैश्च नारीणां व्याधयः संभवन्ति हि
सूतिकानां दिवास्वप्नादजीर्णाद्ध्यशनादपि ७
योनिपृष्ठकटीभेदशाखावायुरसृग्दरः
वाताष्ठीला च गुल्मश्च हृदि शूलं प्रवाहिका ८
पुरीषमूत्रसंरोध आध्मानं शूलमेव च
शूयते दुष्यते योनिर्योनिशूलं च दारुणम् ९
वेपथुश्छर्दनं मोहो मन्यास्तम्भो हनुग्रहः
ज्वरातिसारो वैसर्पो दद्रुपामाविचर्चिकाः १०
किटिभान्यथ विस्फोटा गात्रे चार्धशिरोरुजा
हृद्रोगाश्चाक्षिरोगाश्च प्लीहा श्वयथुकामले ११
एते चान्ये च बहवो दुष्प्रजाताशरीरजाः
व्याधयः संप्रकुप्यन्ति चिकित्सितमतः परम् १२
द्वे पञ्चमूले भार्गी च मधुशिग्रुः शतावरी
उशीरं चन्दनं चैव श्वदंष्ट्रा मदयन्तिका १३
द्वे बले वसुकः पाठा पयस्या ह्यमृता तथा
वृषादनी सुगन्धा च तथा कार्या पुनर्नवा १४
मूर्वा गृध्रनखी मुस्ता मोरटस्तिल्वकस्तथा
इत्येतासां तु मूलानि यथालाभं समानयेत् १५
यवकोलकुलत्थानां त्रयः प्रस्थाः समास्ततः
एतान्यष्टगुणे तोये पाचयेद्भिषगुत्तमः १६
अष्टभागस्थितं तं तु परिपूतं निधापयेत्
तत्रावापमिदं दद्यान्मुष्टिकान्यौषधानि तु १७
पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पली
चव्यं द्वे रजनी चैव शृङ्गवेरं वचाऽभया १८
कुष्ठं रास्नाऽजमोदश्च विडङ्गं मरिचानि च
भद्रदारुरथैला च भार्गीकुटजतण्डुलाः १९
एतेषां कार्षिका भागा लवणानां पलं भवेत्
तैलप्रस्थं वसाप्रस्थं निष्क्वाथो द्विगुणो भवेत् २०
क्षीरप्रस्थो दधिप्रस्थो जलप्रस्थस्तथैव च
मातुलुङ्गाम्रपेशीनां रसप्रस्थार्धयोजितम् २१
शनैर्मृद्वग्निना सिद्धमथैनमवतारयेत्
अभ्यञ्जनेषु पानेषु बस्तिकर्मणि चोत्तमम् २२
ये तु वातसमुत्थानाः सूतिकानामुपद्रवाः
सर्वेषां शमनं श्रेष्ठमेतत्त्रैवृतमुत्तमम् २३
एतेषामेव सर्वेषां कल्कं निष्क्वाथ्य पाययेत्
यः कश्चित् सूतिकाव्याधिस्तं त्रिरात्रेण साधयेत् २४
द्वे पञ्चमूल्यौ भार्गी च रास्ना द्वे च पुनर्नवे
शिग्रुर्हंसपदी ---
बालग्रहचिकित्सिताध्यायः
--- श्चाभियाचनम्
ब्रह्मण्यभावात् क्रुद्धाऽपि प्राह सानुग्रहं वक्क्क्प्क्षईचः
एषां व्यतिक्रमाणां त्वं फलमाप्नुहि रेवति
सर्वग्रहाणामेका त्वं तुल्यवीर्यबलद्युतिः
भविष्यसि दुराधर्षा देवानामपि पूजिता
नाभिर्बहुभिश्चैव त्वां वक्ष्यन्ति जना भुवि
वारुणी रेवती ब्राह्मी कुमारी बहुपुत्रिका
शुष्का षष्ठी च यमिका धरणी मुखमण्डिका
माता शीतवती कण्डूः पूतनाऽथ निरुञ्चिका
रोदनी भूतमाता च लोकमातामहीति च
शरण्या पुण्यकीर्तिश्च नामानि तव विंशतिः
ये च त्वां पूजयिष्यन्ति श्रद्दधाना जना भुवि
नैतेषां सर्वभूतेभ्यो भविष्यति भयं क्वचित्
सायं प्रातश्च नामानि यो जपेत्तव विंशतिम्
शुचिर्नरः प्रजास्तस्य वर्धिष्यन्ति विपाप्मनः
तत उग्रेण तपसा स्कन्दमाराधयन् पुनः
तस्या मनीषितं ज्ञात्वा रेवतीमब्रवीद् गुहः
भ्रातॄणां च चतुर्णां वै पञ्चमो नन्दिकेश्वरः
भ्राता त्वं भगिनी षष्ठी लोके ख्याता भविष्यसि
यथा मां पूजयिष्यन्ति तथा त्वां सर्वदेहिनः
अस्मत्तुल्यप्रभावा त्वां भ्रातृमध्यगता सदा
षण्मुखी नित्यललिता वरदा कामरूपिणी
षष्ठी च ते तिथिः पूज्या पुण्या लोके भविष्यति
इत्येवं भगिनी जज्ञे षष्ठी स्कन्दस्य धीमतः
तस्मात् सा सततं पूज्या सा हि मूलं सुखायुषोः
तस्माच्च सूतिकाषष्ठीं पक्षषष्ठीं च पूजयेत्
उद्दिश्य षण्मुखीं षष्ठीं तथा लोकेषु नन्दति
इत्येवं रेवती जज्ञे सुरासुरनमस्कृता
वृद्धजीवक कर्माणि शृणु तस्याः प्रधानतः
ज्वरातिसारो वैसर्पः पीडनेन्द्रियदूषणम्
आनाहः शूलमरुचिर्मि---नं श्वासकासतृट्
निद्रानाशोऽतिनिद्रा च मुखपाको व्रणोद्भवः
एकाङ्गकः पक्षवधः क्षीरालसविसूचिकाः
हिक्का मूर्च्छा मदो मोहो रोदनं स्तब्धनेत्रता
स्वरवर्णाग्निभेदश्च पाण्डुत्वं कामलाऽरतिः
क्षीरदूषणनाशौ च शिरोरुग्घृदयद्रवः
नासाक्षिकर्णरोगाश्च त्रासकुञ्चनरोदनम्
ये चान्ये चैव विविधा ये रोगा नानुकीर्तिताः
रेवतीरोषसंभूता भूयिष्ठं त उदाहृताः
तस्मात् साधारणीं तस्याः क्रियां कुर्याद्विचक्षणः
अतश्च रेवतीमेके ग्रहमेके वदन्त्यपि
अश्वगन्धाऽजशृङ्गी च सारिवे द्वे पुनर्नवे
क्षुद्रा सहा विदारी च कषायः परिषेचने
पलङ्कषा सर्जरसः कुष्ठं गिरिकदम्बकः
देवदारु समञ्जिष्ठं सुरा तैलं सुवर्चिका
नलदं तुम्बरु त्वक् च समभागानि कारयेत्
एतेन गात्रमभ्यज्य ततः संपद्यते सुखी
अश्वकर्णस्य पुष्पाणि धातक्यास्तिन्दुकस्य च
ककुभस्य च पुष्पाणि दाडिमस्य धवस्य च
त्वक्क्षीरी मधुकं चैव क्षीरेण सह पाचयेत्
ततो मात्रां पिबेद्बालस्ततः संपद्यते सुखी
एतेष्वेव घृतं पक्वमतीसारमरोचकम्
हन्ति तृष्णाऽरुचिच्छर्दीः शर्करामधुसंयुतम्
उलूकगृध्ररोमाणि कट्वलाबूस्तथाऽजटी
यवाः श्वेता घृतं गव्यं पेयोऽयं रेवतीनुदे
वरुणारिष्टकौ चोभौ पुत्रञ्जीवकचित्रकौ
एतेषां तु त्वचं बालो माता धात्री च धारयेत्
उपद्रवाँश्च शमयेद्दृष्ट्वा स्वैः स्वैश्चिकित्सितैः
नक्षत्रे चास्य रेवत्यां पुष्टिकर्माणि कारयेत्
अतश्चोर्ध्वं प्रवक्ष्यामि पूतनायाश्चिकित्सितम्
यदुक्तं पूर्वभैषज्यं तच्च सर्वं प्रचारयेत्
असुरो दुन्दुभिर्नाम सुरासुरभयङ्करः
स्कन्दमायोधयन्मोहात् क्रुद्धं दृष्ट्वा च षण्मुखम्
विवेश क्रौञ्चस्य गुहां मातुलस्य महागिरेः
स्कन्दस्तं च महाशैलं मातुलं तं च दानवम्
शक्त्या जघान युगपत्ततो गुहवधाद्गुहः
आसीद्वर्णपरिभ्रष्टस्तं समेत्य सुरासुराः
दिशः समुद्राः सरितो महाभूतानि तोयदाः
पूत्यर्थं धूपयामासुस्ततः पूतोऽभवद्गुहः
यस्मिन् देशे तु भगवान् पूतः स्कन्दो महाबलः
संजज्ञे पूतना तस्मात्सर्वलोकभयङ्करी
तामब्रवीद्गुहः पुण्यां पूतनामग्रतः स्थिताम्
याहि त्वं भिन्नमर्यादा चेत्युक्ताऽऽह तथाऽस्त्विति
मलजा पूतना कौञ्जी वैश्वदेवी च पावनी
पञ्चनामेति चाप्युक्ता शृणु तस्याश्चिकित्सितम्
करञ्जशोभाञ्जनकावास्फोटा ह्याटरूषकः
सप्तपर्णश्च निम्बश्च भार्गी च परिषेचनम्
सुरासौवीरकाभ्यां च हरितालं मनःशिला
कुष्ठं सर्जरसं चैव तैलमभ्यञ्जनं पचेत्
पिप्पली पिप्पलीमूलं बृहती कण्टकारिका
शालपर्णी पृश्निपर्णी मधूकं मधुकस्तथा
एतं संभृत्य संभारं क्षीरे सर्पिर्विपाचयेत्
छर्दिं हिक्कां च शमयेदेतत् सर्पिर्नेषेवतः
कुक्कुटस्य पुरीषं च केशाश्चर्म पुराणकम्
जीर्णां च भिक्षुसङ्घाटीं सर्पनिर्मोचनं घृतम्
धूपमेतं प्रयुञ्जीत सन्ध्याकाले सुखङ्करम्
अनन्तां कुक्कुटीं बिम्बीमरिष्टामथ कर्कटीम्
सूत्रेण ग्रथिता एता धारयेत् पाणिपादयोः
अक्षिरोगचिकित्साभिः शमयेदन्धपूतनाम्
शीतङ्कारचिकित्साभिः शमयेच्छीतपूतनाम्
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरैः
पचेद् घृतं पञ्चमूल्या सैन्धवेन च पण्डितः
दीपनीयमिति प्रोक्तं सर्पिरेतन्महात्मना
सक्षौद्रशर्करं लेह्यं शमयेच्छीतपूतनाम्
रास्ना पुनर्नवा कुष्ठं तगरं देवदारु च
पत्रागुरुहरेण्वश्च गुडूची त्रिफला सिता
दशमूलं च तैः सर्पिः पचेत् क्षीरे चतुर्गुणे
विशुद्धं लेहयेद्बालं शाम्यते कटपूतना
बिल्वाङ्कोठौ कपित्थार्कौ कार्पासमटरूषकम्
उरुवूकस्य पत्राणि वंशस्याश्मन्तकस्य च
प्रपौण्डरीकं मधुकं शतपुष्पा पुनर्नवा
एतैस्तैलं घृतं वाऽथ पयसा योजितं पचेत्
एतेन गात्रमभ्यज्य सक्षारं पाययेदिदम्
मृद्वीकां च पयस्यां च श्रीपर्णीं सारिवा तथा
मधूकं नागपुष्पं च शीतपाकीयुतं पिबेत्
शर्करामधुसंयुक्तं तदा संपद्यते सुखी
अथास्य धूपनं दद्यात् सायं प्रातरतन्द्रितः
गोलोमीसर्पनिमोकं वचां सिद्धार्थकाँस्तथा
संसृज्य सर्पिषा तेन धूपयेत् सन्ध्ययोर्भिषक्
इत्यन्धपूतनायास्तु बिल्वाङ्कोठादि भेषजम्
जातमात्रं पुरा स्कन्दमुमाशङ्करसन्निधौ
गन्धालङ्कारपुष्पाद्यैर्मण्डयामास षण्मुखम्
इषुकं चित्रकं चास्य ललाटचक्षुषि व्यधात्
नासिकागण्डचिबुकवक्त्रे चित्रविशेषकान्
गन्धर्वापसरसश्चैनं रमयन्ति गणास्तथा
ततोऽब्रवीद्बालभावान्मातरं भगवान् गुहः
एतमेव महादेवजटाभारं विभूषणम्
देहीति न च लेभे तं पुनः पुनरपि ध्रुवम्
गुहस्त्वलभमानस्तं रुषितो ललितः सदा
अपविद्ध्य क्षितौ सर्वं निर्मृज्य मुखमण्डलम्
ततः क्षुब्धास्त्रयो लोका नष्टज्ञाना विचेतसः
दम्पती चापि संविग्नौ ददतुश्चामृतोद्भवम्
ततः प्रभृति सप्तानां चन्द्रः शिरसि दृश्यते
रुद्रस्कन्दादिनन्दीनां रेवत्याश्च महात्मनः
अपविद्धं तु यत् क्रोधात् स्कन्देन मुखमण्डलम्
ततो ग्रहः सा बभूव दारुणा मुखमण्डिका
निर्दहिष्यन्निव क्रोधात्ततस्तामब्रवीद्गुहः
अन्नं कुरु महाभागे सङ्कीर्णाकारकर्मणाम्
तथाऽस्त्विति च सा प्राह स्कन्दस्य परिचारिका
एवं मुखाचि जज्ञे शृणु तस्याश्चिकित्सितम्
कपित्थबिल्वतर्कारीबिम्बीगन्धर्वहस्तकाः
तैलमेतैस्तु संयुक्तं हितमभ्यञ्जनं शिशोः
खुड्डाकं पञ्चमूलं च श्योनाकोऽथ मधूलिका
मधूकानि त्वचः क्षीरी पिप्पल्यस्तैर्घृतं पचेत्
गव्यं क्षीरं गवां पक्वं शर्करामधुसंयुतम्
पिबेत् कोलमितं बालस्ततः संपद्यते सुखी
कुष्ठं सर्जरसं चैव यवाः सर्पिश्च धूपनम्
सर्पवीरल्लचाषाणां जिह्वानां धारणं मणेः
जीर्णे भोजनमप्यस्य ततः शस्तं प्रदापयेत्
अतश्चोर्ध्वं प्रवक्ष्यामि शीतपूतनयाऽर्दिते
नादेयी सुरसा बिम्बी कपित्थं जीवकस्तथा
नदीभल्लातकं श्यामा बिल्वं शीतशिवं तथा
एतं कषायं निष्क्वाथ्य परिषिञ्चेत् सुखाम्बुना
एतेन परिषिक्तस्य तैलमभ्यञ्जनं शृणु
गोमूत्रं बस्तमूत्रं च मुस्तकं देवदारु च
कुष्ठं च सर्वगन्धाश्च तैलमभ्यञ्जनं पचेत्
खदिरं रोहिणीसारं पलाशं ककुभत्वचम्
एतं संभृत्य संभारं क्षीरे सर्पिर्विपाचयेत्
तत् सिद्धं लेहयेत् काले शर्कराक्षौद्रमात्रया
शीतपूतनया ग्रस्तो मुच्यते पथ्यभोजनः
गृध्रोलूकतरक्षूणां पुरीषाणि समानयेत्
अग्निको बस्तलोमानि पिचुमन्दश्च धूपनम्
शीतपूतनया ग्रस्ते तच्चेदं च चिकित्सितम्
अत ऊर्ध्वं तु सर्वेषां शृणु सामान्यभेषजम्
अग्निमन्थः कुरबको वरुणः पारिभद्रकः
निशाऽनलः पोटगलः पूतिका रोहिषस्तथा
एतेन परिषिक्तस्य तैलमभ्यञ्जनं शृणु
प्रियङ्गू रोचना चैव शतपुष्पा कुटन्नटम्
तालीसपत्रं नलदं तथा चन्दनसारिवे
मधूकाङ्कोठमञ्जिष्ठापृथ्वीकाभूतिकानि च
एतैस्तैलं समं सिद्धं मुद्गाम्लोदकसंयुतम्
एतेन बालमभ्यक्तं मुञ्चत्याशु पितृग्रहः
बिम्बीकाश्मर्यमधुकं कुलत्था बदरा यवाः
खुड्डाकपञ्चमूलस्य निष्क्वाथं चात्र दापयेत्
खर्जूरं मुस्तकं चैव नारिकेलफलानि च
नालिकाङ्कुरमृद्वीका मधूकं मधुकं तथा
एतानि शुष्कचूर्णानि ---
प्लीहहलीमकचिकित्सिताध्यायः
---दोऽग्निबलसंक्षयः
मूर्च्छा तृष्णा भ्रमस्तन्द्री विषादारुचिगौरवम्
तस्य प्रतिक्रियां कुर्याद्वातपित्तहरीं बुधः
गुडूचीस्वरसे सिद्धं सक्षीरं माहिषं घृतम्
उपस्निग्धं ततस्तं तु स्रंसयेद्बलकालवित्
रसेनामलकानां तु त्रिवृद्युक्तेन युक्तितः
मधुराण्यविदाहीनि विरिक्तं नित्यमाशयेत्
दुर्बलस्य प्रयोज्या तु नित्यं गुडहरीतकी
रक्तपित्तौषधं यच्च तच्चाप्यत्र प्रशस्यते
धात्रीफलानां पक्वानां स्वरसस्याढकं भवेत्
पिप्पल्यो मधुकं द्राक्षा चन्दनोशीरबालकम्
घृतप्रस्थं पचेदेतैः पक्वे दद्याच्च शर्कराम्
तल्लिहेन्मधुना प्रातः पथ्याशी नीरुजो भवेत्
एतत् पित्तोत्तरे कार्यं शृणु वातोत्तरेऽपि तु
कल्याणकं बलातैलं कौमारं वा प्रयोजयेत्
कामलापाण्डुशोथानां तुल्यं कुर्याच्च भेषजम्
पथ्याशिना च सततं सेव्याऽगस्त्यहरीतकी
इति ह स्माह भगवान् कश्यपः
इति प्लीहाहलीमकचिकित्सतम्
उदावर्तचिकित्सिताध्यायः
अथात उदावर्तचिकित्सितमध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कषायकटुतिक्तरूक्षशीतपूतिशुष्कशाकवल्लूरपिण्याकसुनिषण्णकदुग्धिकाकोद्रवश्या-माकनीवारयवककट्ट वेत्राग्रकर्कन्धूकपित्थबिल्वकरीरगाङ्गेरुकीलिकुचपारावतभव्यकाञ्जिकशुक्तारनालतुषो-दकमुद्नकलायातसीप्रभृतिनिषेवणाद्रुक्षात्मनो वातभूयिष्ठप्रकृतेर्वेगविधारणादनिलः प्रकुपितो देहमूर्ध्वमुदामुत्य वायुनोदानेन प्रत्याहतो गुदमासाद्याशयं कृत्वाऽधोवहानि स्रोतांसि दूषयित्वा विण्मूत्रकफपित्तानिलशुक्रमार्गानुपरुणद्धि तत आनाहमुपजनयति प्राणहरं तल्लक्षणं वा । क्षीरमुपसेवमानस्य शिशोरचिरं वा कटीधारणाद्बस्तिगुदसंरोधनादतिरोदनात् प्रजागरादस्नेहात्क्षीरानुपसेवनाद्वेगविधारिण्या उपवासप्रमिताशनविषमाशनप्रजागरचित्तेर्ष्याव्यायामनित्यायाः क्षीरमामोद्यते वायुना तत् पीयमानमुदावर्ताय संपद्यते । तत्र षडुदावर्ताः । वातविण्मूत्रशुक्रच्छर्दिक्षवथूनां संधारणादप्रवृत्तेश्च षण्णां षडुच्यन्ते । तदुदावर्तसामान्यात्तु तमेकमेवाहुरेके । तेषां नवेगान्धारणीयेऽध्याये लक्षणान्यौषधानि चोक्तानि । तानीहापि तु दारुणत्वादस्य व्याधेर्यत्किञ्चिदुपदेक्ष्यामः । शूलमूर्च्छादाहानाहाध्मानानि प्रवृत्तिद्वेषो वैवर्ण्यं संज्ञानाशस्खलनपतनविलपनतृष्णाहिक्काश्वासप्रस्वेदाऽङ्गारपरिकर्तिकाभिरभीक्ष्णं बाध्यते बस्तिगुदहृदयपार्श्ववंक्षणोदरशूलमूरुसादो व्यथा चेत्सुदावर्तलक्षणानि । पञ्चादौ
पूर्वरूपाणि भवन्ति ३
पञ्चजनमादावुष्णलवणतैलाभ्यक्तं यथायोगं स्विन्नशरीरं फलवर्तिभिरुपक्रमेत् । विस्रंसितं च संतमुष्णस्निग्धमधुरलवणप्रायमशनं यवगोधूमषष्टिकशाकघृतप्रायमानूपौदकमांसप्रायं वाऽऽहारमनुपद्रवाय बलिने उपकल्पयेत् । कोशातकीकष्ट्वलाबुबीजपिप्पलीसैन्धवहिङ्गुवचाहरितालमनःशिलामाषचूर्णैर्गोमूत्रपिष्टैः फलवर्त्य उपवाता घृताक्ते कटुतैलाक्ते वा गुदे शलाकया प्रणयेत् । पूर्ववदेव चोपचारः । म्रक्षणाच्छादनपरिषेकाशनानि तानि चास्य स्निग्धोष्णानि विदध्यात् । सक्तुवाट्यकुल्माषापूपवास्तुकयवशाकसुधापत्रत्रिवृच्छाकपञ्चाङ्गुलश्रीवारिकाश्रीफला-सुवर्चलाकाकमाचीकलायपालङ्क्यादिभिश्च शाकैर्घृतसिद्धैर्भोजयेद्यवान्नम् । त्रिवृत्पीलुयवोत्कारान् वा गोमूत्रेण पाययेत् । त्रिवृद्धरीतकीश्यामासुधाः क्षीरेण युक्ता मूत्रैर्वानाहभेदनम् । त्रिफलादन्तीश्यामात्रिवृत्कम्पिल्लकपीलुस्वर्णक्षीरीवचासप्तलानीलिकाग्रहघ्नीचूर्णानि सुधाक्षीरेण गुटिका आमलकमात्रीः कृत्वा तत एकां भक्षयित्वोष्णोदकमूत्रानुपानादानाहैर्मुच्यते । एतान्येव त्रिफलादीनि क्षीरमूत्रवर्जितानि पञ्चकटुकपञ्चलवणहिङ्गुकुष्ठक्षारद्वयशतपुष्पापाठाश्रीफलयुतानि चूर्णानि कृत्वा बिडालपदकं क्षीरमद्योष्णवारिगोमूत्रान्यतमपीतमानाहशूलगुल्मभगन्द रार्शसां निर्णाशनं चूर्णं नाराचकमित्युच्यते तत् ४
तत्र श्लोकाः--
यदि व्यतिक्रमेदेतानुदावर्त उपक्रमान्
युक्तोष्णलवणं तस्य निरूहमुपकल्पयेत् ५
आस्थापनं च ---
राजयक्ष्मचिकित्सिताध्यायः
--- रोगानीकविनाशनम् ।
पिप्पल्यो विंशतिः श्रेष्ठा उदकार्धाढके शृताः
चतुर्भागावशेषं तं छागक्षीरेण तावता
शृतं नित्यं पिबेच्छोषी तेनैवाश्नीत नित्यदा
विना वाऽन्नोदकं शक्त्या तत्प्रधानो विमुच्यते
द्वादशाब्दानतीतो वा स्निग्धस्विन्नो वशोधितः
पिबेत्क्षीरेण पिप्पल्यः पञ्च पञ्च च वर्धयेत्
शतं तथैव ह्रसयेद्भोजनोदकवर्जितः
पिप्पलीवर्धमानं तु सर्वरोगविनाशनम्
पिप्पलीनां शतं वाऽपि शृतं तोयाढके सदा
पादशिष्टं समक्षीरं श्रपयेत्पुनरेव तत्
कफाधिके तु सक्षौद्रं सघृतं पवनाधिके
पित्तोत्तरे शर्करया सेवमानः सुखी भवेत्
पिप्पलीवर्धमानं तु वातश्लेष्मोत्तरे हितम्
सर्वत्र पिप्पलीक्षीरं हितं कालादिदर्शनात्
शरन्मुखे नागबलामूलान्युद्धृत्य शोषयेत्
सन्निधाय नवे भाण्डे व्रह्मचारी जितेन्द्रियः
स्त्रीशूद्रवर्जी विजने चूर्णं क्षीरेण पाययेत्
प्रथमे दिवसे कर्षं ततश्चोर्ध्वं विवर्धयेत्
ततः पलं पलं नित्यं पाययेत् पयसा शुचिः
जीर्णे तस्मिन् पिबेत् क्षीरं भक्तोदकविवर्जितः
मासात्सोपद्रवं शोषं हन्ति नागबला नृणाम्
प्रजामायुर्बलं मेधां प्रयताय ददात्यपि
षण्मासेन श्रुतधरः सर्वरोगविवर्जितः
अशीतिकोऽपि च युवा भवेत् संवत्सरान्नरः
मण्डूकपर्ण्याः शुण्ठ्याश्च ब्राह्म्याश्च मधुकस्य च
तद्गुणः सर्वरोगघ्नो विधिर्नागबलासमः
उद्वर्तितस्त्वजालेण्डैरजामूत्राभिषेचितः
अजाक्षीरं पिबेन्नान्यदजाभिश्च वसेत् सह
अधस्तादवटेऽजानां वसञ्छोषी विमुच्यते
आजं रसायनं ह्येतत्क्षयघ्नं बलवर्धनम्
हरीतकीनां श्रेष्ठानां द्वे शते जर्जरीकृते
दशमूलसुधादन्तीकरञ्जाधोगुडासनाः
मयूरकं देवदारु निचुलं कुटजाटजी
कटङ्कटेरी बृहती रास्ना श्योनाकचित्रकौ
वरुणं चेति संकुट्य पञ्चविंशतिकैः पलैः
षड्द्रोणेऽपां पचेदेतद्यावत्पञ्चाढकं स्थितम्
तस्मिन् पूते गुडतुलां दत्त्वा भूयश्च साधयेत्
परिवृत्तं समालक्ष्य घृतभाण्डे निधापयेत्
मरिचानि विडङ्गानि भार्गीं शक्रयवांस्तथा
आवपेत्कुटबीजानि पिप्पलीप्रस्थमेव च
मधुप्रस्थं च संसृज्य मासादूर्ध्वं प्रयोजयेत्
पथ्याशी मात्रया काले मुच्यते कफजैर्गदैः
महाभयारिष्ट इति कश्यपेन प्रकल्पितः
अपामार्गोऽश्वगन्धा च नाकुली गौरसर्षपाः
तिला बिल्वं च कल्कः स्यात्क्षयेषूद्वर्तनं हितम्
लशुनानां पलशतं निस्तुषं जर्जरीकृतम्
जलद्रोणेषु दशसु श्रपयेत्पादशेषितम्
घृताढकद्वयं तत्र विपचेज्जीवनैः सह
आजस्य पयसो द्रोणं क्वाथं च दशमूलिकम्
आवपेत्तद्घृतं गोप्यं प्रयोज्यं मासतः परम्
इन्द्राणीघृतमित्येतद्राजयक्ष्मविनाशनम्
वन्ध्याषण्ढकवृद्धानां कामदं पथ्यभोजिनाम्
लशुनं वाऽपि कल्पेन यथोक्तेनोपचारयेत्
घृतस्यार्धाढके गव्ये जर्जरं लशुनाढकम्
घृतभाण्डे समावाप्य वर्षं धान्येषु गोपयेत्
षण्मासमष्टमासं वा चतुर्मासमथो ततः
पेयं नागबलावच्च सर्वरोगैर्विमुच्यते
इन्द्राणीघृतकल्पेन द्राक्षासर्पिर्विपाचयेत्
तथा पीलुघृतं चैव सर्वरोगैर्विमुच्यते
इष्टयो रोहिणीस्नानं तयोर्मङ्गलसेवनम्
रुद्रपूजा धृतिः शौचं ब्रह्मचर्यं च शान्तये
षडेकादश चोक्तानि यानि रूपाणि यक्ष्मिणः
त एवोपद्रवास्तेषामशान्तौ स्वं चिकित्सितम्
इति ह स्माह भगवान् कश्यपः
इति चिकित्सितेषु राजयक्ष्मचिकित्सितम्
गुल्मचिकित्सिताध्यायः
अथातो गुल्मिनां चिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
वातादिसर्वरक्तोत्थाः कुक्षिहृत्पार्श्वबस्तिजाः
पञ्च पञ्चापदामग्र्या गुल्माः सूत्रे निदर्शिताः ३
चेष्टान्नपानसामान्या दोषाः प्रकुपिता नृणाम्
आमाशयमधिष्ठाय ततो गुल्मान् प्रकुर्वते ४
वातलेष्वन्नपानेषु वातलो यः प्रसज्जति
धावति प्लवतेऽधीते भृशं गायति नृत्यति ५
शीतवाताम्बुसेवी च शीतरूक्षकटुप्रियः
व्याधिक्लिष्टः कृशो रूक्षः सेवते तीक्ष्णमौषधम् ६
उदीरयति च्छर्दिं च बलाच्छर्दयतेऽपि वा
निरुणद्धि च वातादीन् तृप्तः पिबति वा बहु ७
शीघ्रयानेन वा यति व्यवायं वाऽतिसेवते
व्यायामाध्ययनस्त्रीषु बालो रूक्षश्च यो रतः ८
एतैश्चान्यैश्च कुपितो मारुतो दोषसंचयम्
करोति यत्र तत्रास्य स्थाने गुल्मो निचीयते ९
अग्निनाशोऽरुचिः शूलं च्छर्द्युद्गारान्त्रकूजनम्
पुरीषवर्तनं कार्श्यं गुल्मानां पूर्वलक्षणम् १०
शूलं मूर्च्छा ज्वरस्तोदः कार्श्यं तृष्णाऽरुणात्मता
पार्श्वांसाक्षकशूलं च वातगुल्मस्य लक्षणम् ११
ऊषायणं ज्वरो दाहस्तृष्णाविड्भेदेपीतताः
पित्तगुल्मे विजानीयात् पित्तलान्नोष्णसेविनः १२
रोमहर्षो ज्वरश्छर्दिररुचिर्हृदयग्रहः
मूत्राक्षिनखविट्शौक्ल्यं शैत्यं च कफगुल्मिनः १३
सर्वाण्येतानि रूपाणि लक्ष्यन्ते सान्निपातिके
रक्तगुल्मः स्त्रिया योनौ जायते न नृणां क्वचित् १४
दुष्प्रजाता गर्भा च गर्भस्रूर्बहुमैथुना
अन्वक्षगर्भकामा च बहुशीतार्तवा च या १५
उदावर्तनशीला च वातलान्ननिषेविणी
या स्त्री तस्याः प्रकुपितो वातो योनिं प्रपद्यते १६
निरुणद्ध्यार्तवं तत्र मासिकं संचिनोति च
रक्ते च संस्थिते नारी गर्भिण्यस्मीति मन्यते १७
स्तनमण्डलकृष्णत्वं रोमराजिः सदोहदा
गर्भिणीरूपमव्यक्तं भजते सर्वमेव तु १८
विपाकपाण्डुकार्श्यानि भवन्त्यभ्यधिकानि तु
इत्येवं लक्षणं स्त्रीणां रक्तगुल्मं प्रचक्षते १९
अनेकदोषसंघातो गुल्मवद्गुल्म उच्यते
त्रिदोषजादृते गुल्माः सिद्ध्यन्ति न चिरोत्थिताः २०
गुल्मिनं प्रथमं वैद्यः स्नेहस्वेदोपपादितम्
यथास्वदोषशमनैरौषधैः समुपक्रमेत् २१
बृंहणं चातिगुल्मेषु भृशं चातिविरूक्षणम्
अतिसंशोधनं चैव गुल्मिनां न प्रशस्यते २२
अभया पिप्पली व्योषं यावशूकोऽथ चित्रकः
सौवर्चलं विडङ्गानि वचा चेत्यक्षसंमिताः २३
सम्यक्पक्वं घृतप्रस्थं तत्पिबेच्च यथाबलम्
घृतं दशाङ्गमित्येतद्वातगुल्मनिवारणम् २४
सैन्धवं यावशूकश्च पिप्पली हस्तिपिप्पली
शुण्ठी चित्रक इत्येषां षड्भागाः पलिका पृथक् २५
तुल्यक्षीरं घृतं प्रस्थं पक्वं षट्पलमुच्यते
षट्पलं सर्वगुल्मेषु वैद्याः प्राहुर्यथाऽमृतम् २६
अभया पिप्पली द्राक्षा गुडूची सपुनर्नवा
लवणक्षारगन्धर्वभार्गीरास्नारसाञ्जनम् २७
तुल्यक्षीरं पचेदेतैर्घृतमक्षसमैर्भिषक्
शैशुकं नाम तत् सर्पिर्वातगुल्मनिवारणम् २८
स्निग्धस्विन्नसमाश्वस्तं गुल्मिनं स्रंसयेत्ततः
विरेचनेन मृदुना तैलेनैरण्डजेन वा २९
विरिक्तं च यथाकालं नातिरूक्षाणि भोजयेत्
युक्ताम्ललवणोष्णानि युक्तस्नेहरसानि च ३०
भोजयेद्गुल्मिनं नित्यं निदानगुरुवर्जकम्
न चातिभोजनं नित्यं शस्यते सर्वगुल्मिनाम् ३१
पिप्पलीं पिप्पलीमूलं चव्यं चित्रकनागरम्
बिल्वं कपित्थं बदरं वृषकं गणिकारिकाम् ३२
हिङ्गुदाडिमजीवन्तीवृक्षाम्लं साम्लवेतसम्
पौष्करं शटिदन्त्यौ च लवणानि च सर्वशः ३३
द्वौ क्षारावजमोदं च तुल्यं शुष्काणि चूर्णयेत्
मातुलुङ्गरसेनैते वटका बदरोपमाः ३४
कृताः सुखाम्बुना पेया मद्यैरम्लेन वा भिषक्
वातगुल्ममुदावर्तं प्लीहशूलं च नाशयेत् ३५
मयूरांस्तित्तिरीन् क्रौञ्चान् कपोतान् वनकुक्कटान्
यवगोधूमशालींश्च वातगुल्मी सदाऽश्नियात् ३६
यदि तु स्निह्यमानस्य वातगुल्मो न शाम्यति
हितमास्थापनं तस्य तथैवाप्यनुवासनम्
क्षीरानुपानामभयां सगुडां संप्रयोजयेत् ३७
गुल्मिनां बद्धवर्चानां ---
कुष्ठचिकित्सिताध्यायः
स्वेदो वाऽतिखरत्वमङ्गानामतिश्लक्ष्णता वा वैवर्ण्यं
रौक्ष्यं लोमहर्षः पिपासा गौरवं रागो दौर्बल्यं वेपथुः
पिडकारुषां संभवश्चातिवेदना च क्षतविसर्पणमिति
तत ऊर्ध्वमक्रियावतां कुष्ठानि जायन्ते । तत्र श्यावारुणशूलकण्डूचिमिचिमखरत्वपारुष्यसंस्तम्भायामैर्वातोत्तराणि विद्यात् दाहवेदनाज्वरविड्भेदोषायनपाकस्रावकोठानिकर्णा क्षिप्रोत्थानैः शीतमधुरकषायसर्पिरनुशयैश्च पित्तोत्तराणि विद्यात् श्वेतपाण्डुघनोत्सेधगुरुस्तैमित्यस्तम्भमहापरिग्रहाग्निसादैः शीतादितरानुशयैः कफोत्तराणि विद्यात् व्याविद्धरूपबहुस्फुटितपरिस्रावकृमिदाहरुजोपेतशरीरावयवपातनमशुचिविगन्धिशो-थबहुलमनेकोपद्रवं सान्निपातिकं रक्तत्वात् काकणमित्युच्यते । द्विदोषजानीतराणि तान्यनुव्याख्यामः -- वातोत्तरे कपालकुष्ठं पित्तोत्तरे त्वौदुम्बरं कफोत्तरे मण्डलकुष्ठं वातपैत्तिकमृष्यजिह्वं पित्तश्लैष्मिकं पौण्डरीकं सिध्मं च इति समासलक्षणम् । विस्तरतस्त्वष्टादश कुष्ठानि तान्यनुव्याख्यास्यामः--सिध्मं च विचर्चिका च पामा च दद्रुश्च किटिभं च कपालं च स्थूलारुष्कं च मण्डलकुष्ठं च विषजं चेति नव साध्यानि पौण्डरीकं च श्वित्रं च ऋष्यजिह्वं च शतारुष्कं चौदुम्बरं च काकणं च चर्मदलं चैककुष्ठं च विपादिका चेति नवासाध्यानि । सर्वं तु कुष्ठं त्वङ्मांसरुधिरलसीकाश्रयं स्पर्शघ्नं चेति वर्धमान च वैरूप्यकरं भवति । तत्तु रजोध्वस्तमलाबुवारणपुष्पीपुष्पसदृशं सिध्मं श्यामलोहितव्रणवेदनास्रावपाकवती विचर्चिका कण्डूतोदपाकस्रावारुष्मती पामा रौक्ष्यकण्डूदाहस्राववन्ति मण्डलानि वृद्धिमन्ति दद्रुः कृष्णश्यावारुणखरपरुषस्राववृद्धिमन्ति गुरूणि प्रशान्तानि च पुनः पुनरुत्पद्यन्ते किटिभानि कृष्णखरपरुषमलिनमनेकसंस्थानमण्डलं मण्डूलमृतुसन्धिषूष्णे चातिबाधते कपालाकृति कपालं पिच्छास्राववेदनादाहकण्डूतोदज्वरवैसर्पमहाब्रणपरिग्रहं मृदुखरनिभं महारुष्कं मण्डलैर्बन्धुजीवकुसुमोपमैर्दाहकण्डूवेदनास्राववद्भिर्मण्डलकुष्ठं लूताकीटपतङ्गसर्पदशनदष्टमुपेक्षितं व्यभिचारेण खरीभवति कृच्छ्रसाध्यं विषजं महाशयसमुत्सेधं जातं चिराद्भेदि पुण्डरीकपलाशवर्णं पौण्डरीकं श्वेतभावाच्छ्वित्रं पञ्चविधमुत्तरत्रोपदेक्ष्यामः ऋष्यजिह्वोपमं पारुष्यवैवर्ण्यगौरवर्णविल्केदैऋर्ष्यजिह्वं नीललोहितपीतासितैरनेकैररुद्भिः खरैः स्राविभिरुपद्रुतं शतारुष्कं पक्वोदुम्बरफलसदृशमस्रावि जडमनेकमौदुम्बरं व्याख्यातं काकणं हस्तिचर्मसदृशं खरं वृद्धिमच्चर्मदलं वैसर्पोद्भवं नित्यविसर्पि स्राववेदनाक्रिमिमदेककुष्ठं पाणिपादाङ्गुष्ठौष्ठजङ्घादण्डदेशेषुस्फुटितस्राविवेदनावतीमविपाकिनीं विपादिकां विद्यात् । सर्वरोगाश्चैव मोहादुपेक्ष्यमाणा असाध्यतां यान्ति असाध्यास्त्वाशु नृणां घ्नन्ति तस्मादात्महितायाशु प्रयतेत । कुष्ठेष्वादौ वातोत्तरेषु घृताच्छपानमनेकशो मण्डान्तरितं प्रशस्यते तिक्तसर्पिष
इतरोत्तरयोः वमनविरेचनास्थापन ---
मूत्रकृच्छ्रचिकित्सिताध्यायः
---
कटीस्कन्धातिधरणात् पित्तं क्रुद्धं कफानिलौ
अनुसृत्य यदा बस्तिं दूषयन्ति तदाश्रयाः
मूत्रकृच्छ्रं तदा जन्तोर्दारुणं संप्रवर्तते
सफेनमल्पमरुणं कालं वा शूलसंततम्
मूत्रमानद्धवर्चस्त्वं वाताघातस्य लक्षणम्
सदाहवेदनं पीतमत्युष्णं बाष्पसंहितम्
स्विद्यमानमुखो मूत्रं कुरुते पैत्तिके शिशुः
बहुलं कुरुते मूत्रमल्पबाधं सितं घनम्
बस्तिगौरवशोथौ च मूत्राघाते कफात्मके
द्वन्द्वजं द्वन्द्वरूपेभ्यः सर्वेभ्यः सान्निपातिकम्
रक्तजं पित्तवज्ज्ञेयं सरक्तस्य च मूत्रणात्
विशेषाः सन्निपातोत्थे मूर्च्छाभ्रमविलापकाः
सर्वेषु कार्श्यमरतिररुचिः सानवस्थितिः
तृष्णाशूलविषादातिस्त एव स्युरुपद्रवाः
चिरात् प्रमेहाः कुप्यन्ति सद्यः कृच्छ्राणि देहिनाम्
विशेषः कृच्छ्रमेहानां कृच्छ्रे दाहोऽति चेन्द्रिये
कुच्छ्राण्याशु निवर्तन्ते प्रमेहास्तु प्रसङ्गिनः
पित्तप्रायाणि कृच्छ्राणि वातस्थानाश्रयाणि च
तस्मात्सामान्ययोगेन चिकित्सा ह्युपदेक्ष्यते
शरमूलानि निष्क्वाथ्य शीतं पूतं च तज्जलम्
शर्करामधुसंयुक्तं पिबेत् कृच्छ्रोपशान्तये
मधुकं शरमूलं च त्रिफला सितवारिका
शृतं सशर्कराक्षौद्रं मूत्रकृच्छ्रनिवारणम्
तार्णस्य पञ्चमूलस्य रसं निष्क्वाथ्य पाययेत्
शर्कराक्षौद्रसंयुक्तं सर्वकृच्छ्रनिवारणम्
शतावरी पृथक्पर्णी कुलत्थबदराणि च
शर्करामधुसंयुक्तो लेहो मूत्रग्रहापहः
विपरीतं प्रमेहेभ्यो मूत्रकृच्छ्रेषु कल्पयेत्
औषधं पानमन्नं च सुस्निग्धं मृदु शोधयेत्
मधुराणीक्षुविकृतीस्त्रपुसानि घृतं पयः
सेवेत वर्जयेन्नित्यं यत् संग्राहि विदाहि च
ऊषकोऽथ बृहत्यौ द्वे श्वदंष्ट्रा वसुकावुभौ
शृङ्गवेरं यवाश्चैव दर्भो वृक्षादनी बला
पिप्पली तैः शृतं क्षीरं घृतमात्रादिमूर्च्छितम्
सरक्ते पाययेत्कृच्छ्रे क्षिप्रमेतेन सिध्यति
कनीयसीं पञ्चमूलीं कुलत्थं बदराणि च
शर्करामधुसंयुक्तो लेहो मूत्रग्रहे हितः
ससैन्धवो रसः कार्यो मूत्राघाते घृतायुतः
सतार्णपञ्चमूलो वा रास्नागोक्षुरकेण वा
द्वौ करञ्जौ निगर्भा च कार्पासो मधुशिग्रुकः
श्वदंष्ट्रा वसुकौ द्वौ च मृणालं चोत्पलानि च
पिप्पल्यः सैन्धवं चैव सूक्ष्मैला मरिचानि च
एतैः सिद्धां पिबेद्बालो यवागूं ससुवर्चलाम्
एतैरेवौषधैर्लेहं शर्करामधुसंयुतम्
प्रयुञ्जीत घृतं चैव पक्वं कृच्छ्रनिवारणम्
कनीयसी पञ्चमूली पञ्चकोलयवैः सह
कुलत्थमधुशिग्रूणि कार्यश्च सतिलो भवेत्
मन्दस्नेहो रसस्त्वेष सौवर्चलयुतो भवेत्
मूत्राघाते प्रयोक्तव्यः शर्करासु विशेषतः
एकत्रिदोषजैः कृच्छ्रैः शर्करास्तुल्यलक्षणाः
सुवर्णचूर्णसदृशास्तथा सर्षपसन्निभाः
रोचनेव गवां पित्ते संभवन्त्यनिलात्मनाम्
वातेनोन्मथितं मूत्रं खजितं पापकर्मणाम्
शर्कराः स्युर्विवृद्धास्ता अश्मर्यः संभवन्त्यथ
तदेतल्लक्षणं तासां नित्यमेव तु वेदना
शर्करा सहमूत्रेण निर्धावत्यपि कस्यचित्
शल्यवत्यश्मरी बस्तौ वर्धमानाऽवतिष्ठते
क्षीयते क्षीयमाणस्य पुष्यमाणस्य पुष्यति
तस्मान्न नित्यं रुजति तस्योद्धरणमिष्यते
अश्मर्युद्धरणं तीक्ष्णमौषधं स्रोत ईरणम्
साहसादतिबालेषु सर्वं नेच्छति कश्यपः
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने मूत्रकृच्छ्रचिकित्सिताध्यायः
अथ द्विव्रणीयचिकित्सिताध्यायः
अथातो द्विव्रणीयं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
सूत्रस्थाने भगवता द्वौ व्रणौ परिकीर्तितौ
तयोर्विस्तरमिच्छामि श्रोतुं लक्षणमेव च ३
अनुग्रहाय बालानां चेष्टाहारौषधानि च
इति पृष्टः स शिष्येण संपूज्याह प्रजापतिः ४
तरतन्त्रस्य समयं प्रब्रुवन्न च विस्तरम्
न शोभते सतां मध्ये लुब्धः काक इवाचितः ५
अवश्यं भिषजा त्वेतज्ज्ञातव्यमनसूयया
तस्मात्समयमात्रं भो शृणु बालहितेप्सया ६
अथ खलु द्वौ व्रणौ निजश्चागन्तुश्च । निजो वाताद्येकैकसर्वद्वन्द्वजः । क्षतभङ्गविद्धपाटितदग्धच्छिन्ननिष्पिष्टाभिरूनशस्त्रतृणकाष्ठाग्निविषदन्तनखशापमन्त्रमू-लकर्मादिज आगन्तुः । तस्य निजवदेव
लक्षणमौषधं च स्वतर्केणानुविदध्यात् ७
स्तम्भकाठिन्याल्पस्रावशूलतोदस्फुरणकषायास्यत्वैर्वातिकं विद्यात् ज्वरदाहमोहतृष्णाशुपाकलौहित्यावदारणारुचिदौर्गन्ध्यैः पैत्तिकं विद्यात् स्तैमित्यशैत्यमार्दवमन्दवेदनास्नेहपाण्डवचिरकारित्वातिस्रावैः
कफजं विद्यात् सर्वरूपं सान्निपातिकं द्विदोषं संसृष्टं विद्यात् ८
इत्यत्र श्लोकः--
सर्वव्रणानां प्रकृतिनिरुक्ता दोषदर्शनात्
न हि दोषाननाश्रित्य व्रणः कश्चिच्छरीरिणः ९
तेषामुपक्रमं धात्रीबालनिग्रहौ संशमनं बन्धनम् उत्क्लिन्नप्रक्षालनं कल्कप्रणिधानं शोधनं रोपणं सवर्णीकरणम् इत्येतैः स्नेहपानसंभोजनोपनाहस्वेदोष्णपरिषेकमधुराम्ललवणैर्वातव्रणं शीतोदकदुग्धपरिषेकशीतप्रलेपनमधुरकषायतिक्तकल्कघृतपानमुद्गशालिजाङ्गलोपचा-रैरुष्णाम्लकटुलवणबन्धनसंपूरणवर्जनैश्च पैत्तिकव्रणम् उष्णतीक्ष्णतिक्तकटुकषायक्षारसंशोधनोपनाहस्वेदनोष्णवारिपरिषेकलङ्घनबन्धनस्रावणैः कफव्रणं शमयेत् । अतो युक्त्येतरान् ।
स्रावणपाटनदहनसीवनैषणसाहसादीन्यतिबालेषु न कुर्यादिति १०
अत्र श्लोकाः--
जीर्णैः प्रक्षालितैर्वस्त्रैस्तथा बद्धं निधापयेत्
यथौषधं न पतति बालकं च न पीडयेत् ११
वैसर्पः श्वयथुर्दाहो ज्वरस्तृडतिबन्धनात्
शिथिलादनवस्थानं मध्यमस्तु प्रशस्यते १२
वातार्कतृणकाष्ठाम्बुमक्षिकादिभयाद्व्रणम्
बन्धो रक्षति शीघ्रं च दह्यते न च खादति १३
ज्वरवैसर्पदाहार्तं रक्तपित्तोल्वणं व्रणम्
न बध्नीयाद्द्विरह्नस्तु सर्वं प्रक्षालयेद्व्रणम् १४
द्वे हरिद्रे तिलाः सर्पिः सैन्धवं मधुकं त्रिवृत्
अरिष्टपत्रमित्येष कल्कः शोधनरोपणः १५
शोधने रोपणे चैव युक्त्या क्षौद्ररसक्रिया
तत्र निर्वापणे चोक्ता घृतेनोदकसक्तवः १६
समङ्गाधातकीपुष्पमग्रस्थामलकीत्वचम्
घृतं कृष्णास्तिला मांसी कल्कोऽयं व्रणरोपणः १७
एतैरेवौषधैः सर्वैः सर्पिस्तैलमथो पचेत्
व्रणरोपणमित्याहुः कट्फलं वाऽवचूर्णितम् १८
ज्वरदाहपिपासार्त्या पच्यमानं व्रणं वदेत्
तेषां निवृत्तौ जानीयात् पक्वं पीनोन्नताकृतिम् १९
मर्मस्थश्चेदुपेक्ष्यः स्याद्बालं धात्रीं च पूरयेत्
गोदध्ना म्रक्षितं चैनं बध्नीयाल्लवणान्वितम् २०
अमर्मजं पाटयेद्वा नेत्येके पूर्वदर्शनात्
रक्तक्षयादल्पभावाद्धन्याद्बालं कुपण्डितः २१
पाटितं वा प्र---
---मञ्जिष्ठाथ मनःशिला ।
प्रलेपः सघृतक्षौद्रः सवर्णकरणः परम्
त्रिफला जातिपुष्पाणि कासीसं लोहपत्रिका
लेपः सगोमयरसः सवर्णकरणः परम्
चतुष्पदानां त्वग्रोमखुरशृङ्गास्थिभस्मना
तैलाक्ता चूर्णिता भूमिर्भवेल्लोमरुहा पुनः
अथ खलु बालानामष्टौ पिडकाः स्वशरीरदोषात् स्वदोषाच्चोत्पद्यन्ते । तासां निदानलक्षणे प्रोक्ते नामरूपचिकित्सां च ब्रूमः -- शराविका च कच्छपिका च जालिनी च ताः कफप्रायाः सर्षपिका चाऽलजी च विद्रधिश्च ताः पित्ताधिकाः विनता वाताधिका सर्वदोषजा त्वरुंषिका । तासां लक्षणानिमध्ये निम्ना शराविका श्लक्ष्णोन्नता कच्छपिका सिराजालतनुच्छिद्रवती जालिनी सर्षपाभाऽल्पाऽशुपाकिनी बहुला वा सर्षपिका बहूपद्रवाऽऽशुपाकवैसर्पाऽलजी विनता तूदरे पृष्ठे वाऽवगाढनीला रुजावती मांसपाकस्तु पित्तप्रकोपो वा उत्पद्यते स एव सन्धिषु मर्मसु वा विद्रधिरित्युच्यते विदह्याशु अङ्गं विदीर्यत इति विद्रधिः सा बहिरन्तश्चोत्पद्यते ते चोभे बालानां कृच्छ्रसाध्ये । त्रिदोषजा त्वरुंषिका चतुर्विधा दोषभेदादेकैकाधिकसमदोषत्वात् शूलतोदाटोपस्फुरणानाहपामा वातलिङ्गानि ज्वरतृष्णादाहमोहमदप्रलापाः पित्तलिङ्गानि शैत्यपैच्छिल्यबहुक्लेदारुचिस्तैमित्यानि कफलिङ्गानि सर्वैः समदोषत्वम् अन्यत्रापि च व्रणे पूर्वोक्तानि च
लक्षणानि
तत्र श्लोकाः--
पूर्वं सराविकाद्यासु सुस्निग्धस्य विरेचनम्
शस्यते च भिषक् तासु व्रणकर्म यथोचितम्
निवर्तनमपक्वासु पिडकासु प्रयोजयेत्
परिषेकैः प्रलेपैश्च घृतपानैहिताशनैः
अरुंषिकासु सततं शिरसो मुण्डनं हितम्
स्नापनं म्रक्षणं चैव व्रणतैलैरनेकशः
द्वे हरिद्रे त्रिकटुकं सैन्धवं वा मनःशिला
सुवर्णजो जपा जातिर्वचा कुष्ठं रसक्रिया
अश्वघ्नमूलोदकणादशमूलं फलत्रयम्
एतैर्गोमूत्रसंयुक्तैः प्रमृद्वीयादरुंषिकाम्
एतैरेव पचेत्तैलं हन्ति तच्चाप्यरुंषिकाम्
अथ चेद्वेदनां दद्यात्तिलैरुद्वर्तयेत्ततः
स्वादुना व्रणतैलेन नवनीतेन वा दिहेत्
अथो सलोहितां छिन्नां क्षुरेणारुंषिकां भिषक्
तुल्याभ्यां क्षीरमूत्राभ्यां सिद्धोष्णाभ्यां प्रलेपयेत्
न चेदेवं निवर्तेरन् स्रावणं तु ततः परम्
यदा पक्वेष्टकाचूर्णैरभीक्ष्णं गुण्ड्यते शिशुः
त्रपुसैर्वारुबीजं वा खादतोऽङ्गेषु शुष्यति
मेदोऽभिवर्धनं चान्नं दिवास्वप्नं च सेवते
तस्य मेदः प्रकुपितं वायुना त्वचमाहृतम्
मेदःपूर्णत्वचानद्धा जनयत्यरकीलिकाः
लवकर्तनतश्चैता दृश्यन्ते च क्वचित् क्वचित्
कर्कन्धुगोस्तनप्रख्या वर्धमाना भवन्ति च
तासां दहनमेवागे?र तप्तैः स्नेहैर्गुडेन वा
एकैकशो हितं जन्तोश्छित्वा वा क्षारसारणम्
बन्धनं क्षारसूत्रैर्वा व्रणकर्म ततः परम्
विरुद्धाद्ध्यशनपूतिपर्युषितात्युष्णविषमाशनात्तुर ---
---णादवलङ्घनादवधूननाद्बीजानां कोद्रवशणबीजमूलकातसीकार्पासानां तुवरीकुलत्थादीनां दह्यमानानां गन्धाघ्राणात् तथा
वस्त्रावकर्तनालभल्लातकास्थि ---
---शालिपिष्टकसाधितम् ।
शीतं सशर्करक्षौद्रनवनीतं---
---लेहयेन्नवनीतं वा लेहयेद्वा तपश्चितम् ।
दीप्ताग्निमवसन्नाग्नि स्तन्येनैव तु धारयेत्
चपलानां तु बालानां सर्पतां वा तथा भृशम्
तृणकाष्ठेष्टकाशस्त्रैरन्यैर्वाऽपि क्षतं भवेत्
आमच्छेदवदे दारुणस्तस्य चात्ययः
संदध्यात्तं निनिर्मृज्य सिञ्चेदुष्णोदकेन च
अथातिरुधिरस्रावे संस्तम्भ्यः शीतवारिणा
स्वेदयेद्वा प्रसङ्गे तु दहनं क्षारमेव वा
सहितं मधुसर्पिर्भ्यां बध्नीयात् पथ्यभोजिनः
उभयोर्घृतपानं च विदध्याद्व्रणवत् क्रियाम्
शीतकालेषु भूयिष्ठं बालानां कुक्षिशायिनाम्
स्वमूत्रोपहताङ्गानां मूत्रसंक्लिन्नवाससाम्
तृणेषु वा शयानानां स्नानोद्वर्तनवर्जिनाम्
कृमिमत्कुणयूकानां संभवात्तैश्च भक्षणात्
गात्रं दद्रुलतां याति कटिदेशे विशेषतः
म्रक्षणोद्वर्तनस्नानं गन्धधूपनिषेवणम्
बालानां शस्यते तत्र शय्यायाश्च विकल्पनम्
नित्यमेव तु बालानां निशि स्नेहविमर्दनम्
हितं निद्राकरं बल्यं वर्धनं श्रमनाशनम्
तस्माच्च शस्यते नित्यं बालानां परिमर्दनम्
महासेनस्य तुष्ट्यर्थं सृष्टः शक्रेण धीमता
कुञ्जरो दुस्सहो नाम ऐरावणबलद्युतिः
स स्कन्देनोपवाह्यश्च कृतः शाखविशाखयोः
आभ्यां परमतुष्टाभ्यां ग्रामपोऽस्त्यश्मभिः कृतः
उपग्रहाणां सर्वेषामाधिपत्यं च लम्भितः
स यदा क्रुध्यते जन्तोः पूजाकालेष्वपूजितः
पक्षच्छिद्रेषु संध्यासु समाजेषूत्सवेषु च
स्वप्ने त्रासयते बालं चतुर्दंष्ट्रो महागजः
सुबुद्ध्यते त्रास्यमानः सहसा वित्रसन् द्रुतम्
यत्रैतमङ्गं स्पृशति गण्डस्तत्रास्य जायते
मेदोलसीकापूर्णानि प्रसज्यन्ते बहून्यपि
पच्यन्ते कानिचित्तेषां निरायान्त्यपराण्यपि
दुःसहं पूजयेत्तत्र पञ्चम्यां नागसत्तमम्
कुलोचितेन न्यायेन तथा नश्यन्ति तान्यपि
घृतक्षीराशिनो नित्यं श्लैष्मिकस्यातिभोजिनः
स्वपतो मांसमेदोऽसृग्वृद्धः संवर्तते गदः
तस्मान्मातासुतौ चात्र वमनेनोपपादयेत्
शाल्यन्नमुद्गमण्डांस्तु सप्ताहं चोपचारयेत्
अशाम्यत्सु विवर्धत्सु शरदाहोऽपि शस्यते
तथैषां छिद्यते मूलं पक्वेषु व्रणवत् क्रिया
इति विविधरोगभेषजं मुनिः
शिशुजनहिताय कश्यपोऽब्रवीत्
तदिदमुपलक्ष्य पण्डितो भिष
क्छिशुजनहिताय धारयेत् सदा
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने द्विव्रणीयोऽध्यायः
प्रतिश्यायचिकित्सिताध्यायः
अथातः प्रतिश्यायचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
गुरुमधुरशीतरूक्षाभ्यवहारात् सततं द्विविधं वा स्तन्यं पीत्वा पीत्वा स्वपतो नित्यं गुरुत्वाजीर्णयोश्च स्नानात् सश्लेष्मणश्च शीतोदकपानादवगाहनाच्च भुक्ते चातिपिबतो वेगविधारणाच्च सततं संरुद्धवेगस्याभ्यवहाराच्च नित्यं चानुपहितशायिनोऽतिपार्श्वशयनशायिनोऽपावृतमुखशायिनोऽन्यैश्च निदानैर्मन्दाग्नेर्विषमाशिनो वातः प्रकुपित ऊर्ध्वकफाशयं प्रदूष्य स्रोतांसि प्रतिश्याययति स यदा मुखस्रोतांसि दूषयति तदा मुखरोगाजायन्ते यदा श्रोत्रं तदा कर्णरोगाः यदा नासिकामूलं प्रति कफं पित्तमसृग्वा श्याययति तदा प्रतिश्याय
इत्युच्यते ३
तस्य प्रतिनद्धा इव शिरोमुखनासिका भवन्तीष्टानिष्टाव्यक्ताश्च गन्धाः --- ते तस्य वातात् प्रतिबन्धः कफादवैशद्यं रक्तान् परिक्लेदः
पित्ताद्दौर्गन्ध्यं स्रोतस उपजायते ४
स एतदवस्थो जाड्यारोचकं हृल्लासप्रतिघातार्थं भृशोष्णतीक्ष्णाम्ललवणेषु प्रसज्यते ततोऽस्य पित्तं प्रकुप्यति । बलाभिवर्धनात्तस्य ज्वरं तृष्णामन्तर्दाहमरति --- नी स्रोतसां वैगन्ध्यं
पाकं च दिवाकरावर्तं चोत्पादयति ५
अतश्चैनं चतुर्विधमृषयो वदन्ति -- वातिकः पैत्तिकः श्लैष्मिकः सान्निपातिक इति । तद्यथा -- यो रौति न रमते जागर्त्यभीक्ष्णं क्षौति नासिका चोत्तानस्यापि तनुश्लेष्म ---र्भवति स्निग्धोष्णलवणाम्लोपशयि चेत्तं प्रतिश्यायं वातिकं विद्यात् ज्वरदाहपिपासाप्रलापितातालुशोषमुखनासिकाक्षिपाकैराशुकफसंपाकैः---पैत्तिकं विद्यात् चिरकारित्वारोचकहृल्लासशिरोगौरवातिस्रावमन्दक्षवथुमन्याग्रहहृदयप्रलेपाविपाकै-रुष्णकटुकषायरूक्षणोपशयैः प्रतिश्यायं कफजं विद्यात् सर्वरूपं स्रोतोवैगन्ध्यकृमि--- सान्निपातिकं विद्यात् ६
तत्र श्लोकाः--
वातश्लेष्मोत्तरः प्रायः प्रतिश्यायस्त्रिदोषजः
बलाग्निवर्णशमनो निहन्ता चाप्युपेक्षितः ७
तस्मात् प्रथमतस्तस्मिन्नुपवासः प्रशस्यते
सुखोष्णं दीपनीयाम्बु पिबेद्वा पाञ्चमूलिकम् ८
यथाशक्त्य---
---दकेऽपि वा
यवागूं रक्तशालीनामुष्णां त्रिलवणान्विताम्
पिबेद्यवानामथवा दृष्ट्वा दोषबलाबलम्
अग्निप्रावरणोपेतो निवातशयनासनः
लघ्वन्नमुष्णं भुञ्जानो मुच्यते नातिसंपिबेत्
वेष्टनं धूमपानं च ---
---गुडहरीतकीम्
जीर्णे च सर्पिषः पानं निशि भुक्त्वा प्रशस्यते
अशाम्यमाने तेनापि पुराणं पाययेद्घृतम्
षट्पलं पञ्चगव्यं वा कल्याणकमथाभयम्
यवान्नं च सदाऽत्युष्णं लवणस्नेहवर्धितम्
पिप्प---
---सं पिबेद्वा मरिचान्वितम्
मरिचानि मुखे नित्यं धारयेदापरिक्षयम्
सैन्धवोष्णोदकोपेतां पिबेच्छुण्ठीं विमुच्यते
पिप्पलीवर्धमानं वा युञ्जानो वा गुडाभयाम्
पथ्याशी रोगतत्त्वज्ञः सात्म्यज्ञश्च विमुच्यते
पटोलपत्रत्रिफला---
---प्रतिश्यायाद्विमुच्यते
अपानं सर्पिषाऽभ्यज्य निवाते स्वेदयेत् सदा
विष्टम्भिगुरुशीतान्नं दिवास्वप्नं च वर्जयेत्
प्रतिश्यायस्य यत् प्रोक्तमेतत् सर्वं चिकित्सितम्
अतिबालस्य तत् सर्वं धात्री कुर्यादशङ्किता
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने प्रतिश्यायचिकित्सितम्
उरोघातचिकित्सिताध्यायः
अथात उरोघात चिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
स्वहेतुकुपिता दोषा उरोघातं चतुर्विधम्
कुर्वन्ति सेवमानानां लौल्यमध्यशनादि च ३
शीतज्वरः प्रतिश्यायः कण्ठः शूकैरिवावृतः
उत्कासिकमन्दक ---
---समेति समाख्याता सर्वरोगविनाशिनी
एषैव व्योषसहिता हन्त्युरोघातमुद्बलम्
कफाधिके तु सक्षौद्रा लीढाऽऽरोग्याय कल्पते
पित्तश्लेष्मोत्तरो व्याधिरुरोघातस्त्रिदोषजः
तस्मात् पित्तकफघ्नानि धात्री नित्यं समाचरेत्
इति चिकित्सास्थाने उरोघातचिकित्सितम्
अथ शोफचिकित्सिताध्यायः
अथातः शोफचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
वमनविरेचनोपवासव्याधिकर्शनापथ्याजीर्णेषु यः सदाऽत्यर्थलवणाम्लकटुक्षारोष्णोपसेवी भवति --- यनान्ते वा लवणादिषु प्रसज्यते यथेष्टं च शीतोदकस्नानपानशयनव्यवायव्यायामादिभिर्व्यभिचरति तथा तद्गुणक्षीरा वा भवति तस्याः श्वयथुर्नाम रोग उत्पद्यते दारुणश्चतुर्विधः । दोषा ह्यस्याः -- पथः कृष्णारुणवर्णोऽल्पो रूक्षः पिपीलिकापूर्ण इव सवेदनः पीडितश्च निम्नो भवत्यनिमित्तश्चोष्णस्नेहाभ्यां प्रशाम्यति
तं वातिकं विद्यात् नीललोहितपीत ---
कृमिचिकित्सिताध्यायः
--- च लाभतः समुपानयेत्
पादशेषे जलद्रोणे शृते सर्पिर्विपाचयेत्
प्रस्थं सैन्धवसंयुक्तं तत् परं कृमिनाशनम्
विडङ्गघृतमित्येतल्लेह्यं शर्करया सह
सर्वकृमीन् प्रणुदति वज्रो मुक्त इवासुरान्
तिक्तोष्णकटुरूक्षाणां मूत्राणां लवणस्य च
स्नेहस्वेदोपसेवा च पथ्यं च कृमिनाशने
बहिःकृमीणां स्नानाद्यं द्विव्रणीये प्रकीर्तितम्
अतिबालस्य तु शिशोर्धात्री सर्वं समाचरेत्
संशोधनैर्विशुद्धं च पथ्यान्नैश्च लघूकृतम्
भावितं चौषधैः क्षीरममृतत्वाय कल्पते
अत्युष्णं कटुतैलं तु गुदे दत्त्वा ससैन्धवम्
स्वेदयेद् गुदमङ्गुल्या तथाऽऽशु लभते सुखम्
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने कृमिचिकित्सितम्
मदात्ययचिकित्सिताध्यायः
अथातः पानात्ययचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मद्यप्रवृत्तौ रोगस्तु प्रोच्यते त्रिविधो नृणाम्
पानात्ययो विभ्रमश्च पानापक्रम एव च ३
तत्र योऽध्युषिते पाने त्वजीर्णे पिबते नरः
तत् पानमत्ययं याति तस्मात् पानात्ययो मतः ४
विभ्रान्तानां तु पानानां सेवनात्पानविभ्रमः
सहसा पानविच्छेदः पानापक्रम उच्यते ५
दीपनं रोचनं वृष्यं रतिवैशद्यकारकम्
कार्श्यचित्तश्रमहरं हर्षणं बलवर्धनम् ६
युक्तोपसेवितं मद्यं सात्त्विकानां विशेषतः
प्रमोदारोग्यपुष्टीनां तन्मूलं चान्नभोजनम् ७
स्तन्यक्षये च धात्रीणामुत्पन्ने चाप्य---
---वातशूलेषु शीतके विषमज्वरे ८
नारीणां सुकुमारीणां रोगेषु विविधेषु च
सूतानां दुष्प्रजातानां योनिभ्रंशेऽतिमैथुने ९
दन्तजन्मनि बालानां पीडितानां पिपासया
तालुकण्ठौष्ठशोषे च रोदितेऽतिप्रजागरे १०
वातश्लेष्मात्मके व्याधौ मद्यमाहुर्यथाऽमृतम्
तदेवातिप्रसङ्गेन पीयमानं पुनः पुनः ११
सर्वव्याधिमुखं प्रोक्तं विषवत् कारयत्यपि
मदात्ययं वातकरं कृच्छ्रसाध्यं करोति वा १२
तरुणं वाऽप्यजीर्णे वा यो मद्यमतिसेवते
लघुसत्त्वो निराहारो रसस्तस्य विदुष्यति १३
अनिलं रूक्षतीक्ष्णत्वात् पित्तमौष्ण्याद्विपाकतः
युगपत् कुपितौ दोषौ प्राप्तावामाशयं ततः १४
विष्टब्धश्लेष्मणात्यक्तौ विप्लवेते महासिराः
ततो हृदयमूलासु विप्लुतासु सिरासु च १५
शरीरं क्लिश्यतेऽत्यर्थं तस्य वक्ष्यामि लक्षणम्
मुह्यते घृष्यते रौति दह्यते ज्वर्यते भृशम् १६
हृद्द्रवो वेपथुर्हर्षः पार्श्वशूलं शिरोरुजा
अरुचिः स्वेदविष्टम्भो विह्वलत्यतिसार्यते १७
शुष्यते --- याति विलपत्यपि
एवं मदात्ययं विद्यात्तस्य वक्ष्यामि लक्षणम् १८
हृत्पार्श्वपर्वरुजनं प्रलापोऽतिप्रजागरः
उन्मत्त इव चाभाति पवनोत्थे मदात्यये १९
स्रोतःपाको ज्वरो दाहो विड्भेदः स्वेदपीतता
छर्दी रक्तप्रकोपो वा पीतं पश्यति पैत्तिके २०
आ --- सेकच्छर्दिशीतज्वरालसाः
तन्द्रा स्तम्भो विसंज्ञत्वं विषादश्च कफात्मके २१
श्वासकासभ्रमोत्सादविड्भेदानाहवेपकाः
शूलमोहौ च सामान्यौ सर्वरूपस्तु सर्वज्ञः २२
भूयिष्ठमामप्रभवं प्रवदन्ति मदात्ययम्
तस्मान्मदात्यये पूर्वं हितं लङ्घनमेव तु २३
प्रकाङ्क्षा लाघवं स्थैर्यमिन्द्रियाणां प्रसन्नता
रोगोपशान्तिर्वाक्छुद्धी रूपं सम्यग्विशोषिते २४
एतानि कृत्वा विकृतिं याति चातिविशोषणात्
असंप्राप्तिमथैतेषां जानीयात्तमलङ्घिते २५
इत्येतैः कारणैर्दृष्ट्वा विदग्धमदपीडितम्
पाययेत्तर्पणं काले शीतं दाडिमवारिणा २६
येनैव मद्येन भवेत् समुत्पन्नो मदात्ययः
तथैवोपहरेत् पातुं बहुशीतोदकान्वितम् २७
कायाग्निस्तन्मयो ह्यस्य सिरा रसवहास्तथा
मनश्च भावितं तेन तस्मात्तद्ध्यस्य भेषजम् २८
अथवा क्लान्तविक्लिष्टयथर्तुसुखवारिणा
स्नातानुलिप्तं प्रयतं मनोज्ञासनवेश्मगम् २९
पाययेत्तर्पणं युक्त्या हृद्यपात्रोपनायकम्
सक्तवः पारणा हृद्या अथवा लाजसक्तवः ३०
विडसौवर्चलाजाज्यः सुशीतं दाडिमोदकम्
तन्मद्यमल्पतक्रं च रूषिताः सक्तवोऽल्पशः ३१
कुठेरभूस्तृणक्षौद्रजम्बीरसुमुखादयः
युक्ताम्लाः षाडवा मुख्याः पक्वापक्वाः सुगन्धिनः ३२
केशरं मातुलुङ्गानामार्द्रकं जीवदाडिमम्
शर्करागुडखण्डानि जाङ्गलान्यामिषाणि च ३३
अम्लानम्लानि सिद्धानि संस्कृतानि विभागशः
उपोदिकां तक्रसिद्धां सिद्धां वा गुडचुक्रयोः ३४
एवंविधां त्ववक्षीरीं पानात्ययनिपीडितम्
यथालाभोपसंपन्नां पाययेत् सिद्धये भिषक् ३५
कानिचिद्ध्यत्र भक्ष्याणि कानिचित् स्वादयेद् बुधः
जिघ्रेत् पश्येत् पिबेत् किञ्चिच्छ्रद्धाजननकारणात् ३६
सुखं चास्यानुजानीयादृतुयोग्यं यथाक्रमम्
यच्च यच्चानुशेतेऽस्य तत्तदेवोपचारयेत् ३७
क्रमेण चास्य संसर्गमन्नपानेषु योजयेत्
दुकूलक्षौमकदलीपक्षपत्रादि सेवयेत् ३८
चन्दनानि च मुक्तानि शीतानि विविधानि च
उष्णानि त्वन्नपानानि रूक्षाणि च गुरूणि च ३९
अग्निसूर्योपसेवां च दिवास्वप्नं विशोषणम्
शोकाध्वमैथुनायासान् व्यायामांश्च विवर्जयेत् ४०
मण्डा यवाग्वो यूषाश्च न शस्यन्ते मदात्यये
एवं चेन्नोपशाम्येत तत्रेमां कारयेत् क्रियाम् ४१
उशीरं तिन्तिडीकं च दाडिमस्वरसं मधु
पानात्यये पित्तकृते श्रेष्ठं तर्पणपानकम् ४२
काश्मर्यं दाडिमं द्राक्षाः खर्जूराणि परूषकम्
दद्यात् कुडवशातानि लोध्रादीनि तु युक्तितः ४३
लोध्रामलकमञ्जिष्ठोः सूक्ष्मं पिष्ट्वा ---
तोयाढके प्लुतं स्थाप्यं सजाति वा सकेशरम् ४४
तृष्णां छर्दिमतीसारमदमूर्च्छाविलापकम्
अनवस्थानमरुचिं ग्लानिं चैतदपोहति ४५
लामज्जकमृणालत्वङ्मधुकान्युत्पलं तथा
पलं पलं गुडूच्या द्वे अष्टौ गुडपलानि तु ४६
जलाढके नवे भाण्डे गोपयेत् केशरान्वितम्
वातपित्तोत्तरं हन्ति मदं सोपद्रवं नृणाम् ४७
लोकसिद्धानि चान्यानि पानकान्युपकल्पयेत्
समद्यान्यन्नपानानि भूयिष्ठं चोपपादयेत् ४८
अथानुबन्धं कुर्वीत स रोगी च बली भवेत्
यथादोषं ततस्तस्य कुर्यात् संशोधनं बुधः ४९
मद्ययुक्तं त्रिवृच्चूर्णं पेयं स्यादनुलोमनम्
पानकेनाप्यवत् कार्यं समद्यगुडयुक्तया ५०
वैसर्पदाहज्वरयोरेवं चोक्ता परिक्रिया
पिपासाज्वरदाहार्ते सैव कार्या मदात्यये ५१
इति ह स्माह भगवान् कश्यपः ५२
इति चिकित्सास्थाने पानात्ययचिकित्सितम्
फक्कचिकित्सिताध्यायः
अथातः फक्कचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
बालः संवत्सरा पादाभ्यां यो न गच्छति
स फक्क इति विज्ञेयस्तस्य वक्ष्यामि लक्षणम् ३
धात्री श्लैष्मिकदुग्धा तु फक्कदुग्धेतिसंज्ञिता
तत्क्षीरपो बहुव्याधिः कार्श्यात् फक्कत्वमाप्नुयात् ४
पित्तानिलप्रकृतिकी पटुक्षीरा पटुप्रजा
कुतः पङ्गुजडा मूका त्रिदोषक्षीरभोजिनः ५
हृदयात् संप्रवर्तन्ते मनःपूर्वाणि देहिनाम्
इन्द्रियाणीन्द्रियावश्चौद्वा---हितम् ६
तत्र वागिन्द्रियं त्वेकं द्विधा भिन्नं यथा करौ
अर्धेन शब्दं वदति गृह्णात्यर्धेन तं पुनः ७
तस्माच्च मूका भूयिष्ठं भवन्ति बधिरा नराः
वाङ्मूलं हि स्मृतं श्रोत्रं वाग्भ्रंशे भ्रश्यते हि तत् ८
मूलं वाच्छोत्र म---च्च बधिरो नरः
ब्रवीति मूले हि हते हतावा--- ९
क्षीरजं गर्भजं चैव तृतीयं व्याधिसंभवम्
फक्कत्वं त्रिविधं प्रोक्तं क्षीरजं तत्र वर्णितम् १०
गर्भिणीमातृकः क्षिप्रं स्तन्यस्य विनिवर्तनात्
क्षीयते म्रियते वाऽपि स फक्को गर्भपीडितः ११
निजैरागन्तुभिश्चैव --- रो ज्वरादिभिः
अनाथः क्लिश्यते बालः क्षीणमांसबलद्युतिः १२
संशुष्कस्फिचबाहूरुर्महोदरशिरोमुखः
पीताक्षो हृषिताङ्गश्च दृश्यमानास्थिपञ्जरः १३
प्रम्लानाधरकायश्च नित्यमूत्रपुरीषकृत्
निश्चेष्टाधरकायो वा पाणिजानुगमोऽपि वा १४
दौर्बल्यान्मन्दचेष्टश्च मन्दत्वात् परिभूतकः
मक्षिकाकृमिकीटानां गम्यश्चासन्नमृत्युरुक् १५
विशीर्णहृष्टरोमा च स्तब्धरोमा महानखः
दुर्गन्धी मलिनः क्रोधी फक्कः श्वसिति ताम्यति १६
अतिविण्मूत्रदूषिकाशिङ्घाणकमलोद्भवः
इत्येतैः कारणैर्विद्याद्व्याधिजां फक्कतां शिशोः १७
गर्भिणीमातृकेनैव ---
--- मनाथानां विशेषतः
प्रदुष्टग्रहणीकाश्च प्रायशो बहुभोजिनः
फक्का भवन्ति तस्माच्च भुक्तं तेषामपार्थकम्
मन्दाग्नित्वाद्रवोत्सर्गाद्बहुमूत्रपुरीषिणः
--- कारयेत् क्रियाम्
कल्याणकं पिबेत् फक्कः षट्पलं वा यथाऽमृतम्
सप्तरात्रात् परं चैनं त्रिवृत्क्षीरेण शोधयेत्
शुद्धकोष्ठस्ततः फक्कः पि ---
न तु ब्राह्मीघृतं शूद्रः पिबेत्तद्ध्यस्य नाशनम्
प्रजाक्षयेण युज्यन्ते शूद्रा ब्राह्मीं पिबन्ति ये
मृताः स्वर्गं न गच्छन्ति धर्मश्चैषां विलुप्यते
दीप ----
--- ल्या वा रास्नया मधुकेन वा
पुनर्नवैकपर्णीभ्यामेरण्डशतपुष्पयोः
द्राक्षापीलुत्रिवृद्भिर्वा शृतं क्षीरं प्रयोजयेत्
एतानि त्वेव सर्वाणि संभृत्य मतिमान् भिषक्
मांसस्य ---
---पुनर्यूषं संस्कृतं क्षीरमेव वा
शाल्यन्नेन सहाश्नीयात् पिबेत्तं चापि नित्यशः
तेन प्राणं च लभते यानि रोगैश्च मुच्यते
तेनैव तैलं विपचेत् फक्कानां सर्वथोदितम्
रास्नामधु ---।
--- घृतं वा तैलं वा क्षीरं यूषमथो रसम्
द्विःसंस्कृतं प्रयुञ्जीत सर्वरोगैर्विमुच्यते
कफाधिकं चेन्मन्येत मूत्रमिश्रं पयः पिबेत्
प्रयोगेण हिताशी च फक्करोगैर्विमुच्यते
एरण्डांशुमतीबिल्व ---
--- शास्ते कार्या दशपलाः पृथक्
यवकोलकुलत्थानां प्रस्थं प्रस्थं समावपेत्
अपां पचेच्चतुर्द्रोणे कषायं पादशेषितम्
तैलप्रस्थं दधिप्रस्थं कषायं च पुनः पचेत्
तत् सिद्धं गोपयेद्यत्नात् सर्वथा संप्रयोजयेत्
बन्ध्यापङ्गु---
---ते इक्ष्वाकोः सुबाहोः सगरस्य च
नहुषस्य दिलीपस्य भरतस्य गयस्य च
एतेन लेभिरे पुत्रा गतिमायुर्बलं सुखम्
राज्ञां पूर्वोपदेशाच्च राजतैलमिति स्मृतम्
अनुग्रहप्रवृत्तौ हि राज्ञामासी --- ।
---प्रशस्यते
त्रिचक्रं फक्करथकं प्राज्ञः शिल्पिकनिर्मितम्
विदध्यात्तेन शनकैर्गृहीतो गतिमभ्यसेत्
बस्तयः स्नेहपानानि स्वेदाश्चोद्वर्तनानि च
वातरोगेषु बालानां संसृष्टेषु विशेषतः
---जन्तोः सुखाश्च शय्यासनबस्तियोगाः
इति ह स्माह भगवान् कश्यपः
इति चिकित्सास्थाने फक्कचिकित्सितम्
धात्रीचिकित्सताध्यायः
अथातो धात्रीचिकित्सितं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
---
धात्रीचिकित्सां निखिलां वक्तुमर्हसि मे मुने
सुखं दुखं हि बालानां धात्रीमूलमसंशयम्
इति पृष्टः स शिष्येण स्थविरेण महातपाः
धात्रीचिकित्सितं कृत्स्नं प्रोवाच वदतां वरः
--- पुष्पिकी धात्री तीक्ष्णाग्निर्वातपैत्तिकी
समधातुः समाग्निस्तु विषमैर्विषमाग्निकी
आयुरारोग्ययोर्मूलं प्रजानां च समाग्निता
विषमः सर्वरोगाणां मूलं ह्रास---
तीक्ष्णस्य बृंहणं नित्यं मन्दाग्नेर्दीपनक्रिया
पथ्याशनं तु सततं विषमाग्नेः सुखावहम्
कल्याणकं षट्पलं वा प्रयोगेनोऽपयुज्यते
यथाबलं यथायोगं पञ्चक --- ।
--- ति यथाविधि
न तूपयोजयेत् क्षारं क्षारप्रायौषधानि वा
प्रजाविनाशनः क्षारो धात्रीणां स न शस्यते
म्रक्षणोद्वर्तनस्नानं शुक्लाम्बरनिषेवणम्
मृष्टमन्नं सुखा ---
--- धर्मतिर्धात्रीणां सुखहेतवः
मेदस्विनीनां धात्रीणां सिराकर्म प्रशस्यते
स्नेहस्वेदोपपन्नानामूर्ध्वं चाधश्च शोधनम्
ततः सा मेदसि क्षीणे स्रोतःसु विवृतेषु च
---यो रसः
कृशां च नष्टपुष्पां च बृंहयेत्तेन सिद्ध्यति
बलामूलतुला धौता दशमूलं शतावरी
गुडूची रोहिषं रास्ना वृश्चिकाली पुनर्नवा
वृषः सहचरोशीरसारिवासूर्वच
---काकजङ्घांऽशुमत्यपि
अश्वगन्धा मृगैर्वारुः कालाऽथ नवमालिका
अतिमुक्तकशार्ङ्गेष्टाकपित्थं त्रिफलेति च
दशमूलात् प्रभृत्येते भागा दशपलाः स्मृताः
यवाः कुलत्था माषाश्च ---
---जलद्रोणे चतुर्भागावशेषिते
तं कषायं परिस्राव्य पुनरग्नावधिश्रयेत्
अथेमान्यौषधान्यत्र पलिकानि निधापयेत्
द्वे मेदे द्वे हरिद्रे च काकोल्यौ वृषजीवकौ
माषपर्णी ---
त्वक्पत्रचन्दनोशीरं द्वे बले लवणद्वयम्
मूर्वा श्वदंष्ट्रा शार्ङ्गेष्टा श्यामा द्राक्षा सुरोहिणी
मधुकं हस्तिपिप्पल्यः कुष्ठं व्याघ्रनखं वचा
सूक्ष्मैलागुरुकाश्मर्यः शतपुष्पा परूषकम्
---नि च
शङ्खपुष्पी विशल्या च वृश्चिकाली मधूलिका
दाडिमानि चाम्लानि गुग्गुल्यादि सुगन्धि च
अक्षोटं पनसं भव्यं प्राचीनामलकानि च
शतावरी विदारी च मधुपर्णी त्रिषाणिका
---कषायार्धाढकं भवेत्
लवङ्गपुष्पं कर्पूरं स्पृक्काऽथ कटुकाफलम्
आढकं तिलतैलस्य क्षीरद्रोणं च पाचयेत्
तत् सिद्धं प्रतिसंहृत्य बलातैलं निधापयेत्
घृतभाण्डे दृढे दान्ते ---
---सां म्रक्षणेषु प्रशस्यते
शाखागतं कोष्ठगतमस्थिमज्जसिरागतम्
बहिराभ्यन्तरायामं हनुस्तम्भं शिरोभ्रमम्
एकपक्षवधं शोषम्लानकार्दितगुल्मिनम्
बधिरं वेपमानं च ---
---ऽपस्मारमुन्मादं कटपूतनाम्
कर्णशूलं शिरःशूलं ब्रध्नं मारुतकुण्डलम्
अशीतिं वातिकान् रोगान् योनिदोषांश्च विंशतिम्
रेतोदोषान् ग्रहान् सर्वान् बलातैलमपोहति
वृद्ध्यां ---।
---ज्वरे जीर्णे तृतीयकचतुर्थके
नारीणां दुष्प्रजातानां योनिशूले श्रमेषु च
नानातिसारज्वरयोः कफरोगेषु सर्वशः
नाजीर्णकृशमूर्च्छासु न च्छर्द्यां च प्रयोजयेत्
एतेनैव विधानेन रास्नातैलं विपाचयेत्
निहन्ति रोगान् भूयिष्ठं य एते परिकीर्तिताः
शतावर्या बदर्याश्च गुडूच्या मधुकस्य च
पुनर्नवाया द्राक्षायाः पीलोः सहचरस्य च
वृषस्य नागवीर्याया अनन्ताशतपुष्पयोः
स्वनामपाकतैलानामेष एव विधिः स्मृतः
--- लं पक्वं तैले सहाचरे
दद्यान्निर्मथ्य सततमेतदत्र विशेषणम्
श्योनाकतैलस्य विधिः स एव परिकीर्तितः
कषाये मधुमांसस्य दद्यात् त्रिंशत्पलानि तु
कपित्थतैलस्य विधिः स एव परिकीर्तितः
कपित्थानां तु पक्वानां तुलां दद्यात् स ---।
---देव प्रकीर्तितम्
केवलं स्वरसस्यात्र दद्यात्तैलाच्चतुर्गुणम्
मीनतैलं च मीनानां कषायेण रसेन च
पक्वं बलातैलमिव वातव्याधिषु शस्यते
बलाकाहंसवल्गूनां क्रौञ्चसारसयोरपि
आटीशकुनकानां च तैलान्याहुः स्वनामभिः
--- दौर्गन्ध्यनाशनम्
विधानं कीर्तितं पण्यं षण्ढबन्ध्याप्रजाकरम्
योनिनासामुखश्रोत्रदौर्गन्ध्ये पिच्छिलेषु च
कपित्थतैलं पिचुभिर्धारयेयुः सदा स्त्रियः
सहकाररसेनापि तद्वत्तैलं प्रशस्यते
विविधानां च तैलानां हृद्या---
---न्धानां च निषेवणम्
अत ऊर्ध्वं प्रवक्ष्यामि धातूणां शेषकर्म यत्
स्नेहपानात् प्रसूतानां षष्ठीमल्लकभक्षणात्
अतिमात्राशनाच्चैव विरुद्धाजीर्णभोजनात्
षष्ठिग्रहः कुमाराणां जायते देहनाशनः
असाध्यश्चानुषङ्गी च ---
---मिता हारा धर्मशीला तपस्विनी
जीर्णाशिनी च सततं षष्ठीमतितरत्यसौ
प्राप्तायां वञ्चनायां च पञ्चकर्माणि कारयेत्
अथवा तपसोग्रेण शिवं स्कन्दं च तोषयेत्
अजीर्णं चापि धात्रीणां नित्यमेव न शस्यते
अजीर्णदूषिता दोषा धात्रीणां जनयन्ति हि
---ऽरुचिग्लानिमदमोहविचर्चिकाः
पामाकुष्ठालजीगुल्महृद्रोगश्वासकासकाः
हिक्कातन्द्राश्रमश्वासच्छर्द्यपस्मारविग्रहाः
रक्तपित्तभ्रमोन्मादशूलशोषगलग्रहाः
ऊरुस्तम्भः ससंन्यासस्तथाऽन्ये च महागदाः
---
मितपथ्याशनान्मातुः पुत्रे तेषामसंभवः
सुखोदयश्च धात्रीणां तस्मात्तदुपपादयेत्
वृद्धजीवक लोकेऽस्मिस्त्रयो दुष्करकारिणः
भिषग्धात्री च बालश्च त एव सुखदुःखिताः
परिज्ञानं विना वाताद्योषधकल्पने शिशोः
---
शास्त्रानुसारचेष्टाभिरिङ्गितैर्नित्यदर्शनैः
कर्त्तव्यं भेषजं बाले स कथं नाऽपराध्नुयात्
भिषक्कौमारभृत्यस्तैः कारणैर्नित्यदुःखितः
दुष्करं चापि कुरुते युञ्जन् साधारणाः क्रियाः
गर्भिण्याः सह गर्भेण धात्र्याः सह सुतेन च
---ज्ञातुमदूषकम्
धात्री पुत्रशरीरार्थं स्वशरीरोपशोषणम्
स्नेहात्प्राप्नोति सुबहून् क्लेशांश्चान्यान् सुदारुणान्
आशास्नेहकृपाधर्माद्रक्षणार्थं च मातरः
सहन्ते सर्वदुःखानि मानिनी चात्र कीर्त्यते
गर्भान् प्रभृति बालोऽपि ---
अधिकं पीड्यते दुःखैरकुर्वन्नपि तत् स्वयम्
तस्माच्च धात्री सततं शुभचेष्टाऽशनस्थितिः
माता भवति पुत्राणां भुंक्ते पुत्रफलानि च
इति ह स्माह भगवान् कश्यपः
इति वृद्धजीवकीये कुमारभृत्ये चिकित्सास्थाने धात्रीचिकित्सिताध्यायः
समाप्तानि च चिकित्सितानि