सामग्री पर जाएँ

काश्यपसंहिता/कल्पस्थानम्

विकिस्रोतः तः
← सिद्धिस्थानम् काश्यपसंहिता
कल्पस्थानम्
काश्यपः
खिलस्थानम् →


कल्पस्थानम्

कल्पस्थानम् धूपकल्पाध्यायः
---कुष्ठं पूतिकमम्बरं वचा


सर्षपा बस्तलोमानि धूपः स्याद्धिङ्गुसंयुतः
घृतं मेषविषाणं च वाजिकुञ्जरयोः खुरौ

कपिशल्यकबभ्रूणां लोमाभिर्धूप उत्तमः
घृतं सर्जरसः कृष्णो भल्लातकशिलेयके

द्वे हरिद्रे जतूशीरसर्षपाः पुष्पमार्जकम्
विडङ्गं तगरं पत्रं वचा हिङ्गु सबालकम्

कौमारो नाम धूपोऽयं युक्तो वर्धयति प्रजाः
घृतं सर्पस्य निर्मोको गृध्रकौशिकयोश्च विट्

वचा हिङ्गु च धूपः स्यादपस्मारग्रहापहः
घृतं गुग्गुलु बिल्वं च देवदारु नमेरु च

एष माहेश्वरो धूपो यवयुक्तो ग्रहापहः
आग्नेयस्तु स्मृतो धूपो गोबाला घृतसंयुताः

ब्राह्मणानां विशेषेण सर्वरोगेषु शस्यते
घृतं हयखरोष्ट्राणां बालाः केशाश्च मातृकाः

नखाश्चतुष्पदां लाभाद्धूपो भद्रङ्करः स्मृतः
पिशाचयक्षगन्धर्वभूतस्कन्दकफार्दिते

धूपमेतं प्रयुञ्जीत यमिच्छेदगदं क्षणात्
घृतं सिद्धार्थको हिङ्गु देवनिर्माल्यमक्षताः

सर्पत्वग्भिक्षुसंघाटी धूपो रक्षोघ्न उच्यते
घृतं सिद्धार्थकाः क्षौद्रं मेषशृङ्गमजापयः

खरस्य मूत्रं बालांश्च सोमं चैवात्र योजयेत्
एष धूपोत्तमो नाम्ना परः प्रेतनिवारणः

परः प्रेताभिभूतेषु पूतनायां च शस्यते
घृतं सिद्धार्थकाः श्वेताः कुष्ठं भल्लातकं वचा

बस्तलोमानि तगरं भूर्जावर्तं सगुग्गुलु
दशाङ्गो नाम धूपोऽयं प्रयोज्यः सर्वरोगिषु

अपस्मारे विशेषेण ग्रहेषूपग्रहेषु च
घृतं सिद्धार्थकाः श्वेताश्चोरकं सपलङ्कषम्

शूकरी जटिला चेति धूपो मोह इति स्मृतः
स्मृतं श्रीवेष्टका --- रलाक्षापद्मकचन्दनम्

सदेवदारुसुरसं शालजं चेति योजयेत्
धूपोऽयं वारुणो नाम ग्रीष्मकाले प्रशस्यते

शकुन्यां पौण्डरीके च रेवत्यां च कफाधिके
घृतं मज्जा वसा लाक्षा धूपोऽयं चतुरङ्गिकः

अल्पदोषे कृशे बाले प्रयोज्यो ग्रहवैकृते
घृतं वचा तरक्षोश्च विष्ठा लोमानि चर्म च

प्रसहानां पुरीषं च धूपो नन्दक उच्यते
घृतं कणा व्रीहितुषाः कपिलोमत्वचं वचा

सर्षपाः कुष्ठमेला च कणधूपो ग्रहापहः
घृतं सर्पत्वचं बिल्वं सरः सिद्धार्थका जतु

श्रीधूप इति निर्दिष्टः श्रीकामेषुपयोजयेत्
श्वविण्मूत्रं मयूराणां लोमान्यथ वचा घृतम्

सर्षपाश्चेति धूपोऽयं ग्रहघ्न इति विश्रुतः
घृतं कुञ्जरदन्तं च तनुजान्यजमेषयोः

गोशृङ्गमिति धूपोऽयं पुण्यः पुण्यजनावहः
घृतं स्थौणेयकं मांसी तगरं परिपेलवम्

ह्रीबेरं शतपुष्पां च हरितालं मनःशिलाम्
मुस्तं हरेणुकामेलां धूपार्थमुपकल्पयेत्

शिशुको नाम धूपोऽयं सर्वरोगग्रहापहः
धूपने चानुधूपे च प्रतिधूपे च भार्गव

घृतं सिद्धार्थका लाजाः कुशाः सह ---
सर्वतुल्या भवेद् ब्राह्मी धूपोऽयं ब्राह्म उच्यते
ब्राह्मणक्षत्रवैश्येषु प्रयोज्यो भिषजा भवेत्
सर्वरोगेषु सततं क्षिप्रं रोगान्निरस्यति

घृतं श्वदंष्ट्रा वसुका हरिद्रे परिपेलवम्
वचा भार्गी च धूपोऽयं प्रतिधूपः सुखावहः

घृतं च पद्मकोशीरं वालकं केसरं रसम्
प्रतिधूप इति ख्यातः सर्वरोगेषु शस्यते

घृतं वानरलोमानि कुक्कुटाण्डं वचा यवाः
सिद्धार्थकाश्च धूपोऽयं प्रतिधूपमहोदयः

घृतं निम्बस्य पत्राणि मूलं पुष्पं फलं त्वचम्
अरिष्टो नाम धूपोऽयमरिष्टं कुरुते क्षणात्

घृतं निम्बस्य पत्राणि खरमूत्रं वचा जतु
सर्षपाश्चात्र धूपोऽयं प्रतिधूपश्च शस्यते

घृतं निम्बस्य पत्राणि जतुसर्जरसाक्षताः
भासोलूकशकृच्चेति धूपोऽपस्मारनाशनः

घृतं निम्बस्य पत्राणि सुरसाश्वघ्नयोस्तथा
गोमेषबस्तबालाश्च भूपोऽय सर्वरोगहा

घृताक्षतं जातिपुष्पं मधु सिद्धार्थका वचा
गणधूप इतिख्यातः सर्वभूतरुजापहः

घृतं शल्लकिधूपश्च पुष्पं जातिशिरीषयोः
नमेरुणा समायुक्तो धूपः स्वस्तिक उच्यते

घृतं गुग्गुलुसंयुक्तं देवदारु घृतान्वितम्
कालागुरु च सर्पिश्च सर्षपाश्चापि सर्पिषा

तृणमृलस्य पत्राणि सारं पुष्पफलं त्वचम्
पञ्च धूपाः समाख्याताः सघृता ग्रहनाशनाः

गुग्गुल्वादीनि चैतानि दशाङ्गं च समापयेत्
गृहधूप इति ख्यातो न क्वचित् प्रतिहन्यते

सिद्धार्थाश्चेति धूपास्ते चत्वारिंशदुदाहृताः
भिषक्सिद्धिकरा नॄणां पुत्रदा रोगनाशनाः

एतैर्बालान् समापन्नानरिष्टागारमेव च
बस्त्रशय्यासनाद्यं च बालानां धूपयेद्भिषक्

पूर्वमेव भिषग्धूपं पुष्ययोगेन संहरेत्
उपोषितः शुचिः स्नातो मैत्राग्नेयोत्तरासु वा

वाचयित्वा बलिं कृत्वा श्रुत्वा शब्दान्मनोऽनुगान्
चतस्रः शुचयः कन्याः कुट्टयेयुरतन्द्रिताः

--- तं धूपं निदध्याद्भाजने नवे
गोपयेच्च सुपिहितं काले चैनं प्रयोजयेत्

तत्कालमपि चापन्नः संभृत्याशु प्रयोजयेत्
ननु तस्मिन् ध्रुवा सिद्धिर्यथापूर्वोपकल्पिते

आघ्रातपरधूपस्तु यदि न प्रतिधूप्यते
आशु तं रोगमाप्नोति तदर्थं धूप्यते पुनः

धूपश्चैवानुधूपश्च प्रतिधूपश्च जीवक
त्रिविधो धूप उद्दिष्टः कर्मभेदाच्चिकित्सकैः

कौमारभृत्यास्त्वपरे जङ्गमस्थावराश्रयात्
द्वियोनिं ब्रुवते धूपं कश्यपस्य मते स्थिताः

कुतो धूपाः समुत्पन्नाः किंदैवत्याः किमाश्रयाः
कैर्नामभिर्मतास्तेषु दह्यमानेषु किं जपेत्

एवं महाजनगतश्चोच्यते भिषजा भिषक्
तस्मान्निर्णयमेतेषां प्रश्नानां शृणु तत्त्वतः

जाता जाता ऋषिसुता ह्रियन्ते राक्षसैर्यदा
तदा महर्षयः सर्वे वह्निं शरणमन्वियुः

होमजापतपोयुक्तास्ततस्तुष्टोऽग्निरब्रवीत्
इमान् धूपान् प्रयच्छध्वं प्रयुङ्ध्वं च मदर्पितान्

रक्षोभूतपिशाचेभ्यो न भयं वो भविष्यति
जातेषु वर्धमाने च रोगे धात्र्यां च युङ्क्त ह

ततस्ते मुनयस्तुष्टाः कश्यपं लोकवर्धनम्
ऋषिलोकहितं ज्ञात्वा युयुजुस्तत्र कर्मणि

अग्नेः सकाशाद्धपान् स संलब्ध्वा चाधिकोऽभवत्
अधृष्याः सवभूतानां कुमारास्ते च रक्षिताः

एवं धूपाः समुत्पन्नाः प्रजानां हितकाम्यया
निर्दिष्टाश्चाग्निदैवत्या जङ्गमस्थावराश्रयाः

विधूरस्यनुवाकेन सर्वमेवाभिमन्त्र्य च
प्रयुञ्जीत शिशौ रक्षां दह्यमाने जपेत्त्विदम्

अग्निस्त्वा धूपयतु ब्रह्मा त्वा धूपयतु शिवस्त्वा धूपयतु वसवस्त्वा धूपयन्तु रुद्रस्त्वा धूपयतु आदित्यस्त्वा धूपयतु मरुतस्त्वा धूपयन्तु साध्यस्त्वा धूपयतु देवा ऋभवस्त्वा धूपयन्तु विश्वे त्वा देवा धूपयन्तु सर्वे त्वा देवा धूपयन्तु छन्दांसि त्वा धूपयन्तु पृथिवी त्वा धूपयतु अन्तरिक्षं त्वा धूपयतु द्यौस्त्वा धूपयतु दिशस्त्वा धूपयन्तु दिशां त्वा पतयो धूपयन्तु देवीरापस्त्वा धूपयन्तु शिवस्त्वा पवमानो धूपयतु मित्रस्त्वा सविता सूर्यो धूपयतु चन्द्रस्त्वा सोमो धूपयतु नक्षत्राणि त्वा सुप्रजात्वाय धूपयन्तु नक्षत्राणां त्वा देवताः सुमनसे धूपयन्तु अहोरात्राणि त्वा शान्तये धूपयन्तु ऋभवस्त्वा पुण्याय कर्मणे धूपयन्तु संवत्सरास्त्वाऽऽयुषे ब्रह्मवर्चसे बलाय धूपयन्तु प्रजापतिस्त्वा सुप्रजात्वाय धूपयतु अश्विनौ त्वाऽऽरोग्याय दीर्घायुष्ट्वाय सहसे शेवसे धूपयताम् मातरस्त्वा स्निहा धूपयन्तु पितरस्त्वा तनोरच्छेदाय स्वधायै धूपयन्तु कुमारस्त्वा कौमाराय वसवे धूपयतु शाखस्त्वा यौवनाय धूपयतु विशाखस्त्वा मध्याय वयसे धूपयतु नैगमेषस्त्वा जरसे धूपयतु सर्वे त्वा देवा दिव्याय धाम्ने धूपयन्तु सर्वे त्वा ऋषयो ब्रह्मवर्चसाय धूपयन्तु सर्वास्त्वा नद्यः सुपीताय धूपयन्तु सर्वे त्वा पर्वताः स्थैर्याय धूपयन्तु सर्वास्त्वा ओषधोऽन्नाद्याय धूपयन्तु सर्वे त्वा वनस्पतयः सुव्रतानां श्रैष्ठ्याय धूपयन्तु सर्वे त्वा पशवः शक्त्यै शान्त्यै धूपयन्तु सत्येन त्वा धूपयाम्यृतेन त्वा धूपयाम्यृतसत्याभ्यां त्वा धूपयामि नमो
देवेभ्य इति जपेत् । इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने धूपनकल्पः

लशुनकल्पाध्यायः
अथातो लशुनकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
हुताग्निहोत्रमासीनं गङ्गाद्वारे प्रजापतिम्
पप्रच्छ स्थविरः काले प्रजानां हितकाम्यया ३
भगवँल्लशुनोत्पत्तिं प्रयोगं चोपयोजने
श्रोतुमिच्छामिकालं च रोगान् येषु न येषु च ४
व्यापदश्चास्य काः सन्ति किं च तासां चिकित्सितम्
अन्नपानं च किं तत्र परिहारः फलं च किम् ५
इति पृष्टः स शिष्येण मुनिराह प्रजाहितम्
शृणु सौम्य यथोत्पन्नं लशुनं सपरायणम् ६
न लेभे गर्भमिन्द्राणी यदा वर्षशतादपि
तदैनां खादयामास शक्रोऽमृतमिति श्रुतिः ७
सव्येन परिरभ्यैनां बाहुनां चारुणा स्निहा
व्रीडन्तीं सान्त्वयन् देवीं पतिर्भार्यामपाययत् ८
तस्यास्तु सौकुमार्येण ह्रिया च पतिसन्निधौ
अमृतस्य च सारत्वादुद्गार उदयद्यदा ९
यदृच्छया च गामागादमेध्ये निपपात च
ततोऽब्रवीच्छचीमिन्द्रो बहुपुत्रा भविष्यसि १०
एतच्चाप्यमृतं भूमौ भविष्यति रसायनम्
स्थानदोषात्तु दुर्गन्धं भविष्यत्यद्विजोपगम् ११
लशुनं नामतस्तच्च भविष्यत्यमृतं भुवि
एवमेतत् समुत्पन्नं शृणु तस्य क्रियाविधिम् १२
रसोऽस्य बीजे कटुको नाले लवणतिक्तकौ
पत्राण्यस्य कषायाणि विपाके मधुरं च तत् १३
स्वादुस्तिक्तः कटुश्चात्र यथापरपरोत्कटाः
स्वादुत्वाद्गुरु सस्नेहं बृंहणं लशुनं परम् १४
रससाधारणत्वाच्च साधारणरुजापहम्
आयुष्यं दीपनं वृष्यं धन्यमारोग्यमग्निमम् १५
स्मृतिमेधाबलवयोवर्णचक्षुःप्रसादनम्
मुखसौगन्ध्यजननं स्रोतसां च विशोधनम् १६
शुक्रशोणितगर्भाणां जननं ह्रीनिषेधयोः
सौकुमार्यकरं केश्यं वयसः स्थापनं परम् १७
अमृतोद्भूतममृतं लशुनानां रसायनम्
दन्तमांसनखश्मश्रुकेशवर्णवयोबलम् १८
न जातु भ्रश्यते जातं नृणां लशुनखादिनाम्
न पतन्ति स्तनाः स्त्रीणां नित्यं लशुनसेवनात् १९
न रूपं भ्रश्यते चासां न प्रजा न बलायुषी
सौभाग्यं वर्धते चासां दृढं भवति यौवनम् २०
प्रमदाऽतिविधायापि लशुनैः प्राप्नुते मृजाम्
नचैनां संप्रबाधन्ते ग्राम्यधर्माद्भवा गदाः २१
कटीश्रोण्यङ्गमूलानां न जातु वशगा भवेत्
न जातु बन्ध्या भवति न जात्वप्रियदर्शना २२
दृढमेधाविदीर्घायुर्दर्शनीयप्रजा भवेत्
अश्रान्तो ग्राम्यधर्मेषु शुक्रधाश्च भवेन्नरः २३
यावतीभिश्च समियात्तावत्यो गर्भमाप्नुयुः
नीलोत्पलसुगन्धिश्च पद्मवर्णश्च जायते २४
गात्रमार्दवमाप्नोति कण्ठमाधुर्यमेव च
ग्रहणीदोषशमनं परं कायाग्निदीपनम् २५
च्युतभग्नास्थिरोगेषु सर्वेष्वनिलरोगिषु
पुष्परेतोभ्रमे कासे कुष्ठरोगेषु सर्वशः २६
क्रिमिगुल्मकिलासेषु कण्ड्वां विस्फोटकेषु च
वैवर्ण्यतिमिरश्वासनक्तमान्ध्याल्पभोजने २७
जीर्णज्वरे विदाहे च तृतीयकचतुर्थके
स्रोतसामुपघातेषु गात्रजाड्योपशोषयोः २८
अश्मरीमूत्रकृच्छ्रेषु कुण्डलेऽथ भगन्दरे
प्रदर प्लीहशोषेषु पाङ्गुल्ये वातशोणिते २९
लशुनान्युपयुञ्जीत मेधाग्निबलवृद्धये
मुच्यते व्याधिभिः क्षिप्रं वपुश्चाधिकमाप्नुते ३०
नान्यत्तच्छ्लैष्मिके व्याधौ पैत्तिके वा प्रयोजयेत्
ह्रसिष्ठः स्थविरोऽनग्निः सूतिका गर्भिणी शिशुः ३१
आमे ज्वरेऽतिसारे च कामलायां तथाऽर्शसि
ऊरुस्तम्भविबन्धेषु गलवक्त्ररुजासु च ३२
सद्योवान्ते विरिक्ते च कृतनस्ये विशोषिते
तृष्णाच्छर्दिपरीतेषु हिक्काश्वासातिवृद्धिषु ३३
अधृतिष्वसहायेषु दरिद्रेषु दुरात्मसु
दत्तबस्तिनिरूहेषु लशुनं न प्रयोजयेत् ३४
अक्षीणाग्निबलानां तु सर्वरोगेषु शस्यते
पौषे माघेऽथवा मासे लशुनान्युपयोजयेत् ३५
वयस्थानि सुहृद्यानि निस्तुषाण्यविशोधितम्
कायाग्निकालसात्म्येन मात्रा स्यान्नियमोऽपि च ३६
चतुष्पली भवेन्मात्रा लशुनानां कनीयसी
षट्पली मध्यमा श्रेष्ठा पलाष्टौ च दशाथ वा ३७
शतं षष्टिः शतार्धं च मात्राः स्युर्गणितेष्वपि
शुष्केषु बद्धबीजेषु पलवद्धरितेषु तु ३८
अथवा यावदुत्साहं भक्षयेदपि मूर्च्छितः
पुण्येऽहनि नरो धीरो लशुनाननुपचारयेत् ३९
बह्वग्निके निरुद्वेगं निवातशरणः सुखी
मार्गकौशेयकार्पासकोवयाजिनकम्बलैः ४०
वासोभिनिर्मलैर्युक्तो भृशं चागरुधूपितैः
धूपैश्चूर्णैश्च युक्तः स्यान्नित्यं विधृतपादुकः ४१
लशुनान्यानयेदन्यस्त्वथान्य उपकल्पयेत्
पत्राणि वर्जयेदेषां बीजं नालं च कल्पयेत् ४२
सूक्ष्मच्छिन्नानि कृत्वा च सर्पिषा प्लावयेद्भृशम्
हैयङ्गवीनं तु घृतं तैलं बालोचितं नवम् ४३
प्लावनं यावदुत्साहं तिष्ठेयुश्चाप्लुतान्यपि
द्वित्रिपञ्चदशाष्टाहं प्रशस्तस्नेहभावितम् ४४
आत्मचिन्तामनुस्वापं दन्तकाष्ठं विवर्ज्य च
जीर्णाहारः सुखोत्थायी ब्राह्मणान् स्वस्तिवाच्य च ४५
आसित्वा भक्षयेत्तानि सेव्यमुष्णोदकं सदा
उपदंशेऽपि दातव्यमार्द्रकं विश्वभेषजम् ४६
केसरं मातुलुङ्गानामथ वा जीवदाडिमम्
मूलकं वर्जयित्वा च दद्याद्धरितकान्यपि ४७
अङ्गानामपि भृष्टानां चूर्णं स्यादवचूर्णनम्
त्वक्पत्रशुण्ठीमरिचसूक्ष्मैलाजातिमिश्रितम् ४८
लवणान्यपि सर्वाणि लाभतस्तत्र चूर्णयेत्
सुजातं मद्यमप्यस्य युक्तितः समुदानयेत् ४९
लशुनान्यन्तरा खादेत् पिबेन्मद्यं तथाऽन्तरा
सुखमग्निमुपासीनो भक्षयेत्तृप्तये शनैः ५०
उष्णोदकं वा मद्यं वा शृतं वाऽनुपिबेत् पयः
हेत्वग्निरोगसात्म्यज्ञो द्वितीयं न च भक्षयेत् ५१
ततः कलायचूर्णेन हस्तमुष्णोदकेन च
प्रक्षाल्य मुखमोष्ठौ च गुरुप्रावरणोऽग्निमान् ५२
ताम्बूलपत्रं सस्वाकं सजातीकटुकाफलम्
लवङ्गपुष्पकर्पूरकक्कोलकफलान्वितम् ५३
निष्ठीवन् धारयेदास्ये न च निद्रां दिवा भजेत्
तेनास्य विलयं श्लेष्मा याति मूर्च्छा च शाम्यति ५४
सौगन्ध्यं जायते चास्य दौर्गन्ध्यं च विनश्यति
तृषितस्तु पिबेदुष्णं दीपनीयशृतं जलम् ५५
अत्यन्तपैत्तिको वाऽपि कदुष्णं पातुमर्हति
शृतं मुस्तकशुण्ठीभ्यां सशुण्ठीबालकेन वा ५६
शुण्ठ्या वा केवलं कोष्णं निशि पीत्वा सुखं स्वपेत्
एतेन विधिना खादेत् पक्षं मासमृतुं तथा ५७
त्रिमासं हैमनं वाऽपि चतुरो वा जितेन्द्रियः
द्रव्यमासाद्य रोगं च यथाकालं प्रयोजयेत् ५८
रूक्षाणि तु न भक्ष्याणि तानि पित्तभयाद्वधैः
अन्नमप्यल्पशो देयं शृणु यादृशकं हितम् ५९
कपालभृष्टपक्वाः स्युर्यवगोधूममण्डकाः
रूक्षाः सुगन्धयो हृद्याः पूपटा लवणैर्युताः ६०
शालीनां पोलिकाश्चोष्णा मुद्गकुल्माषसंस्कृतिः
सक्तुपिण्ड्यः सुलवणाः कुस्नेहाः पञ्चपट्टिताः ६१
लावैणतित्तिरिशशकपिञ्जलचकोरकाः
मांसार्थं जाङ्गलाश्चान्ये विधेया मृगपक्षिणः ६२
अभ्युष्णाः संस्कृतानम्ललवणस्नेहवेषणैः
मांसं शस्तं फलाम्लं वा कोलामलकदाडिमैः ६३
वास्तुको दाडिमे सिद्धश्चाङ्गेर्यामलकेन वा
बुर्बुर्वृषस्य वा पुष्पमथवा बालमूलकम् ६४
यः स्नेहं बहु भुञ्जीत रूक्षान्नं तस्य शस्यते
अल्पस्नेहाशनो भोज्यं सुस्निग्धं तु निधापयेत् ६५
कुष्ठी श्वासी तमी कासी प्रमेही वातकुण्डली
ध्यायी प्लीह्यर्शसो गुल्मी भक्षयेयुर्विनाऽम्भसा ६६
भक्षितान्ते ततो यूषं विदध्यात् पानभोजने
लशुनानां पलं पिष्टं द्विपलं दाडिमस्य च ६७
द्विपलं द्विपलं दद्यान्मांसस्य घृततैलयोः
सुवेषणं सुलवणं सोष्णं क्षुधितमाशयेत् ६८
शालिषष्टिकगौराणां भक्तं तेनाल्पशो भजेत्
त्र्यहं सदधितक्रं तु यूषमस्योपपादयेत् ६९
ततस्त्र्यहे सशुक्तं तु मुद्गमण्डाद्यतः परम्
न पर्युषितमश्नीयाद्यूषं नित्यं तु साधयेत् ७०
विरुद्धानि विदाहीनि वर्जयेच्छाकगोरसान्
अभिष्यन्दीनि चान्नानि मांसं भक्ष्यैक्षवाणि च ७१
अध्वानं मैथुनं चिन्तां शोकव्यायामशोषणम्
अहितं वर्जयेत् सर्वं निवातशयनासनः ७२
त्यजञ्छीतोपचारांश्च लशुनान्युपयोजयेत्
शीतोपचारात् स्नेहाच्च जलोदरमवाप्नुयात् ७३
स्नेहादण्डोपचाराच्च पाण्डुशोफरुजाभयम्
स्नेहाद् गुर्वन्नपानाच्च ग्रहणीदोषकामले ७४
कुमद्यमत्स्यगव्यैस्तु ज्वरकुष्ठक्षयाहतिः
रूक्षेभ्यश्चोष्णकाले च सर्वपित्तरुजाभयम् ७५
शूलातिसारसाध्मानहृल्लासच्छर्द्यरोचकाः
हिक्का विसूचिका श्वासनिद्रेऽन्येऽत्राप्युपद्रवाः ७६
उपद्रवप्रतीकारः कार्यः स्वैः स्वैश्चिकित्सितैः
छर्द्यजीर्णविदाहेषु गौरवे कफसंभवे ७७
लङ्घयित्वा यथायोगं पथ्याशी पुनराचरेत्
विरेकं वमनं नस्यं कुर्याच्च कवलग्रहान् ७८
देहव्याधिबलापेक्षी तीक्ष्णांस्त्वस्य विवर्जयेत्
श्रद्दधानो भवेद्धीमान्न त्वरेतोद्विजेत वा ७९
अथ पथ्याशने वृत्ते सप्ताहात् सर्वभोजिनम्
निरुपद्रवमाश्वस्तं बलिनं लशुनादिनम् ८०
पाययेत्त्रिफलायुक्तं सर्पिः सलवणं त्र्यहम्
न विहन्याद्यथाऽहारः पक्वमन्नं च भोजयेत् ८१
काये दोषोऽस्य यो लीनः स तेनाशु प्रशाम्यति
न च स्नेहकृतो दोषः पश्चात्तं संप्रबाधते ८२
पामा विस्फोटकाः कण्डूर्बाधिर्यं जाड्यसुप्तते
एते ह्येतं प्रबाधन्ते यद्यसौ न विरिच्यते ८३
तस्मान्मृदुविरेकः स्यात्त्रिवृत्त्रिफलया घृतम्
विदध्यात् सोष्णलवणमनु चोष्णोदकं पिबेत् ८४
गुरुदेवाग्निपूजाश्च भक्षयन् वर्जयेद्बुधः
स्नात्वा सुगन्धिर्हृद्यात्मा पूजयेद् गुरुदेवताः ८५
अत ऊर्ध्वं प्रवक्ष्यामि लशुने शेषकर्म यत्
बीजाढकं जलद्रोणे जर्जरीकृतमावपेत् ८६
जलानित्येऽग्नि --- वा गोपयेत् षष्टिकेषु वा
अव्याधिरमरप्रख्यो जीवेद्वर्षशतं नरः ८७
यावद्वर्षस्थितं खादेत्तावद्वर्षशतान्यपि
जहाति च त्वचं जीर्णां जीर्णां त्वचमिवोरगः ८८
लशुनानां पलं नित्यं पले द्वे वा घृतस्य तु
मधुनः किञ्चिदेव स्यात्तल्लीढ्वाऽनु पिबेत् पयः ८९
संवत्सरमजीर्णान्ते भुञ्जीत पयसौदनम्
सोऽपि सर्वरुजाहीनः शतवर्षाणि जीवति ९०
आमानि यो न शक्नोति तस्य भृष्टानि सर्पिषि
पत्रपूपलिकावच्च संस्कृतान्युपयोजयेत् ९१
सिद्धानि सह मांसैर्वा यवाग्वा दाधिकेन वा
निमन्दकाश्च शस्यन्ते नानाद्रव्योपसंस्कृताः ९२
लशुनानां पलशतं जलद्रोणेषु पञ्चसु
क्वाथयेद्द्रोणशेषं तं पचेद्भूयो घृताढके ९३
आढकं पयसो दद्याद्गर्भं चेमं समावपेत्
लशुनानां पलशतं बीजानां श्लक्ष्णसंस्कृतम् ९४
दीपनं जीवनं वृष्यं यत्किञ्चित् सर्वमावपेत्
अक्षवद्दशमूलं च तत् सिद्धमवतारयेत् ९५
एतत् पाने च भोज्ये च हितं समधुशर्करम्
तेनैव विधिना तैलं बस्तिकर्मणि शस्यते ९६
क्लीबबन्ध्यातिवृद्धानामपि वीर्यप्रजाप्रदम्
विरेकवमनद्रव्यैः संस्कृते कुष्ठम्रक्षणम् ९७
श्वित्रनाडीक्रिमीणां च पानभोजनम्रक्षणे
प्रयुक्तमारोग्यकर गन्धसर्पिरनुत्तमम् ९८
अथ गन्धमहन्नाम धनिनामुपदिश्यते
यं दृष्ट्वा भज्यते शीघ्रं साक्षादक्पि सदागतिः ९९
रोगानीकेन सहितः सहितश्च मरुद्गणैः
लशुनं न्यायतः खादेन्मुकुटं रचयेदपि १००
कुर्याल्लशुनमालां च शिरसः कर्णयोरपि
बहिः प्रावरणस्यापि कुर्याल्लशुनकम्बलम् १०१
हस्तयोः पादयोः कण्ठे बध्नीयाद्गुच्छितान्यपि
अधस्ताद्वाससश्चापि विदद्ध्याच्छयनाशने १०२
दद्याल्लशुनचीराणि गृहद्वारेषु सर्वशः
भार्याणां भ्रातृपुत्राणां दासीनामुपचारिणाम् १०३
सर्वेषामात्मवत् कुर्यात् कृते गन्धवरे बुधः
अन्नपानानि सर्वाणि कुर्याल्लशुनवन्ति च १०४
वादयन्तु च वादित्रं गान्तु गीतानि चेच्छया
नटा भल्लाश्च मल्लाश्च दर्शयन्त्वात्मशिक्षितम् १०५
गन्धमाल्यान्नपानानि यथार्हमुपकल्पयेत्
दृष्ट्वा गन्धमहं वातो द्वारादेव निवर्तते १०६
देवदारुवने भैक्षं चरता छन्नरूपिणा
अवज्ञातेन रुद्रेण मुनिभार्या निरीक्षिताः १०७
ततस्तासां प्रजा नासीत्ततस्ताः शरणं ययुः
भद्रकालीमुमां देवः स च तुष्टोऽब्रवीद्वचः १०८
अयं गन्धमहो नाम तं कुरुध्वमृषिस्त्रियः
सर्वरोगविनाशाय बलरूपप्रजाकरम् १०९
उन्मादविषशापघ्नं वातानीकविशातनम्
अश्मनीव ध्रुवा लेखा प्रजाऽवश्यं भविष्यति ११०
ततस्ता ब्रह्मवादिन्यश्चक्रुर्गन्धमहं तदा
लेभिरे चेप्सितान् कामाञ्छास्त्रं चेदं प्रचक्रिरे १११
अख्यातं गुरुपुत्राय रहस्यं ह्येतदुत्तमम्
भिषजा न प्रमादेन वक्तव्यं यत्रकुत्रचित् ११२
सम्यक् सुभूषितश्चाहं त्वयेदं प्राप्नुवन्मुने
यं पठित्वा भिषग्लोके न क्रियास्ववसीदति ११३
गिरिजं क्षेत्रजं चैव द्विविधं लशुनं स्मृतम्
अमृतेन समं पूर्वं तदलाभे परं हितम् ११४
देववैद्यद्विजपरैरुपयोज्यं च सिद्धये
इति ह स्माह भगवान् कश्यपः ११५
इति कल्पेषु लशुनकल्पः

कटुतैलकल्पाध्यायः
अथातः कटुतैलकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
कटुतैलोपदेशं तु वक्ष्यामि प्लीहनाशनम्
न ह्यतः परमं किञ्चिदौषधं प्लीहशान्तये ३
प्लीहोदरिणमादौ तु बलिनं निरुपद्रवम्
कल्याणकेन वा स्निग्धं सर्पिषा षट्पलेन वा ४
मात्रया पाययेत्तैलं पथ्यचेष्टाशनस्थितिम्
पञ्चप्रयोगास्त्वस्योक्ता मात्रासाततयभोजनैः ५
पलानि द्वादश ज्येष्ठा मध्यमा षट्पला स्मृता
मात्रा चतुष्पली ह्रस्वा यावद्वाऽग्निबलं भवेत् ६
स्नेहपीतोपचारं च विदध्यादखिलं भिषक्
प्रजागरनिवाताग्निस्वातन्त्र्याम्बरसेविनाम् ७
पीतमात्रे क्रमं विद्याद् व्यथा तन्द्री च जीर्यति
उद्गारशुद्धिर्वैशद्यलाघवानि जरां गते ८
कृशं चातिविरिक्तं च मण्डादिभिरुपक्रमेत्
बली मन्दविरिक्तश्च भुञ्जीत मृदुमोदनम् ९
ईषत्स्नेहाम्लयूषेण संस्कृतेन यथाबलम्
रोहीतमोचयोर्वश्यं कुर्यात् काम्बलिकं सदा १०
फलाम्लदीपनोपेतं कटुतैलोपसंस्कृतम्
तेनैनं भोजयेन्नित्यं यावत्प्राणो यथा भवेत् ११
लब्धप्राणं ततश्चैनं मात्रया पाययेत् सदा
कटुतैलं यथाशक्ति संस्कृतं नवमेव वा १२
द्राक्षाकाश्मर्यमधुकबालकोशीरचन्दनैः
कटुतैलं पचेत् क्षीरे प्लीह्नि दाहोत्तरे नृणाम् १३
जीर्णेऽपराह्णे चोद्वर्त्य लघुरुष्णोदकाप्लुतः
अभयां कटुतैलेन भृष्टां दधनि साधिताम् १४
शाल्योदनेन भुञ्जीत तथा काम्बलिकेन च
तच्चेद्विदाहं जनयेत् पिबेत् कल्याणकं ततः १५
मत्स्याः कटुकतैलं च दधि माषान् घृतं पयः
क्षारेण पारिजातस्य तत् पक्वमवचारयेत् १६
एतत्तैलघृतं प्रोक्तं प्लीहगुल्मनिवारणम्
दीपनं स्नेहनं बल्यं ग्रहणीपार्श्वरोगनुत् १७
कणिकारत्वचतुलां चतुर्द्रोणे पचेदपाम्
पादशेषे समक्षीरे कषाये तत्र पाचयेत् १८
प्रस्थं कटुकतैलस्य द्वौ प्रस्थौ दधिमाषयोः
दशमूलोपसंसिद्धरोहीतरसमावपेत् १९
क्षारजीवनवर्गं च सैन्धवं दीपनं च यत्
एतत् सिद्धं प्रयोगेण कर्णिकारीयमुत्तमम् २०
उद्वर्तनं ब्रह्मचर्यं कटुतैलोपसेवनम्
सुखाः शय्यासनस्वप्नाश्चिन्तेर्ष्याभयवर्जनम् २१
वामपार्श्वोपशयनं दधिमत्स्योपसेवनम्
लघ्वल्वस्निग्धसेवा च शमयन्ति प्लिहोदरम् २२
कर्णिकारस्य वा कल्कश्चूर्णितः स्वरसोऽपि वा
कटुतैलेन तक्रैर्वा सेवितः प्लीहनाशनः २३
रागसर्षपतैलं वा पूर्ववत् प्लीहनाशनम्
सेवितं मात्रया नित्यं दधिमाषौदकाशिनाम् २४
रागसर्षपमुष्टिं तु पिष्टं काञ्जिकयोजितम्
पिबेत् सलवणक्षारं भोज्यं काम्बलिकेन च २५
सप्ताहादतिवृद्धोऽपि प्लीहा प्रशममृच्छति
दाहश्चेदतिबाधेत रसक्षीरं च भोजयेत् २६
इत्याह भगवान् वृद्धो जीवको लोकपूजितः
बालानां महतां चैव प्लीहोदरनिवर्तनम् २७
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने कटुतैलकल्पः

षट्कल्पाध्यायः
अथातः षट्कल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
मारीचमृषिमासीनं सूर्यवैश्वानरद्युतिम्
विनयेनोपसङ्गम्य प्राह स्थविरजीवकः ३
भगवन्नक्षिरोगेण परिक्लिष्टस्य चक्षुषः
कदा संशमनं देयं किञ्च संशमनं हितम् ४
कः प्रयोगश्च तत्रोक्तः किञ्च तत्र हिताहितम्
इति पृष्टः स कल्याणं भगवान् प्रश्नमब्रवीत् ५
अक्षिरोगेण बालेषु क्लिष्टं वाऽऽश्च्योतनादिभिः
रागश्वयथुशूलास्रनिवृत्तौ षडहात् परम् ६
अल्पशो वा निवृत्तेषु बाधमानेषु वाऽल्पशः
रागादिषु प्रयुञ्जीत काले संशमनं हितम् ७
दूषिका चोपलेपश्च दृष्टिव्याकुलताऽरतिः
वर्त्मशोथः शिरोरोगः स्रावशेषेऽक्षिपक्ष्मणि ८
एतानि दृष्ट्वा रूपाणि कुर्यात् संशमनं विधिम्
स्तनपं सह धात्र्या च स्थापयेत् पथ्यभोजने ९
चक्षुष्या पुष्पकं माता रोचनाऽथ रसाञ्जनम्
कतकस्य फलं षष्ठं तेषां कल्पान्निबोध मे १०
जन्मतश्चतुरो मासान् पञ्च षड् वाऽक्षिरोगिणाम्
विघृष्य नारीस्तन्येन चक्षुषी प्रतिपूरयेत् ११
कांस्ये हिरण्यशकलं सस्तन्यक्षौद्रनाभिकम्
घृष्ट्वाऽक्षिणी पूरयेद्वा सर्वानक्षिगदाञ्जयेत् १२
एतैः कल्याणकैर्यागावृषिभिः संप्रकीर्तितौ
नाभ्यञ्जनकृतौ मुख्यौ कश्यपेन महर्षिणा १३
शरद्धेमन्तयोः पक्वां चक्षुष्यां ग्राहयेद्भिषक्
नवे कमण्डलौ चैनामनुगुप्तां निधापयेत् १४
ततः फलान्युपत्रिशद्यवांश्च दश साधयेत्
शरावे पूतिकां बद्ध्वा गोमयालोडितां प्लुताम् १५
यवसिद्धौ भवेत्सिद्धा ततस्तां निस्तुषीकृताम्
स्तन्यपिष्टां प्रयुञ्जीत विशेषश्चोपदेक्ष्यते १६
सरागे रोचनोपेता सस्रावे च ससैन्धवा
दूषिकामलशोथेषु प्रयोज्या सरसक्रिया १७
सपुष्पकां सगोमूत्रां ससैन्धवरसक्रियाम्
पिल्लिमाशोथजाड्येषु चक्षुष्यां संप्रयोजयेत् १८
अम्ले ताम्रं च कास्यं च विघृष्य मरिचं तथा
चक्षुष्यया समायुक्तं शमयत्यक्षिभूनिमान् १९
चक्षुष्यां रोचनां स्तन्यं पुष्पकं च समानयेत्
सर्वाक्षिरोगशमनो योगोऽयं संप्रकीर्तितः २०
एकाऽपि स्तन्यसंयुक्ता चक्षुष्या संप्रशस्यते
चक्षुष्याकल्प इत्येष पुष्पकल्पं निबोध मे २१
निवाते पुष्पकं पूतमपराह्णे प्रयोजयेत्
निशि वा शुष्कचूर्णस्य पूरयित्वाऽक्षिणी स्वपेत् २२
रसाञ्जनेन वा सार्धं पुष्पकं मधुनाऽपि वा
स्तन्येन वा समायुक्तं सर्वानक्षिगदाञ्जयेत् २३
एत एव त्रयो योगाः स्तन्यक्षौद्ररसाञ्जनैः
रोचनायाः प्रशस्यन्ते सर्वाक्षिगदशान्तये २४
रसाञ्जनस्य चाप्येते त्रयो योगाः सहाम्भसा
कतकस्य फलस्यापि योगाश्चत्वार एव ते २५
अक्षिरोगप्रशमनाश्चक्षुषश्च प्रसादनाः
उक्तसूत्रानुसारेण बालानां हितकाम्यया २६
स्वादुर्विकासिनी शीता त्रिदोषशमनी शिवा
कषाया स्तम्भिनी स्निग्धा चक्षुष्या चक्षुषे हिता २७
रूक्षोष्णतिक्तलवणाऽनलघ्नी पिच्छिला घना
मङ्गल्या पापनाशनी रोचना पक्ष्मवर्धनी २८
तीक्ष्णमुष्णं मलहरं रक्तपित्तकफापहम्
दृष्टिप्रसादनं चाशु पुष्पकं शीतमन्ततः २९
त्रिदोषशमनं रूक्षं षड्रसं चानुसारि च
शोधनं पक्ष्मजननं चक्षुष्यं च रसाञ्जनम् ३०
कषायमधुरं शीतमाशुदृष्टिप्रसादनम्
विकासि ह्लादनं स्निग्धं चक्षुष्यं कतकं विदुः ३१
इदं तैलं तु वक्ष्यामि नाम्नोक्तं पाञ्चभौतिकम्
प्रोक्तं तीर्थकरैः सर्वैः पञ्चेन्द्रियविवर्धनम् ३२
जीवकर्षभकौ द्राक्षा मधुकं पिप्पली बला
प्रपौण्डरीकं बृहती मञ्जिष्ठा त्वक्पुनर्नवा ३३
शर्करांऽशुमती मेदा विडङ्गं नीलमुत्पलम्
श्वदंष्ट्रा सैन्धवं रास्ना भवेदपि निदिग्धिका ३४
समभागैः पचेदेतैस्तैलं वा यदि वा घृतम्
चतुर्गुणेन पयसा सम्यक्सिद्धं निधापयेत् ३५
नस्यमेतत् प्रयुञ्जीत यथा सिद्धौ निदर्शनम्
अक्षिरोगैश्चिरोत्पन्नैर्नस्येनानेन मुच्यते ३६
तिमिर पटलं काचं पिल्लमान्ध्याकुलाक्षिताम्
दूषिकां स्रावरागौ च शोथं शूलं च नाशयेत् ३७
खालित्यं पलितेन्द्राख्यौ शिरोरोगमथार्दितम्
दन्तचालं हनुव्याधिं पूतित्वं स्रोतसामपि ३८
प्रजागरं प्रलापं च वाग्ध्वंसं मूकतां जडम्
बाधिर्यं हनुसंदंशं स्मृतिलोपं च नाशयेत् ३९
इन्द्रियाणि प्रसीदन्ति स्मृतिर्मेधा वपुर्बलम्
स्नेहेनानेन वर्धन्ते मङ्गल्यं पाञ्चभौतिकम् ४०
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने षट्कल्पः

शतपुष्पाशतावरीकल्पाध्यायः
अथातः शतपुष्पावरीकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
शतपुष्पाशतावर्यौ रसवीर्यविपाकतः
प्रयोगतश्च भगवञ्छ्रोतुमिच्छामि तत्त्वतः ३
इति पृष्टः स शिष्येण स्थविरेण प्रजापतिः
शतपुष्पाशतावर्यौ प्रोवाच गुणकर्मतः ४
मधुरा बृंहणी बल्या पुष्टिवर्णाग्निवर्धनी
ऋतुप्रवर्तनी धन्या योनिशुक्रविशोधनी ५
उष्णा वातप्रशमनी मङ्गल्या पापनाशनी
पुत्रप्रदा वीर्यकरी शतपुष्पा निदर्शिता ६
शीता कषायमधुरा स्निग्धा वृष्या रसायनी
वातपित्तविबन्धघ्नी वर्णौजोबलवर्धनी ७
स्मृतिमेधामतिकरी पथ्या पुष्पप्रजाकरी
भूतकल्मषशापघ्नी शतवीर्या शतावरी ८
तयोः प्रयोगं ब्रुवते कृत्वा दोषविशोधनम्
प्रावृट्शरद्वसन्तेषु धृतिपथ्यान्नसेविनाम् ९
आर्तवं या न पश्यन्ति पश्यन्ति विफलं च याः
अतिप्रभूतमत्यल्पमतिक्रान्तमनागतम् १०
अकर्मण्यमविस्रंसि किञ्जातमृतयश्च याः
दुर्बलाऽदृढपुत्राश्च कृशाश्च वपुषाऽथ याः ११
प्रस्कन्दना विवर्णाश्च याश्च प्रचुरमूर्तयः
स्पर्शं च या न विन्दन्ति याश्च स्युः शुष्कयोनयः १२
शतपुष्पाशतावर्यौ स्यातां तत्रामृतं यथा
पुमानप्युपयुञ्जानो यथोक्तानाप्नुते गुणान् १३
चूर्णितायाः पलशतं नवे भाण्डे निधापयेत्
तच्चूर्णं शतपुष्पायाः प्रातरुत्थाय जीर्णवान् १४
पलार्धार्धं पलार्धं वा पलं वा सर्पिषा लिहेत्
शक्त्या वा तस्य जीर्णान्ते भुञ्जीत पयसौदनम् १५
विस्रंसितोपचारं च विदध्यादत्र पण्डितः
उपयुक्ते पलशते यथेष्टांल्लभते सुतान् १६
अपि बन्ध्या च षण्ढा च सूयेते शतपुष्पया
युवा भवति वृद्धोऽपि बलवर्णौ लभेत च १७
तेजसा चौजसा बुद्ध्या दीर्घायुष्केण मेधया
युज्यते प्रजया धृत्या वलीपलितवर्जितः १८
अतो बिडालपदकं लिह्यान्मधुघृताप्लुतम्
मेधावी शतपुष्पाया मासाच्छ्रुतधरो भवेत् १९
अग्निकामस्तु मधुना रूपार्थी क्षीरसर्पिषा
बलकामस्तु तैलेन प्लीहकी कटुतैलयुक् २०
कामलापाण्डुशोथेषु महिषीक्षीरमूत्रवत्
गुल्मी चैरण्डतैलेन कुष्ठी खदिरवारिणा २१
शुष्कविण्मत्स्यवसया पिबेन्मांसरसेन वा
जीर्णमांसरसेनाद्यान्मुद्गमण्डेन कुष्ठिकः २२
शतपुष्पापलशतं जलद्रोणेषु पञ्चसु
पादावशेषं निष्क्वाथ्य पूतं भूयो विपाचयेत् २३
धात्रीचिकित्सिते वर्गः सामान्यो य उदाहृतः
तैलाढकं पचेत्तेन शनैः क्षीरे चतुर्गुणे २४
तत् पक्वं नस्यपानाद्यस्नेहम्रक्षणबस्तिषु
प्रशस्तमृषिणा नित्यं यथोक्तगुणलब्धये २५
य एवं शतपुष्पाया विधिर्दृष्टोऽत्र सर्वशः
स एवोक्तः शतावर्या घृतं पाके तु शस्यते २६
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने शतपुष्पाशतावरीकल्पः

रेवतीकल्पाध्यायः
अथातो रेवतीकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २

प्रजापतिर्वै खलु ह स्मैक एवेदं सर्वमासीत् । स कालमेवाग्रेऽसृजत । ततो देवाँश्चासुराँश्च पितॄँश्च मनुष्याँश्च सप्त च ग्राम्यान् पशूनारण्यानोषधींश्च वनस्पतींश्च । अथो स प्रजापतिरैक्षत ततः क्षुदजायत सा क्षुत् प्रजापतिमेवाविवेश सोऽग्लासीत् तस्मात् क्षुधितो ग्लायतीति । स ओषधीः क्षुत्प्रतीघातमपश्यत् । स ओषधीरादत् । स ओषधीरुषित्वा क्षुधो व्यत्यमुच्यत । तस्मात् प्राणिनि ओषधीरशित्वा
क्षुधो व्यतिमुच्यन्ते । कर्मसु च युज्यन्ते ३

स प्रजापतिरग्रीयमेव रसमासां यस्मादग्रहीत् तस्मात् स तृप्त एव स्यात् । ऋजीषं प्राणिन ओषधीनां रसमश्नन्ति । तस्मादहरहः क्षुध्यन्ति
प्रजाः ४

प्रजापतिर्ह्यासां सारमघसत् स प्रजापतिस्तृप्तस्तां क्षुधं काले न्यदधात्
। ततः स कालः क्षुधितो देवाँश्चासुराँश्च प्राभक्षयत ५

ते देवाश्चासुराश्च कालेन भक्ष्यमाणाः प्रजापतिमेव शरणमीयुः । स एभ्योऽमृतमाचख्यौ तेऽमृतं ममन्थुस्तदभवदिति । को न्विदमग्रे भक्षयिष्यतीति । तं देवा एवाभक्षयन्त । ततो देवा अजराश्चामराश्चाभवन् । ते देवा अमृतेन क्षुधं कालं चानुदन्त । स कालः प्रतिनुन्न इमानि भूतानि तस्मादादत्ते ततो देवानसुराअभ्यषजन्त तेऽन्योऽन्यं युयुधिरे । अथो दीर्घजिह्वी नामाऽसुरकन्या सा देवसेनामक्षिणोत् । ते देवाः स्कन्दमब्रुवन्--दीर्घजिह्वी नो बलं क्षिणोति तां शाधीति । सोऽब्रवीत्--वरं वृणुतेति ते देवा ॐ मित्यूचुः । सोऽब्रवीत्--वसुष्वेको रुद्रेष्वेक आदित्येष्वेकोऽहं स्यामिति । ते देवा ॐ मित्यूचुः स तथाऽभवत् । सोमो धरोऽग्निर्मातरिश्वा प्रभासः प्रत्यूषश्चैते पुरा सप्त वसव आसन् तेषामष्टमो ध्रुवो नामाभवत् ध्रुवो भवत्येषु लोकेषु य एवं वेद । अज एकपादहिर्ब्रध्नो हरो वैश्वानरो बहुरूपस्त्र्यम्बको विश्वरूपः स्थाणुः शिवो रुद्र इत्येते पुरा दश रुद्रा आसन् तेषां गुह एकादशोऽभवच्छङ्करो नाम सम एष लोकेष्वस्य भवति य एवं वेद । इन्द्रो भगः पूषाऽर्यमा मित्रावरुणौ धाता विवस्वानंशो भास्करस्त्वष्टा विष्णुरिति द्वादश पुरा आदित्या आसन् । तेषां त्रयोदशो गुहोऽभवदहस्पतिर्नाम तस्यैष त्रयोदशो मासोऽधिकस्तस्मात्तत्र तपति मुच्यते सर्वेभ्योऽर्तिभ्यो य एवं वेद । तस्मात्सर्वेषु लोकेषु सर्वेषु छन्दःसु सर्वासु देवतासु स्कन्दो राजाऽधिपतिरित्युच्यते । तस्मै नमो नम
इत्युक्त्वा सर्वानर्थानारभेत सिध्यन्ति य एवं वेद ६

अथो स दीर्घजिह्व्यै रेवतीमेव प्राहिणोत् । सा शालावृकी भूत्वासुरसेनामभ्यवर्तत । अथो दीर्घजिह्वीमेवाग्रेऽभक्षयत् । तां हत्वा शकुनिर्भूत्वा सोल्का सविद्युत्साऽश्मवर्षा सर्वप्रहरणवर्षिणी बहुरूपाऽसुरानभ्यजयत्तेऽसुरा वध्यमाना बहुरूपया गर्भानीयुर्मानुषीणां चामानुषीणां च । अथो रेवती तानसुरान् गर्भेष्वपश्यत् मानुषीणां चामानुषीणां च । तत एनानवधीज्जातहारिणी भूत्वा । तस्माज्जातहारिणी पुष्पं हन्ति वपुश्च हन्ति गर्भांश्च हन्ति जातांश्च हन्ति जायमानांश्च जनिष्यमाणांश्च हन्ति यद्भवत्यासुरमधार्मिकाणामपत्यमधर्मोपहतं विशेषेण । सैषा वृद्धजीवक रेवती बहुरूपा जातहारिणी पिलिपिच्छिकेति चोच्यते रौद्रीति चोच्यते वारुणीति चोच्यते । सैषा स्कन्दवराज्ञया सर्वजातिषु भूता याऽधार्मिकाणि मूढयत्यसतां विच्छेदाय । वृद्धजीवक तस्यास्तु निदानं चागमनं च पूर्वरूपं च निवर्तनं च भेषजं चोपदेक्ष्यामः । कस्मात् संसर्जने ह्येषामासुराणामसतां सन्तोऽपि वध्यन्ते । संसर्गे हि जातहारिणी दिव्येन चक्षुषा
दृश्यते । तस्यास्तु धर्मएव निवृत्तिकारणमुक्तमिति ७

अथ खलु या स्त्री त्यक्तधर्ममङ्गलाचारशौचदेवक्रिया देवगोब्राह्मणगुरुवृद्धसद्द्वेषिणी दुराचाराऽहङ्कृताऽनवस्थिता वैरकलिमांसहिंसानिद्रामैथुनप्रिया चण्डाऽरुन्तुदा दन्दशूका वावदूका विगतसाध्वसाऽथोऽकस्मात्प्रहसनाऽथोऽकस्मात्प्ररोदनाऽथोऽकस्माच्छोचनाऽनृत-वादिनी घस्मराऽथो आहुः सर्वाशिनी स्वमतकारिणी पथ्यवचनभोजनत्यागिनी भृशमश्रद्दधाना परविजातोपहिंसिका स्वार्थपरा परार्थविलम्बिनी प्रतीपा भर्तरि पुत्रेषु च निःस्नेहा तैश्च नित्यशपथा स्वश्वशुरननन्दादेवरानृत्विजमन्यान् वा तत्स्थानीयान्महतो वाऽवमन्यते तथैनान्मन्युना निर्दहन्त्यभिशपन्ति वा सपत्नीं वा दुःशीला पापचक्षुरभिध्यायति मन्त्रासदौषधकर्मभिर्वैनामभिचरति मूध्नि चाभिहन्ति बालं च चैषां सुखदुःखज्ञा भवति मित्रद्रोहिणी ह्यमङ्गलवादिनी शान्तिहोमजपदानबलिकर्मस्वस्त्ययनावष्ठीवनपरिचुम्बनपरिष्वजनपरिवर्जिता स्थानेष्वपि भवति तस्या एभिः कर्मभिरन्यैश्चाशुभैः पूर्वकैश्चेह कृतैरतिपानभोजनस्वप्नव्यायामसेवनैश्च छिद्रेष्वेतेष्वधर्मद्वारेषु जातहारिणी सज्जते । अथो पतिरस्या एवंशीलो भवति । तयोरसाध्यां जातहारिणीं विद्यात् । अथो दम्पत्यो-- रेकतरोऽधार्मिको भवति कृच्छ्रा भवति । उभयोस्तु धार्मिकयोरार्जवयोरनभिमानिकयोररोगयोश्च प्रजा वर्धते । यदा वा स्त्री प्रथमगर्भिणी म्रियमाणापत्याभिरालिभिर्वाऽन्याभिरचौक्षाभिरशुभाभिरसतीभिरमानुषपरिगृहीताभिर्जा-तहारिणीसक्ताभिर्वा संयोगमुपैति सह भुङ्क्ते सह स्नाति वस्त्रालङ्कारं वा ददाति तासां स्नानमूत्रबलिभूमीराक्रामति विशेषादार्तवोपहतानि चैतानि केशलोमनखोद्वर्तनकजीर्णवस्त्रावकर्तनान्याक्रामति भोजनशेषं पानशेषमौषधशेषं गन्धशेषं पुष्पशेषं जीर्णोपानहौ वा दधाति तदा जातहारिणी सज्जते । यदा वैनां प्रथमगर्भिणीं वा दर्शनीयां वपुष्मतीमरोगां पीनश्रोणिपयोधरोरुबाहुवदनामभिजायमानसौभाग्यां सुकेशीं विशालरक्तान्तलोचनामभिवर्धमानलोमराजिं स्निग्धकरचरणखदृष्टित्वचमतिसुकुमारीमक्लेशसहामनायासपरमां कालयोगादभिवर्धमानगर्भामुपचीयमानवपुषमाप्यायमानपयसं स्त्रियं गर्भिणीं दृष्ट्वा दुरात्मानोऽन्वीक्षन्ते न चास्याः शान्तिकर्म क्रियते तदाऽस्या जातहारिणी सज्जते । एतस्मात् कारणात् पुत्रीया काम्येष्टिरहन्यहन्युक्ता सा ह्यस्याः पापं
शयमति तस्माज्जनन्याऽपि सह भोक्तुं नार्हति गर्भिणी ८

विशेषात् प्रथमे गर्भे प्रमादं चात्र वर्जयेत्
बहुयाज्यस्य विप्रस्य संप्रसक्तस्य याजने ९
विदुषोऽपि स्वदोषेण सज्जते जातहारिणी
आक्षेप्ता यश्च वादेषु दाम्भिकोऽहङ्कृतश्च यः १०
सर्वे ते जातहारिण्या भक्ष्यभूताः सयाजकाः
रात्रौ यदा गतो मार्गात् पतिः पांसुलपादकः ११
स्पृशेदृतौ वा गर्भे वा तदाऽऽविशति रेवती
गृहीतां जातहारिण्या सेवित्वा यः स्त्रियं पतिः १२
भार्यामुपैति तत्कालं सज्जते जातहारिणी
गृहीतं जातहारिण्या गृहं नित्यं च वर्जयेत् १३
आददानं ततः किञ्चिद्गृह्णीते जातहारिणी
वधभेदाङ्गकरणैर्गवां बन्धनदोहनैः १४
गोपालस्य प्रजा हन्ति गोमाता जातहारिणी
महिष्युष्ट्र्यजपालानामेवमेव प्रजाक्षयम् १५
करोत्यधर्मसंजाता प्रसक्ता जातहारिणी
ब्रह्मस्वहारिणां लोके विषमाणां दुरात्मनाम् १६
तस्कराणां शठानां च प्रजा हन्त्युग्ररेवती
रसनाः पापकार्याणां दुष्कुला भिन्नसेतवः १७
ये भवन्त्यनयप्राया निर्दयाः सर्वजातिषु
अरक्षिणस्तीक्ष्णदण्डा वृद्धानां शासनातिगाः १८
अनपेक्षितवृत्तान्ता अधर्मस्य प्रवर्तकाः
राज्ञो यस्य च दौर्बल्यात् क्षयं यान्तीह च प्रजाः १९
गोब्राह्मणं विशेषेण हन्ति तं जातहारिणी
एवमेव दुरात्मानो राजमात्रा नृपाज्ञया २०
प्रजा यदा प्रबाधन्ते हन्ति ताञ्जातहारिणी
वणिक् पण्योपघाती यो यश्चाप्यस्य प्रतीक्षकः २१
अतिवार्धुषिकश्चैव हन्यन्ते बहुरूपया
कन्याया यश्च भूमेश्च हिरण्यस्याश्ववाससाम् २२
कुर्वन्ति येऽनृतान्येषां घातिनी जातहारिणी
सन्ध्ययोरप्सु रजसि शून्यदेवालयेषु च २३
मैथुनं यान्ति ये मोहाद्धन्ति ताञ्जातहारिणी
अधर्मद्वारमासाद्य यदा विशति रेवती २४
नारीं तदा भवन्त्यस्या रूपाणीमानि जीवक
प्रम्लायतस्तनोस्तस्या रूपाणीमानि हीयते २५
दृष्टिर्व्याकुलतां याति यथाकालं न पुष्यति
भ्रष्टसत्त्वा निरुत्साहा कुक्षिशूलनिपीडिता २६
भवत्यप्रियरूपा च तैस्तै रोगैरुपद्रुता
विपरीतसमारम्भा विपरीतनिषेविणी २७
उच्छिष्टा विकृता धृष्टा सर्वार्थेषु प्रवर्तते
अर्थसिद्धिर्न भवति संपच्चास्याः प्रलुप्यते २८
गोजाविमहिषीष्वस्या न जीवन्ति च वत्सकाः
अयशः ग्राप्नुते घोरं वैधव्यं वा निगच्छति २९
कुलक्षयं वा कुरुते प्रसक्ता जातहारिणी
शास्त्रतस्त्रिविधामाहुर्मुनयो जातहारिणीम् ३०
साध्यां याप्यामसाध्यां च तासां लक्षणमुच्यते
आषोडशवर्षप्राप्ता या स्त्री पुष्पं न पश्यति ३१
प्रम्लानबाहुरकुचा तामाहुः शुष्करेवतीम्
विना पुष्पं तु या नारी यथाकालं प्रणश्यति ३२
कृशा हीनबला क्रुद्धा साऽपि चोक्ता कटम्भरा
वृथा पुष्पं तु या नारी यथाकालं प्रपश्यति ३३
स्थूललोमशगण्डा वा पुष्पघ्नी साऽपि रेवती
कालवर्णप्रमाणैर्या विषमं पुष्पमृच्छति ३४
अनिमित्तबलग्लानिर्विकुटा नाम सा स्मृता
अभीक्ष्णं स्रवते यस्या नार्या योनिः कृशात्मनः ३५
परिस्रुतेति सा ज्ञेया नारीणां जातहारिणी
यस्यास्त्वालक्ष्यमालग्नमण्डं प्रपतति स्त्रियाः ३६
अण्डघ्नीमिति ह्याहुस्तां दारुणां जातहारिणीम्
नातिनिर्वृत्तदेहाङ्गो यस्या गर्भो विनश्यति ३७
दुर्धरा नाम सा ज्ञेया सुघोरा जातहारिणी
संपूर्णाङ्गं यदा गर्भं हरते जातहारिणी ३८
कालरात्रीति सा प्रोक्ता दुःखात् स्त्री तत्र जीवति
यया विषज्जते गर्भः प्रतीतो वाऽथ मुच्यते ३९
स्त्रीविनाशाय सा प्रोक्ता मोहिनी जातहारिणी
यस्या न स्पन्दते गर्भः स्तम्भनी नाम सा स्मृता ४०
उदरस्थो यया क्रोशेत् क्रोशना नाम सा स्मृता
दशैता जातहारिण्यो जीवमानासु मातृषु ४१
असाध्याः पुष्पघातिन्यः साध्या गर्भोपघातिकाः
जायते तु मृतं नित्यं यस्या नार्याः सवे सवे ४२
नाकिनीमिति तां विद्याद्दारुणां जातहारिणीम्
जातं जातमपत्यं तु यस्याः सद्यो विनश्यति ४३
पिशाची नाम सा घोरा मांसादी जातहारिणी
द्वितीये दिवसे यक्षी तृतीयेऽहनि चासुरी ४४
कलिर्नाम चतुर्थेऽह्नि पञ्चमेऽह्नि च वारुणी
षष्ठेऽहनि स्मृता षष्टी सप्तमेऽहनि भीरुका ४५
अष्टमे दिवसे याम्या मातङ्गी नवमेऽहनि
दशमे भद्रकालीति रौद्री त्वेकादशेऽहनि
द्वादशे वर्धिका प्रोक्ता त्रयोदशे च चण्डिका ४६
कपालमालिनी नाम चतुर्दशे च रेवती
ततः पक्षात् परे काले विज्ञेया पिलिपिच्छिका ४७
एताः षोडश निर्दिष्टा नामभिः कर्मभिः पृथक्
दारुणा जातहारिण्यो याप्या धर्मक्रियावताम् ४८
यस्यास्तु गर्भरूपाणि पञ्च षट् सप्त वा मुने
म्रियन्तेऽनन्तरं वश्या असाध्या जातहारिणी ४९
म्रियन्ते दारका यस्याः कन्या जीवन्त्ययत्नतः
कुलक्षयकरी नाम साऽसाध्या जातहारिणी ५०
जातं जातमपत्यं तु यस्याश्च म्रियते स्त्रियाः
घोरा पुण्यजनी नाम साऽसाध्या जातहारिणी ५१
निष्पन्नं म्रियतेऽपत्यं यस्याः प्राक् षोडशाब्दतः
पौरुषादिनी सा प्रोक्ता असाध्या जातहारिणी ५२
बिभर्त्यन्यं यदा गर्भं तदा पूर्वः प्रमीयते
संदंशीति वदन्त्येनामसाध्यां जातहारिणीम् ५३
गर्भेणैकं ग्रहेणैकं मृत्युनैकेन युज्यते
एषा कर्कोटकीत्युक्ता दारुणा जातहारिणी ५४
यमजं म्रियते यस्या एकं वोभयमेव वा
तामाहुरिन्द्रवडवामसाध्यां जातहारिणीम् ५५
एकनाभिप्रभवयोरेकश्चेन्म्रियते पुरा
म्रियते तद्वदप्येकस्तामाहुर्बडवामुखीम् ५६
अथैवंवादिनमृषिं कश्यपं लोकपूजितम्
पुनरेव महाप्रश्नमपृच्छद् वृद्धजीवकः ५७
एकनाभिकयोः कस्मात्तुल्यं मरणजीवितम्
रोगारोग्यं सुखं दुःखं न तु तृप्तिः समानजा ५८
अथ खलु भगवान् कश्यप उवाच--
एकमेव हि तद्बीजं भिन्नं वायुबलादथ
समानकर्मकत्वात् प्राङ्नाड्यैकत्वं च जन्म च ५९
तुल्यं निषेकाद् वृद्धेश्च जन्मनः स्तनसेवनात्
तस्मातुल्यं वयः प्रोक्तं सुखं दुःखं भवाभवौ ६०
लक्षणाकृतिवर्णाङ्गबलप्रकृतितुल्यता
न तु तृप्तिविसर्गाणां पृथग्भावात् समानता ६१ इति

अथ खलु वृद्धजीवक त्रिविधैव जातहारिणी प्रोच्यते लोकभेदतः -- दैवी मानुषी तिरश्चीनेति । तस्मात्त्रयो लोका भगवत्या रेवत्या बहुरूपया व्याप्ताः । इत्यतश्च सर्वलोकभयङ्करी रेवती पठ्यते । तां देवा अन्यन्त तत एषां प्रजाः प्रावृध्यन्त न एषां प्रजा विच्छेदमगमत् । नास्य प्रजा विच्छिद्यते य एवं वेद । तामथ रेवतीं सर्वलोकगुरुमभिव्यापिकां सर्वर्षीणां कश्यप एवाग्रे तपसोग्रेणाऽविन्दत । तस्मै प्रजां बहुलामाशीरायुष्मतीमविच्छिन्नां प्रादात् । ततः सर्वेभ्योऽभ्यधिकोऽभवत् । रेवतीमेकशोऽभिज्ञश्च रेवतीकल्पं शिष्येभ्यः
प्रादाज्जगद्धितार्थम् ६२

अतो वृद्धजीवक निरुक्ता दैवी रेवती मानुषीमत्र व्याख्यास्यामः--तत्र यथोक्तैरधर्मद्वारैर्यां यां स्त्रियमत्र प्रविशति तां तां स्त्रियमनुवर्तयिष्यामः ६३

कस्मिन् वयसि काले वा कस्मिन् कर्मणि वा मुने
स्त्रियमाविशते क्रुद्धा भगवञ्जातहारिणी ६४
अथोवाच भगवान् कश्यपः--
रजस्वलां गर्भिणीं वा प्रसूतां वा कुटीगताम्
स्त्रियमाविशते क्रुद्धा त्रिषु कालेषु रेवती ६५
न चाधर्ममृते नारीं विशते जातहारिणी
मातुः पितुः सुतानां च साऽधर्मेण प्रवर्तते ६६
--- मातॄणां च प्रजाक्षयम्
आयुः क्षयं च बालानां करोत्येषा स्वकर्मजम् ६७

अथ खलु वृद्धजीवक इमाः स्त्रियश्चतुर्विधा जातहारिण्याविश्य स्त्रियमत्र प्रविशति । वर्णां वर्णान्तरां लिङ्गिनीं कारुकीमिति । ताः खल्वतो व्याख्यास्यामः । अथो वृद्धजीवक ब्राह्मणीं समाविष्टां गृहानागतां स्त्रीं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या ब्राह्मणी जातहारिणी भवति । अथो आहुः -- सैवैनां ब्राह्मणी ऋतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या ब्राह्मणी जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक क्षत्रियां जातहारिणीं समाविष्टां गृहानागतां स्त्रियं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्याः क्षत्रिया जातहारिणी भवति । अथो आहुः--सैवैनां क्षत्रिया ऋतुमतीमवसिञ्चेत् सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्याः क्षत्रिया जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक वैश्यां जातहारिण्याऽऽविष्टामथो महाशूद्रीं स्त्रीं प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या वैश्या जातहारिणी भवति अथो शूद्रा अथो महाशूद्री वा । अथो आहुः-- सैवैनां वैश्याऽथो शूद्राऽथो महाशूद्री स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या वैश्या वा शूद्रा वा महाशूद्रा वा जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक सूतमागधवेनपुक्कसाम्बष्ठप्राच्यकचण्डालमुष्टिकमेतडौम्बडवाकद्रुमिडसिंहलोड्रखश-शकयवनपह्लवतुखारकम्बोजावन्त्यनेमकाभीरकहूणपारशवकुलिन्दकिरातशवरशम्बरजा जातहारिण्यो भवन्ति । अथो आहुः--तामेवैनां स्तिकनिषादप्रभृतीनां वर्णसंकराणां वा या स्त्रियो जातहारिण्याऽऽविष्टा गृहाणीयुस्ताः स्त्रीः प्रत्युपतिष्ठते अभिवादयते अभिनन्दयते संव्यवहरति संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशति उपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्याः एता वर्णसंकरजा जातहारिण्यो भवन्ति । अथो आहुः-- तामेवैनां स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या वर्णसङ्करा जातहारिणी स्त्री जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक लिङ्गिनी परिव्राजिका श्रमणका कण्डनी निर्ग्रन्थी चीरवल्कलधारिणी तापसी चरिका जटिनी मातृमण्डलिकी देवपरिवारिका वेक्षणिका वा जातहारिण्यो वा जातहारिण्याऽऽविष्टा वा गृहानुपेयात् तां प्रत्युपतिष्ठतेऽभिवादयते वा संव्यवहरते वा संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्या लिङ्गिनी जातहारिणी भवति । अथो आहुः--सैवैनां लिङ्गिनी स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्या लिङ्गिनी जातहारिणी भवति या एवं वेद । अथो वृद्धजीवक अयस्करी जातहारिण्याऽऽविष्टा कार्ष्णायसेनार्हणे नाभ्यैत्यथो तक्ष्णी दारवेणाथो कुलाली मार्तिकेनाथो पदकरी चार्मणेनाथो मालाकारी मुक्तकुसुमेनाथो कुविन्दी तानुकेनाथो सौचिकी स्यूतेनाथो रजकी सुरक्तेनाथो नेजिका निर्णिक्तेनाथो गोपी तक्रेणाथो कारुकुणीस्वेनार्हणेन जातहारिण्याविष्टा गृहानुपेयात् तां स्त्री प्रत्युपतिष्ठतेऽभिवादयते संव्यवहरते संवदति संस्पृशति संभुङ्क्तेऽभिहन्त्याक्रोशत्युपशेते पदमृतुनिर्माल्यवासोलङ्कारमाक्रामति वा तस्याः कारुकुणीजातहारिणी भवति । अथो आहुः--सैवैनां कारुकी स्त्रियमृतुमतीमवसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति । नास्याः कारुकी जातहारिणी भवति या एवं वेद
६८

अत ऊर्ध्वं वृद्धजीवक तिरश्चीं जातहारिणीमनुव्याख्यास्यामः--पञ्चविधा ह्येषा प्रोच्यते । तद्यथा--शकुनी चतुष्पदी सर्पा मत्सी वनस्पतीरिति । ता एता प्रायेण सतामेव प्रसज्जन्ते । वृद्धजीवक ये शकुनीं वर्द्धन्तीं घ्नन्ति घातयन्ति वा तेषां शकुनिरूपा जातहारिणी प्रसज्जते महाग्रहः । सा काकी भासी कुक्कुटी मयूरी चाषी सारिका तैलपायिका उलूकी भोलन्तिका गृध्री श्येनी भारद्वाजी ततोऽन्यतमा वा भूत्वा स्वप्नेऽपूर्वान् दर्शयति गर्भिणीं सूतिकां बिभीषयति बालं चोत्त्रासयति महावेगा महाप्राणा घोररूपा रौद्राऽनायतपक्षा वज्रतुण्डनखदशनदंष्ट्रा वैदूर्यज्वलनसदृशलोचना बहुविचित्रमहापत्रा कण्ठे कनकमणिविचित्रगुणधारिणी विविधकुसुमगन्धवसनमुसलोज्ज्वलधारिणी वरमुकुटा नूपुरकविकम्बूकदाङ्गदकुण्डलवामघण्टापताकाऽऽतपत्रोल्काविद्युन्मेघमालाऽलङ्कृता भगवतः कुमारवरस्य ग्रानी च स्वसा च स्वप्ने धर्षयित्वा रोगागममनन्तरमस्य करोति । ततो मध्याह्नेऽर्धरात्रे वा संध्ययोर्वा सुप्ते वा बालगृहे निलीयते यथोक्तानामेकतमा ततो बाल उच्चैः क्रोशति रोदिति त्रसते वेपते बिभेति ज्वर्यते विह्वलति निस्तनति मुह्यति विस्खलति सूच्यते शून्यते विस्रंस्यते रोगैरन्यैश्चोपद्रूयते । या त्वभीक्ष्णं शकुनीं स्त्री स्वप्ने पश्यति ततः साऽस्याः शकुनी जातहारिणी सज्जते । तस्या एव शकुन्या निभीतस्या एव पुरीषेण पक्षोदकेन वैनां वृद्धस्त्री शकुनिना स्त्रीं तत्रावसिञ्चेत् । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भगधेयेन प्रजावतीं स्त्रियं करोति । नास्याः शकुनी जातहारिणी भवति या शकुनीं न हिनस्ति या एवं वेद । अथो वृद्धजीवक ये गां घ्नन्ति घातयन्ति वा गोमांसं चोपयुञ्जन्ते तेषां गोमाता जातहारिणी प्रसज्जते । एषा एनां स्वप्नेऽभिद्रवति गोपालो वा वत्सकपालो वा असाध्या तस्या गोमाता जातहारिणी प्रसज्जति । अथो आहुर्गोमध्य एनां गोमूत्रपुरीषाभ्यामुपोषितां स्नपयेत् सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन गौः प्रजावतीं करोति । नास्या गोमाता जातहारिणी भवति या गां न हिनस्ति या एवं वेद । एवमेव महिषीणामजानामविकानां गर्दभीनां श्वाश्वतरीणामुष्ट्रीणां सूकरीणां मूषिकाणां शुनीनां गलगोलिकानां गोपानां विष्वम्भराणां मृगादीनां चैवमेष विधिरुक्तः ॥ अथो वृद्धजीवक सर्पीं गृहचारिणीमगृहचारिणीं वा स्त्री हन्ति घातयति वा तस्याः सर्पी जातहारिणी प्रसज्जतेऽथो विषमृत्युमस्याः प्रजाया आहुः । एनां वल्मीके नागकुले वा सिञ्चेदथो आहुर्वल्मीकशतमध्य इति । सैव तत्र प्रायश्चित्तिः । स्वेनैवैनां भागधेयेन प्रजावतीं करोति नास्याः सर्पी जातहारिणी भवति । या सर्पान् न हिनस्ति नास्याः प्रजाया विषमृत्युर्भवति या एवं वेद ॥ अथो वृद्धजीवक या मत्स्यमकरतिमिङ्गिलनक्रशङ्खशम्बूकसुखनकादीनि भूतान्यदुकचराणि हन्ति तस्यास्तेनाधर्मेण रेवती क्रुद्धा प्रजा हिनस्ति मत्सी वा मकरी शुक्तिः शङ्खी भूत्वा स्वप्ने पूर्वं हर्षयति ततो हिनस्ति भूयिष्ठं तस्या अप्सु प्रजा विनश्यति जलत्रासेन एकैकरोगैर्वा । अथो आहुः--रोहिणीस्नानेनैवैनां प्रयुदियात् सैव तत्र प्रायश्चित्तिः । या मत्स्यान् न हिनस्ति नास्या मत्सी जातहारिणी भवति या एवं वेद ॥ अथो वृद्धजीवक ये वनस्पतीन् हिंसन्ति परिगृहीतानपरिगृहीतान् वा तेषां वनस्पतिदेवता अभिक्रुद्ध्यन्ति । अग्निर्वैश्वानरो नाम सोमः पितृमान्नाम स्वधिति शिवो नाम आपो वरुणो नाम भूमिर्निऋर्तिर्नाम गौर्वियन्नाम गौः श्लोको नाम देव पवनो नाम आदित्यः पूषा नाम दिशः काष्ठा नाम इन्द्रो वरुणो नाम वायुः प्राणो नाम ता वै द्वादश वनस्पतीनां देवताः । एता एव वनस्पतीन् घ्नन्तं घ्नन्ति । अथो आहुर्वनस्पतिमध्ये विवृत्तेषु ता एव देवताः स्थालीपाकैर्यजेत । अग्निमाज्येन सोमं श्यामाकेन शिवं पायसेन आपो दध्ना भूमिं सप्तान्नकेन ग्रामधूपैः गां वाऽग्निं पवमानं पिशितेन पूषाणमन्नाद्यैः दिशो मद्यैः इन्द्रं हविष्यभोजनेनेति । अथो अस्या वनस्पतिदेवताः प्रजामेव प्रयच्छन्ति या वनस्पतीन् न हिनस्ति । नास्या वनस्पतिदेवता
जातहारिण्यो भवन्ति या एवं वेदेति ६९

तत्र श्लोकाः--
अधर्मस्यातिसंवृद्ध्या रेवती लभतेऽन्तरम्
लब्ध्वाऽन्तरमतिक्रुद्धा नानारूपैर्यथोदितैः ७०
अन्यैश्च दारुणतरैस्ततो हन्ति प्रजा इमाः
यौगपद्येन भार्या वा म्रियन्ते वा पृथक् पृथक् ७१
ग्रस्तस्य जातहारिण्या शिशो रूपाणि मे शृणु
सद्यो रूपं तु तत्रैकं यदुच्चैस्त्रस्तवाशितम् ७२
स्तन्यदूषणमेवाग्रे ज्वरस्तन्द्री प्रमीलकः
शिरोभितापो वैवर्ण्यं भृशं वा पाण्डुपीतता ७३
तृष्णाऽतिसारो वैस्वर्यं तालुशोषः प्रहर्षणम्
मुखपाको मुखस्फोटो वैसर्पः पाण्डुकामले ७४
जागर्ति रोदिति भृशं पीड्यते च मुहुर्मुहुः
श्वसते कासते क्षौति शीतीभवति च क्षणात् ७५
निश्चेष्टो मृतकल्पश्च मुहुः स्थित्वा प्रचेष्टते
न पुष्यति यथाकालं स्तनं न प्रतिनन्दति ७६
अपूर्वं च जनं दृष्ट्वा भृशमुद्विजते शिशुः
बिडालेनकुलाखूनां शब्देनाशु प्ररोदिति ७७
मृदुनाऽपि च रोगेण पीडामाप्नोति दारुणाम्
अभीक्ष्णं त्रसते सुप्तो न शर्म लभते सुखात् ७८
रूपाण्येतानि संलक्ष्य भेषजं न पृणोति यः
सोऽपत्यैः कुरुते कार्यं स्वप्नलब्धैर्धनैरिव ७९

अत ऊर्ध्वं वरणबन्धमुपक्रमिष्यामः । बन्धो हि गर्भिण्याः क्षयति प्रागष्टमान्मासात् अत ऊर्ध्वं प्रतिषेधस्तस्यान्यत्र । वृद्धजीवक श्रद्दधानानां धर्मक्रियावतां त्रिरात्रोपोषितानां भिषक् छुचिरुपोषितः प्रजावरणं बध्नीयात् बद्धे चैनां दक्षिणाभिरिष्टा भिरर्चेत् सा ह्यस्याः प्रजाः प्रयच्छति । तत्र संभारा रोहिणीस्नान स्नाता । स्नपनमप्येके रात्रौ चेत् कुर्याद् गृहेषु दिवा चेदरण्येऽनुगुप्तमुभयं दिग्बन्धं कृत्वाऽऽत्मर क्षामत्र विधायारभेत् तत्कर्म । अथ शुचौ देशे गोचर्ममात्रं गोमयेनाद्भिश्च स्थण्डिलमुपलिप्य भिषगहतवासाः स्नातोऽलङ्कृतः प्राङ्मुख उपस्पृश्योद्धृतहस्तस्तूष्णीमुपस्पृशेदशब्दवतीभिरफेनाभिरनुष्णाभिरद्भिर्ब्राह्मेण तीर्थेन त्रिः प्राश्नीयात् द्विरोष्ठौ परिमृजेत् तत्त्रिरित्येके । अक्षिणी कर्णौ नासिकेऽप्यपानं चोपस्पृशेत् । दुव्यमहति सूर्ये स्थण्डिलमभ्युक्ष्य हिरण्यपाणिर्दर्भपिञ्जूलीनां गर्भवतीं गृहीत्वा तया लक्षणमुल्लिख्य दर्भपिञ्जुलीमभ्युक्ष्य बहिर्निरस्यति तत्राग्निं प्रणयति । यथापूर्वोक्तं परिसमूह्य परिसंमृक्ष्य प्रदक्षिणं बर्हिषा परिस्तीर्याग्नेः पुरस्तात् काञ्चनीं राजतीमुशीरमयीं दर्भमयीं वा प्रतिकृतिं प्रतिष्ठाप्य कुमारं षष्ठीं विशाखं च दक्षिणतो ब्रह्माणमुत्तरत उदपात्रं द्वाभ्यां दर्भाभ्यामच्छिन्नाग्राभ्यां समाभ्यां विष्टरबद्धाभ्यामाज्यमुत्पूय आज्यमसि देवभोजनमसि तेजोऽसि चक्षुरसि श्रोत्रमसीन्द्रियमस्यायुरसि सत्यमसि हविरसीति । अथ जुहोति दर्भश्रुवेण आघारौ हुत्वा गर्भिणीं स्त्रियं स्नातामुषितां शुक्लवसनोपसंवीतामलङ्कृतां दक्षिणत उदङ्मुखीं सुखे पीठेऽथोपवेश्य द्वौ दर्भौ हस्ते दत्त्वा सा तूष्णीमासीत । अथ भिषगनुज्ञातो नित्यं होमं हुत्वाऽऽज्यभागौ हुत्वा मातङ्ग्या विद्यया जुहुयात् । मातङ्गी नाम विद्या पुण्या दुःस्वप्नकलिरक्षोघ्नी पापकल्मषाभिशापमहापातकनाशनी पातकी ब्रह्मर्षिराजर्षिसिद्धचारणपूजिताऽर्चिता मतङ्गेन महर्षिणा कश्यपपुत्रेण कनीयसा महता तपसोग्रेण पितामहादेवासादिता सर्वभयनाशनी सर्वलोकवशीकरणी स्वस्तिकरणी शान्तिकरी प्रजाकरी बन्धनी विमला अमोघकल्याणी य इमां विद्यां शुचिरावर्तयति सन्ध्ययोः पूतो भवति नास्य सर्वभूतेभ्यो भयं भवति य एनां शुचिरहन्यहनि जपति बहुपुत्रो बहुधन आयुष्माननमीवा सिद्धार्थश्च भवति य इमां विद्यां श्राद्धे आवाहयत्यक्षयमस्य पितरश्च श्राद्ध अवतार्यन्ते । य इमां गोमध्ये जपेद् बह्व्योऽस्य भवन्ति गावः । य इमां स्त्रियमृतुस्नातां श्रावयते गर्भिणी भवति । य इमां गर्भिणीं श्रावयति पुत्रवती भवति । य इमां कृच्छ्रप्रसवां श्रावयत्याशु मुच्यते । य इमां म्रियमाणपुत्रां श्रावयति जीवत्पुत्रा भवति । यत्र चैव वेश्मनि सर्पान् रक्षांसि च गुह्यकान् वा विद्यात् तत्र सर्षपानष्टशताभिमन्त्रितानवकिरेत् सर्वे नश्यन्ति । यो वा द्विष्यात् तस्य वा द्वारेऽवकिरेद्यः पूर्वमाक्रामति स आर्तिमाप्नोति । दुर्गेषु जपतस्तस्करमृगव्यालभयं न भवति । रूपे रूपेऽश्वमेधफलमवाप्नोति । सर्वतीर्थेषु स्नातो भवति । सर्वोपवासाः कृताभवन्ति । सर्वाणि दानानि दत्तानि भवन्ति । अर्थविद्या नचैतामूहेत् । नमो मातङ्गस्य ऋषिवर्यस्य सिद्धकस्य नम आस्तीकस्य तेभ्यो नमस्कृत्वा इमां विद्यां प्रयोजयामि सा मे विद्या समृद्ध्यतां सत्थव हिलि मिलि महामिलि कुरुट्टा अट्टे ममटे तुम्विपसे करटे गन्धारि केयूरि भुजङ्गमि ओजहारि सर्षपच्छेदनि अलगणिलगणि पंसुमसि ककिकाकण्डि हिलि हिलि बिडि बिडि अट्टे मट्टे अजिहट्टे कुक्कुकुक्कुमति स्वाहा । इत्येतया मतङ्गविद्यया शमीमयीनां समिधानमष्टशतं पालाशीनामश्वत्थमयीनामष्टशतं श्वेतानां पुष्पाणामष्टशतं सर्षपाणामग्निवर्णानामष्टशतं घृतं तैलं वसामित्युपकल्प्य समध्वाज्यमैकध्यमालोड्य युगपत्तिस्रः समिधो हुत्वा मन्त्रान्ते चाज्यं जुहोति एवमष्टशतं हुत्वा प्रतिसरं लक्ष्मणा पुत्रञ्जीवफलसमुद्रफेनप्रतिग्रथितालम्बाग्रहघ्नीवासुशुक्तिजीवोर्णानां रुद्रमातङ्ग्या विद्ययाऽभिमन्त्र्य कण्ठे विसर्जयेत् । अथैषा विद्या रुद्रमातङ्गी भवति । नैनामूहेत् । नमो भगवतो रुद्रस्य मातङ्गि कपिले जटिले रुद्रशामे रक्ष रक्षेमं रिरक्षुमाज्ञापयेति स्वाहा । इत्येतया रुद्रमातङ्ग्या प्रतिसरं बध्नीयात् । बद्धे प्रतिसरे प्रजावरणं बद्धं भवति । नास्याः सर्वभूतेभ्यो भयं भवति आशा समृद्ध्यते जीवत्पुत्रा सुभगा चाविधवा च भवति । ततः स्विष्टकृतं हुत्वा यथा पूर्वोक्तं शान्तिं जपित्वा महाव्याहृतिभिर्हुत्वा देवतामभ्यर्च्य विसर्ज्य बलिं कृत्वाऽग्निमभ्युक्ष्य तूष्णीं ब्राह्मणान् साधून् पुत्रवत आयुष्मतश्चान्नवासोदक्षिणाभिरभ्यर्च्य तत उपवसेत् । तत्सर्वमाहवनमुपसंगृह्य चतुष्पथे वोदके वा क्षीरवृक्षे वा निदधाति । एवमेतेन विधिना प्रजावरणं बद्धं भवति नास्याः प्रजा न भवतीत्याह भगवान् कश्यपः
अत ऊर्ध्वं सप्तरात्र प्राजापत्यं चरुं पयसि शृतं प्रजापतये जुहुयात् पूर्वोक्तं
गोघृतमित्येके । प्रजाकामपशुकामाऽयुष्कामानामिति वा ८०

इति प्रधानार्थमुदाहृतं परं
नॄणां हितार्थं भिषजां यशस्करम् ।
अलङ्घनीयं हि रहस्यमुत्तमं
शुचिः प्रयुञ्जीत न तु प्रकाशयेत् ८१
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने रेवतीकल्पो नामाध्यायः

भोजनकल्पाध्यायः
अथातो भोजनकल्पं वक्ष्यामः १
यथोवाच भगवान् कश्यपः २
मारीचमासीनमृषिं पुराणं
हुताग्निहोत्रं ज्वलनार्कतुल्यम् ।
तपोदमाचारनिधिं महान्तं
पप्रच्छ शिष्यः स्थविरोऽनुकूलम् ३
किं लक्षणं भोः क्षुधितस्य जन्तोः
पिपासितस्याथ तथोभयस्य ।
भृशे च मन्दे च कथं नु विद्यात्
तृषाक्षुधे तत्र च किं हितं स्यात् ४
भोज्यानुपूर्वी च कथं हिता स्याद्
भक्तं क्व देशे परिपच्यते च
किं लक्षणं भुक्तवतो महात्मन्
मन्दाशितात्याशितयोश्च कानि ५
गुणाश्च दोषाश्च हि तत्र के स्युरत्युष्णशीताशनयोश्च के च ।
विपर्यये के च भवन्ति दोषाः
क्षुत्तृष्णयोर्भोजनपानयोगात् ६
मण्डश्च केषां भवति प्रशस्तः
केषां प्रशस्तो भगवन्न मण्डः ।
मण्डस्य सम्यक् च निषेवितस्य
गुणाश्च दोषाश्च विपर्यये के ७
केषां यवागूरहिता हिता वा
कृताकृतौ चाप्यथ मुद्गमण्डौ ।
यूषश्च कस्मै विरसः प्रदिष्टः
समूलको वाऽथ सदाडिमो वा ८
सजाङ्गलो वा रसकौदनो वा
संभोजनस्नानमथो हितं क्व ।
इत्येवमुक्त्वा स बभूव जोषं
प्रजापतिर्वाक्यमथो बभाषे ९
नासर्वविन्नो खलु मांसचक्षुः
प्रश्नानिमान् वक्तुभिहोत्सहेत ।
उत्साहवर्णस्वरदृष्टिहानि
विषादकार्श्यश्रमवाग्विकाराः १०
भृशं च पीडा हृदयस्य जन्तो
र्ग्लानिर्मुखस्यातिबुभुक्षितस्य ।
ताल्वोष्ठजिह्वागलगण्डशोषः
श्रोत्राक्षिदौर्बल्यविषादमोहाः ११
स्मृत्यग्निमेधासुखवाक्यहानि
र्जिह्वाविवृद्धिश्च पिपासितस्य ।
एतानि रूपाण्युभयानि विद्यात्
पिपासिते चैव बुभुक्षिते च १२
विशोषणं तत्र शिरोरुजार्ति
र्मूत्रग्रहो भुक्तवतश्च भेदः ।
तत्रान्नपानानि यथोपजोषं
सात्म्यानि भोज्यानि वदन्ति तज्ज्ञाः १३
तृष्णाबुभुक्षाभृशपीडिते तु
सकृत् कृतं पूरणमप्रशस्तम् ।
ओजो हि दग्धं ज्वलनानिलाभ्यां
पुनः पुनः शोषयते च पीतम् १४
लोहं यथा तप्तमपोनिषिक्तं
तत्रान्नपानस्य गतिः कथं स्यात् ।
सकृत्प्रपीतस्य वदन्ति चैके
तृप्तिं प्रशस्तां भिषजोऽनुचिन्त्य १५
सकृत्प्रपीतस्य हि नश्यते क्षुद्
यथा पृथिव्याः सकृदाप्लुतायाः ।
आदाय पित्तं पवनो ह्युदीर्ण
ओजोदहां संजनयेद्धि तृष्णाम् १६
शिरोगतः स्थाननिरुद्धवेगो
हृत्क्लोम संतापयते ततस्तृट् ।
शूलारताध्मानगुदप्रकोप
ज्वराङ्गदाहश्रममोहतृष्णाः १७
शय्यासनस्त्रीविषयेष्वभक्ति
र्भवन्ति रूपाण्यपतर्पितस्य ।
आदातुमिच्छत्यपि यस्तु भूयो
मध्यस्थता चेद्भवतीप्सितेषु १८
तद्देशकालौ भजते च युक्त्या
मन्दाशितं तं प्रवदन्ति तज्ज्ञाः ।
अत्याशितानां वमनं प्रशस्तं
मन्दाशितानामशनं तु युक्त्या १९
कालं च देशं च वयो बलं च
समीक्ष्य चोपद्रवभेषजं च ।
दृष्टिप्रसादो वचनप्रसिद्धिः
स्वरस्य गाम्भीर्यमदैन्यमूर्जाः २०
इष्टेन्द्रियार्थेषु मनःप्रहर्षः
स्निग्धं मुखं भुक्तवतश्च विद्यात् ।
कान्तिर्बलस्मृतिमेधावयांसि
प्रमोदसत्त्वस्थितिरङ्गवृद्धिः २१
दृढेन्द्रियत्वं स्थिरताऽऽयुषश्च
सम्यग्गुणा भुक्तवतो नरस्य ।
भोज्यस्य कालं मुनयो बुभुक्षां
वदन्ति तृष्णामपि पानकालम् २२
भोज्यानुपूर्वी तु यथा हिता स्यात्
तां तु प्रवक्ष्यामि निबोध वत्स ।
तृष्णाक्षुधौ चेद्युगपद्भवेतां
तयोर्भिषक् तां प्रथमं चिकित्सेत् २३
पूर्वं पिपासां शमयेद्विपश्चित्
त्रिभागसात्म्योचितपानयोगैः ।
ततोऽशनैः कुक्षितृतीयभागं
संपूरयेद्भागमथावशिष्यात् २४
एवं हि भुञ्जानमथो पिबन्तं
जितेन्द्रियं साहसवर्जिनं च ।
आरोग्यमायुर्बलमग्निदीप्तिः
प्रजा च मुख्या भजते सुखं च २५
बुभुक्षितो यस्तु पिबेत् पुरस्ता
दश्नाति चान्नाति पिपासितः सन् ।
तस्याशु रोगाः प्रभवन्ति घोरा
विपर्ययादानभवा अपायाः २६
ज्वराङ्गदाहश्रमकार्श्यकुष्ठ
च्छर्दिभ्रमानाहविसूचिकास्तृट् ।
यक्ष्मातिसारौ गलतालुशोषो
देहेन्द्रियार्थेन्द्रियवर्णहानिः २७
प्रतान्तभोक्तुर्विषमाशिनश्च
तोयातिपस्यातिमहाशनस्य ।
विरोध्यजीर्णाधिविभोजनस्य
वह्निः प्रशाम्यत्यपि चान्नकाले २८
तस्माच्च पूर्वं न जलं पिबेयुः
स्नेहोपरिष्टान्न न चातिभुक्त्वा ।
पीतं हि सद्यः शमयत्युदर्यं
ततो ज्वराद्याः प्रभवन्ति रोगाः २९
स्नेहं समाक्रम्य विचित्रभोज्यै
र्जलं पिबेन्मध्य इवाशनस्य
भुक्त्वाऽपि पित्तप्रकृतिः पिबेच्च
मात्रां च सर्वत्र हितं च सात्म्यम् ३०
जिह्वौष्ठताल्वन्त्रगलोदरौजो
विदह्यते भुक्तफलं न वेत्ति ।
आनाहदुर्नामजलोदरासृग्
वैसर्पतृष्णाक्षिशिरोरुजश्च ३१
अत्युष्णपानान्ननिषेवणेन
रेतोऽसृगण्डोपचयश्च दुष्येत् ।
अग्निः क्षयं याति रसं न वेत्ति
श्लेष्मा च पित्तं च निचीयतेऽस्य ३२
शीतान्नपानातिनिषेवणात्तु
कफानिलारोचकशूलवाताः ।
हिक्काशिरोनेत्रगलग्रहाद्या
आलस्यविण्मूत्रगुरुत्ववृद्धिः ३३
स्निग्धं च पूर्वं मधुरं च भोज्यं
मध्ये द्रवं शीतमथो विचित्रम् ।
तीक्ष्णोष्णरूक्षाणि लघूनि पश्चाद्
भोज्यानुपूर्वी खलु सात्म्यतश्च ३४
यः पैत्तिकः क्षीणकफो निरोगो
मूर्च्छाश्रमात्यध्वनिपीडितश्च ।
अत्युष्णपानान्ननिषेवणाच्च
दृष्टिर्हता मद्यनिषेवणाच्च ३५
शुष्कं कफं ष्ठीवति यश्च कृच्छ्रात्
ष्ठीवंश्च यः क्लिश्यति निर्विकारः ।
क्लेशात् प्रसूते तृषिता च या स्त्री
क्षीणेन्द्रियो यश्च मदात्ययार्तः ३६
मन्दाशिनो योषिति जागरूकाः
संशोधनैर्ये मृदिताश्च मर्त्याः ।
दग्धाश्च वैसर्पविदाहिनश्च
कासेन कोपेन मदेन चार्ताः ३७
उद्भ्रामितः पूगफलेन यश्च
जग्धेन वा यो मदनेन मूढः ।
किंपाकभल्लातविषोपसृष्टाः
क्षौद्राशिनो ये गरपीडिताश्च ३८
मद्यं पयस्तक्रमथो दधीनि
येऽश्नन्ति वाराहमथापि मत्स्यान् ।
ताम्बूलपूगोन्मथिताश्च ये स्युः
कालोचिता यस्य भवेच्च तृष्णा ३९
एते तथाऽन्येऽपि च तद्विधा ये
तेषां जलं शीतमुशन्ति पथ्यम् ।
विष्टम्भतृष्णाग्निनिपीडिता ये
तथा लभन्ते बलसत्त्वपुष्टीः ४०
कौरुक्षेत्राः कुरवो नैमिषेयाः
पाञ्चालमाणीचरकौसलेयाः ।
हारीतपादाश्चरशौरसेना
मत्स्या दशार्णाः शिशिराद्रिजाश्च ४१
सारस्वताः सिन्धुसौवीरकाख्या
ये चान्तरे स्युर्मनुजाः कुरूणाम् ।
उदग्विपाट्सिन्धुवसातिजाश्च
काश्मीरचीनापरचीनखश्याः ४२
बाह्लीकदाशेरकशातसाराः
सरामणा ये च परेण तेषाम् ।
एषामवक्षार्यशनादिरुक्ता
सात्म्येचितत्वाद्भिषजा विधेया ४३
सा ह्यस्य तृष्णां शमयत्युदीर्णां
बलं च पुष्टिं च रुचिं च धत्ते ।
वातानुलोम्यं प्रकृतिस्थतां च
विण्मूत्रदेहेन्द्रियजां करोति ४४
संतर्पयत्याशु च तेन सौभ्यो
हिता मता सात्म्यगुणेन चैव ।
पात्रेषु हृद्येषु सुपुष्पवत्सु
भुञ्जीत देशे च मनोऽनुकूले ४५
तक्रं शुक्तं दधि मस्तुर्गुडं च
द्राक्षा मुख्याः सुकृताः शक्तवश्च ।
शीतं हितं दाडिमवारि चार्यं
स्यात्सैन्धवं भूस्तृणपल्लवाश्च ४६
तानि त्रिवृद्वासककारवृन्ताद्
रसः कुठेरादिसमातुलुङ्गात् ।
स्यादार्द्रकयुताः शक्तवश्च
सर्पिर्वरिष्ठं लघवः षाडवाश्च ४७
भक्ष्याश्च मुख्या लघवः सपक्वाः
सूपा रागाः पानकं मद्ययोगाः ।
अतो गणाद्युक्तिमवेक्ष्य कुर्यात्
सात्म्यादवक्षारिमथो विधिज्ञाः ४८
काशीन्सपुण्ड्राङ्गकवङ्गकाचान्
ससागरानानूपकतौसलेयान् ।
पूर्वं समुद्रं च समाश्रिता ये
किरातदेश्यानपि पूर्वशैलान् ४९
शाकैः समत्स्यामिषशालितैलै
र्द्रव्यैश्च तीक्ष्णैः समुपक्रमेत ।
कफो हि तेषां निचितः स्वभावा
द्विलीयमानः कृशतां करोति ५०
कलिङ्गकान् पट्टनवासिनश्च
सदक्षिणान् वाऽपि च नार्मदेयान् ।
उच्चावचद्रव्यगुणान्विताभिः
पेयाभिरेतान् समुपक्रमेत ५१
तैलानि कङ्ग्वाढकीयावकाश्च
मूलानि कन्दाश्चणकाः कलायाः ।
एतानि सात्म्यानि भवन्ति तेषां
पेयास्तथोष्णाः परिसिद्धिकाश्च ५२
पेया हि सिद्धा सह दाडिमेन
तक्रेण चुक्रेण जलेन चोष्णा ।
ससैन्धवा चाशु विहन्ति तृष्णां
कालोपपन्ना मरिचार्द्रकाभ्याम् ५३
पित्तात्मनः सर्पिषि संस्कृता वा
क्षीरोदके शर्करयाऽन्विता वा ।
ज्वरातिसारश्रममोहकासान्
हिक्कां च तृष्णां च हिनस्ति पेया ५४
यद्यस्य सात्म्यं च हितं च भोज्यं
शरीरदेशप्रकृतौ स्थितं च ।
तत्तस्य वैद्यो विदधीत नित्यं
काले च हृद्यं लघु मात्रया च ५५
स्तनस्य वामस्य भवत्यधस्ता
दामाशयस्तत्र विपच्यतेऽन्नम् ।
धातूरसः प्रीणयते विसर्पन्
किट्टान्मलानां प्रभवोऽखिलानाम् ५६
दीप्ताग्नयो वर्णबला थनश्च
व्यायामनित्या बहुभाषिणश्च ।
स्त्रीषु प्रसक्ताः क्षयिनो विनिद्रा
रोगैर्विमुक्ताः कृशदुर्बलाश्च ५७
विशुष्कविण्मूत्रकफाध्वखिन्ना
निपीड्यमाना विषमज्वरैश्च ।
एते नरा मांसरसं पिबेयुः
प्राग्भोजनाद्वातविकारिणश्च ५८
प्रक्लिन्नकाया गलवक्त्ररोगै
रार्ताः क्षताः पित्तकफादिताश्च ।
ज्वरातिसारग्रहशोकनिद्रा
प्रमेहपाण्ड्वामयकामलार्ताः ५९
विषान्विताश्चापि मदान्विता वा
ये चोपसृष्टा विविधैर्गरैर्वा ।
छर्द्यूरुविष्कम्भविकारिणश्च
नैते नरा मांसरसं पिबेयुः ६०
तक्रं तु तेषां भवति प्रशस्तं
ससैन्धवं शर्करयाऽन्वितं वा ।
सौवर्चलेनाथ विडेन युक्तं
मध्येऽपि चान्तेऽपि सनावनीतम् ६१
तक्रं हि सद्यो मथितं सुगन्धि
रुचिं बलं पुष्टिमथो दधाति ।
अम्लोष्णवैशद्यलघु स्वरो वा
निषेव्यमाणं ज्वलयत्युदर्यम् ६२
वान्ते विरिक्ते ज्वरिते विशुष्के
महोपवासश्रमपीडिते च ।
तृष्णातिसारोरुगदोपतप्ते
वैसर्पपित्तामयघर्मिते च ६३
संसृष्टरोगेषु महाशनेषु
विदह्यमानेषु जलोदरेषु ।
सद्यःप्रसूतास्वपि चाङ्गनासु
मण्डं विदध्यादपि कामलासु ६४
आमातिसारज्वरयोर्विबन्धे
कफोद्भवे श्वासगलामयेषु ।
हिक्कोपजिह्वागलशुण्डिकासु
कासेऽक्षिरोगे शिरसो गुरुत्वे ६५
छर्दिश्रमोन्मादविसूचिकासु
योन्यामये प्लीह्नि च पीनसे च ।
गुल्मेषु हृद्रोगहलीमकेषु
वातप्रकोपेष्वथ केवलेषु ६६
धात्र्याः प्रवृद्धे पयसि प्रदुष्टे
बालस्य निद्राकफवातवृद्धौ ।
मूत्राभिवृद्धौ हृदयद्रवे च
निष्ठीविकालस्यविषादकेषु ६७
छर्देषु सर्वेषु तथा ग्रहेषु
पृष्ठग्रहे यक्ष्मणि हृद्गदे च ।
चिन्ताश्रमोन्मादमदोपतापे
मण्डं भिषङ्नोपदिशेद्विपश्चित् ६८
मण्डो हि पीतः कफिना गदे वा
कफात्मके वर्धयते कफस्तान् ।
सोऽस्याग्निमुत्साद्य गदान् पुनस्तान्
प्रकोपयन् कष्टतरान् करोति ६९
तस्मात्तु तेषां काफनां नराणां
न मण्डमाहुर्भिषजः प्रशस्तम् ।
स्यान्मुद्गमण्डोदक एव तेषां
ससैन्धवव्योषयुतः सुखाय ७०
कषायतिक्तः कटुपाकिभावात्
कफं निहन्त्याशु हि मुद्गमण्डः ।
तस्मात् कृशं रोगविमुक्तदेहं
दीप्तानलं वा सविलम्बिरोगम् ७१
व्यायामिनं वा बलिनं सरोगं
यश्चोचितो गोरसमांसमत्स्यैः ।
संयोजयेत्तं विरसेन यूष्णा
सास्रेण वा गोरससाधितेन ७२
त्रिःप्रस्रुतो दीपनतोयसिद्धः
स्यात्तण्डुलैः संपरिभृष्टकैर्वा ।
मुद्गैर्यवैश्चापि तथैव लाजै
रुष्णः सुगन्धिर्विशदेन पीतः ७३
मण्डः क्षणेनास्य बलं दधाति
व्याधिस्तथा मार्दवमभ्युपैति ।
सर्वेन्द्रियाणि प्रकृतिं भजन्ते
भोज्यानुपूर्वी च तथा कृता स्यात् ७४
मण्डं यथोक्तं पिबतो गुणास्ते
विपर्यये चापि विपर्ययः स्यात् ।
य एव मण्डस्य भवन्ति योग्या --- ७५
लघ्वी यवागूर्न विदह्यते च
दोषानुलोम्यं विदधाति चोष्णा ।
पित्तं च माधुर्यगुणेन हन्ति
भोज्यानुपूर्वीं क्रमशश्च युङ्क्ते ७६
सदाडिमा वातकफार्दितस्य
सशर्करा पित्तकफान्वितस्य ।
रसेन वा जाङ्गलकेन सिद्धा
सगोरसा वा सह दाडिमैर्वा ७७
हितां नृणां मारुतपीडितानां
गुल्मे तथा प्लीह्नि च पीनसे च ।
सभोजनस्नानविहारयान
व्यायामसंभाषणगीतपथ्याम् ७८
तत्स्वस्थवृत्तौ च हितां वदन्ति
रोगे निवृत्ते ज्वलने च मन्दे ।
रोगे निवृत्ते ज्वलने च दीप्ते
रोगैर्विमुक्ताः कृशदुर्बलाश्च ७९
क्षीणेन्द्रिया वर्णबलाग्निहीना
यातार्दिताः पित्तनिपीडिताश्च ।
ज्वरतिसारोदरपायुरोग
चिन्तेष्यपानाध्वगरोगतप्ताः ८०
कासेन शस्त्रेण विषेण चैव
निपीडिताः शोकहताश्च नित्यम् ।
व्यायामगेयाध्ययनश्रमार्ता
भूमाग्निवातातपजागरार्ताः ८१
विदह्यमानाक्षिगलास्यनासा
विषीदमानाः स्मृतिबुद्धिहीनाः ।
आनाहिनः शुष्कपुरीषमूत्रा
भगन्दरार्शोग्रहकुण्डलार्ताः ८२
निष्पिष्टभग्नच्युतपीताङ्गे
शुद्धव्रणे मांसवेवर्जिते च
जीर्णज्वरान्येद्युतृतीयकेषु
नित्यज्वरे चापि चतुर्थके च ८३
रक्षःपिशाचोरगभूतयक्ष
क्षुद्वज्रतृष्णाग्निहिमाहताश्च ।
स्त्रीबालपुत्राल्पविशुष्कदुग्धा
गर्भश्च यस्या न विवर्धते च ८४
नाप्यायते यः स्तनपश्च बालो
जागर्ति नित्यं भृशरोदनश्च ।
चक्षुर्हतिर्यस्य च तीक्ष्णनस्यै
र्विशोषणैर्वा प्रतिकर्मणा वा ८५
एते शृतं क्षीरमथाभ्यसेयु
रलं शृतं यस्तु विरेचनीयः ।
क्षीरं हि सद्यो बलमादधाति
दृढीकरोत्याशु तथेन्द्रियाणि ८६
मेधायुरारोग्यसुखानि धत्ते
रसायनं चापि वदन्ति मुख्यम् ।
पुष्टिर्दृढत्वं लभते च गर्भो
बन्ध्या च षण्ढश्च जरंश्च सूते ८७
पायुं पयः शोधयतेऽनुलोमं
करोति वातं लघुतां नराणाम् ।
तस्माच्च सर्वेषु रसायनेषु
रोगस्य चान्ते प्रवदन्ति दुग्धम् ८८
क्षीरं सात्म्यं क्षीरमाहुः पवित्रं
क्षीरं मङ्गल्यं क्षीरमायुष्यमुक्तम् ।
क्षीरं वर्ण्यं क्षीरमाहुश्च केश्यं
क्षीरं सन्धानं क्षीरमाहुर्वयस्यम् ८९
क्षीरं सर्वेषां देहिनां चानुशेते
क्षीरं पिबन्तं च न रोग एति ।
क्षीरात् परं नान्यदिहास्ति वृष्यं
क्षीरात् परं नास्ति च जीवनीयम् ९०
शैत्यात् पयो वर्धयतेऽनिलं प्राक्
पित्तात्मनस्तेन भिनत्ति वर्चः ।
ईषच्च शूलं कुरुते गुरुत्वात्
स्नेहाद्विपाके शगयत्युभे द्वे ९१
माधुर्यतो वर्धयते शरीरं
प्रसादयत्याशु तथेन्द्रियाणि ।
स्थैर्यं पयः सान्द्रतया करोति
पैच्छिल्यतः शोधयतेऽन्तराणि ९२
विष्टभ्यते चापि कषायभावाद्
वातात्मनस्तेन करोति शूलम् ।
स्नेहाच्च माधुर्यगुणाच्च शूलं
पयो नियच्छत्यनुजीर्यमाणम् ९३
स्नेहाद्गुरुत्वात् सकषायशैत्याद्
विस्रंस्य सद्यो बलमादधाति ।
सस्नेहशैत्यान्मधुरान्वयत्वात्
कफात्मनां वर्धयते कफं च ९४
एतद्धितं सात्म्यकषायभावात्
पाकस्य तुष्टिं कुरुते न दोषम् ।
गौरं च वर्णं कुरुते सितत्वात्
स्नेहं च सस्नेहतया करोति ९५
शैत्यात् कषायाद्घनसान्द्रभावात्
संपर्कतश्चाभिषवाच्च भाण्डे ।
क्रमेण चोष्मोपचयान्निरुद्धं
पयो दधित्वाय शनैरुपैति ९६
पयो हि वातातपपीडितं द्रा
क्कूर्चीभवत्येष हि तत्र हेतुः ।
औष्ण्याद्घनत्वादथ वर्धमानः
संक्लेदनाच्चाभिषवाच्च दध्नः ९७
निर्वर्तयत्यम्लरसं पयोऽग्नि
र्मस्तुं तथा चाप्यतिवर्तमानः ।
ऊर्ध्वं सरश्चोत्प्लवते स्वभावात्
किट्टं ततोऽधश्च निषीदतेऽस्य ९८
दिव्येन च ज्ञानबलेन दृष्टं
मुखैः पुरा मन्थनमस्य युक्त्या ।
ततो घृतोदश्विदुपोपलभ्य
गावः प्रतिष्ठाः सचराचरस्य ९९
तस्माच्चिरव्याधिनिपीडितानां
मूर्च्छागतानां पततां नराणाम् ।
परायणं क्षीरमुशन्ति वैद्या
निद्रासुखायुर्बलकृत् पयो हि १००
मूढस्तु यः स्यान्मदनस्य बीजै
र्भल्लातकैः पूगफलादिभिश्च ।
पयो हि तस्योपदिशेद्विपश्चिद्
गुडोदकं वा शिशिरं पिबेत् सः १०१
क्षीरेण चैनं सगुडेन नित्यं
संभोजयेत् सर्पिषि संस्कृतेन ।
धान्वीरकार्तेऽपि तथैव कार्यं
क्षीरं हि तस्यौषधमुक्तमग्न्यम् १०२
आनूपजो जाङ्गलजो वरिष्ठः
सुभूमिजातो गुरुबद्धचक्षुः ।
सामुद्रषण्ढे क्षुकवंशकाना
मिक्षुः प्रशस्तस्तु परः परो यः १०३
स्वादुः शीतः पुष्टिकृद्दीपनीयः
स्निग्धो वृष्यो वर्णचक्षुःप्रसादी ।
श्लेष्माणमुत्क्लेदयते च जग्धो
रसस्तु पीतः कुरुते विदाहम् १०४
भुक्त्वा पिबेदिक्षुरसं कफात्मा
प्राग्भोजनात् पैत्तिकवातिकौ तु ।
संसृष्टदोषस्य हितोऽन्नमध्ये
तथाहि सर्वे सुखमाप्नुवन्ति १०५
इति प्रकृत्येक्षुरसप्रकारा
रोगांस्तु वक्ष्यामि हितार्थमेषाम् ।
ज्वरातिसारामगलामयेषु
विसूचिकाकुष्ठविलासकासे १०६
पाण्ड्वामये शूलजलोदरेषु
छर्द्यां कफोद्रेकविरिक्तवान्ते ।
नस्तः क्रियावस्तिनिरूहितेषु
स्वरोपघातक्षयपीनसेषु १०७
प्रमेहशोथोरुगदेषु नाद्याद्
रोगेष्वभिष्यन्दसमुत्थितेषु ।
ग्रहेषु सर्वेषु पयोऽतिवृद्धौ
बालेऽतिनिद्रे कफरोगिते च १०८
इक्षुः प्रयोगो न हितो हितस्तु
येषामिमांस्तानपि मे निबोध ।
जीर्णज्वरारोचकरक्तपित्त
कासक्षतक्षीणकफक्षयेषु १०९
तृष्णाग्निवैसर्पमदात्ययेषु
मूत्रामये कर्णशिरोक्षिवाते ।
त्वङ्मांसवर्णद्युतिबुद्धिरेतो
निद्राबलौजोरुधिरक्षयेषु ११०
येषामथोक्तं च पयः प्रशस्तं
तेषां हितश्चेक्षुरसः शिशूनाम् ।
कफप्रसेकारुचितृप्तिमोह
शूलप्रतिश्यायगलामयार्तान् १११
प्रमेहहृल्लासजडाग्निनाशान्
रसोऽतिपीतः कुरुते ज्वरं च ।
इत्येष धन्यं प्रवरश्च कल्पो
भोज्यं प्रति प्रश्न उदाहृतस्ते ११२
नृणां हितार्थं भिषजां च वृद्ध
सुखस्य मूलं प्रवदन्ति धर्म्यम् ११३
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने भोजनकल्पः

विशेषकल्पाध्यायः
अथातो विशेषकल्पं नामाध्यायं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
हुताग्निहोत्रमासीनं कश्यपं लोकपूजितम्
वृद्धो विशेषमन्विच्छन् पप्रच्छ विनये स्थितः ३
सूत्रस्थाने भगवता निर्दिष्टो द्विविधो ज्वरः
हेतुलिङ्गौषधज्ञानैः प्रतिपन्नोऽस्मि तं तथा ४
संशयस्त्वस्ति भगवन् सन्निपातज्वरं प्रति
तत्र मे संशयं छिन्धि विशेषज्ञ विशेषणैः ५
किमेकः सन्निपातोऽयं किं वा किं बहवो मुने
एकश्चेत् किं समैर्दोषैरनेकत्वं कथं पुनः ६
वातपित्तकफानां तु त्रयाणां संप्रकुप्यताम्
क एषां प्रथमं दोषः प्रकुप्यति महामुने ७
युगपद्वा प्रकुप्यन्ति दोषाः किं वाऽनुपूर्वशः
प्रकुप्यतां वा विषममेकैकश्येन वा पुनः ८
विशेषाः के महाभाग दोषव्याससमासतः
सन्निपाताः कियन्तो वा कानि नामानि वा पृथक् ९
उपद्रवाश्च के तेषां परिहारविधिश्च कः
उपक्रमश्च कस्तेषां साध्यासाध्यवराश्च के १०
इति पृष्टः स शिष्येण स्थविरेण प्रजापतिः
सन्निपातविशेषार्थमद्भुतं वाक्यमब्रवीत् ११
शृणु भार्गव तत्त्वार्थं सन्निपातविशेषणम्
जानते भिषजो नैनं बहवोऽकृतबुद्धयः १२
शीतोपचारात् सूतानां मैथुनाद्विषमाशनात्
प्रजागराद्दिवास्वप्नाच्चिन्तेर्ष्यालौल्यकर्शनात् १३
तथा दुःखप्रजातानां व्यभिचारात् पृथग्विधात्
शिशोर्दुष्टपयःपानात्तथा संकीर्णभोजनात् १४
विरुद्धकर्मपानान्नसेविनां सततं नृणाम्
अभोजनादध्यशनाद्विषमाजीर्णभोजनात् १५
सहसा चान्नपानस्य परिवर्तादृतोस्तथा
विषोपहतवाय्वम्बुसेवनाद्गरदूषणात् १६
पर्वतोपत्यकानां च प्रतिकूले विशेषतः
अवप्रयोगात् स्नेहानां पञ्चानां चैव कर्मणाम् १७
यथोक्तानां च हेतूनां मिश्रीभावाद्यथोच्छ्रिताः
त्रयो दोषाः प्रकुप्यन्ति क्षीणे चायुषि भार्गव १८
ततो ज्वरादयो रोगाः पीडयन्ति भृशं नरम्
सर्वदोषविरोधाच्च दुश्चिकित्स्यो महागदः १९
यथाऽग्निवज्रपवनैर्न स्यादभिहतो द्रुमः
वातपित्तकफैस्तद्वत् क्रुद्धैर्देही न जीवति २०
विषाग्निशस्त्रैर्युगपन्न जीवन्ति यथा हताः
सन्निपातार्दितास्तद्वन्न जीवन्त्यतपस्विनः २१
द्वयं तदुपरिष्टाच्च यथा प्रज्वलितं गृहत्
न शक्यते परित्रातुं सन्निपातस्तथा नृषु २२
दिग्धबाणास्त्रयो व्याधाः परिवार्य यथा मृगम्
घ्नन्त्यनौषधयस्तद्वत्त्रयो दोषाः शरीरिणम् २३
संगता नियतं यस्मात् पातयन्ति कलेवरम्
अन्यच्चाशु संनिपतत्यतो वा सन्निपातता २४
अकस्मादिन्द्रियोत्पत्तिरकस्मान्मूत्रदर्शनम्
अकस्माच्छीलविकृतिः सन्निपाताग्रलक्षणम् २५
निर्दिष्टास्तस्य भेदास्तु भिषक्श्रेष्टैस्त्रयोदश
हीनमध्याधिकसमद्व्युद्बलैकोद्बलोद्भवाः २६
वातपित्ताधिको यस्य सन्निपातः प्रकुप्यति
तस्य ज्वरोऽङ्गमर्दस्तृट्तालुशोषप्रमीलिकाः २७
अरुचिस्तन्द्रिविड्भेदश्वासकासश्रमभ्रमाः
पित्तश्लेष्माधिको यस्य सन्निपातः प्रकुप्यति २८
अन्तर्दाहो बहिः शीतं तस्य तृष्णा च वर्धते
तुद्यते दक्षिणं पार्श्वमुरःशीर्षगलग्रहः २९
निष्ठीवति कफं सासृक्कृच्छ्रात् कण्ठश्च दूयते
विड्भेदश्वासहिक्काश्च वर्धन्ते सप्रमीलकाः ३०
विधुफल्गू च तौ नाम्ना सन्निपातावुदाहृतौ
श्लेष्मानिलाधिको यस्य सन्निपातः प्रकुप्यति ३१
---सन्निपातः सुदारुणः

वातपित्ताधिक सन्निपात--विभु ।
पित्तश्लेष्माधिक सन्निपात -- फल्गु ।
कफवाताधिक सन्निपात -- मकरी ।
वाताधिक सन्निपात -- विस्फारक ।
पित्ताधिक सन्निपात -- शीघ्रकारी ।
श्लेष्माधिक सन्निपात -- उल्वण ।
हीनाभिवृद्धमध्यैस्तु सन्निपातो यदा भवेत्
तस्य रोगास्त एवोक्ता यथादोषबलाश्रयात्

सर्वस्रोतोभवं त्वस्य रक्तपित्तं प्रकुप्यति
विस्फोटैरग्निदग्धाभैश्चीयते च समन्ततः

हृदयोदरमन्त्रं च यकृत्प्लीहाऽथ फुप्फुसम्
पच्यतेऽन्तः शरीरस्थमूर्ध्वाधः पूयमेति च

शीर्णदन्तश्च मृत्युश्च तस्याप्येतद्विशेषणम्
मध्याभिवृद्धहीनैस्तु सन्निपातो यदा भवेत्

तस्य रोगास्त एवोक्ता यथादोषबलाश्रयात्
स्तब्धाङ्गः स्तब्धदृष्टिश्च स तु शेते हतो यथा

विरिच्यतेऽतिमात्रं च पुरीषं बह्वनश्नतः
सर्वेषां स्रोतसां पाक एतदत्र विशेषणम्

वृद्धभिहीनमध्यैस्तु सन्निपातो यदा भवेत्
तस्य रोगास्त एवोक्ता यथादोषबलाश्रयात्
जृम्भाप्रजागरायामविप्रलापशिरोरुजः
मन्यास्तम्भेन मृत्युश्च तस्याप्येतद्विशेषणम्

एषां त्रयाणां नामानि याम्यक्रकचपाकलाः
समैर्दोषैः प्रकुपितं सन्निपातं निबोध मे

त्रयाणामत्र दोषाणां सर्वरूपाणि लक्षयेत्
त्रिदण्डवत् समबलान्यथो आहुस्त्रिपादवत्

यानि ज्वरचिकित्सायां रूपाण्युक्तानि तानि च
कूटपाकल इत्येष सन्निपातः सुदारुणः

व्याधिभ्यो दारुणेभ्यश्च वज्रशस्त्राग्नितो यदा
सद्यो हन्ता महाव्याधिर्जायते कूटपाकलः

कूटपाकलविग्रस्तो न शृणोति न पश्यति
न स्पन्दते न ब्रवीति नाभिष्टौति न निन्दति

केवलोच्छ्वासपरमः स्तब्धाङ्गः स्तब्धलोचनः
त्रिरात्रं परमं तस्य जन्तोर्भवति जीवितम्

तदवस्थं तु तं दृष्ट्वा मूढो व्याभाषते जनः
धर्षितो रक्षसा नूनमवेलायां चरन्निशि

अन्वयं ब्रुवते चैके यक्षिण्या ब्रह्मराक्षसैः
पिशाचैर्गुह्यकैश्चैव तथाऽन्ये विषयोजितम्
आक्रुष्टमभिशप्तं च तथाऽन्ये मस्तकाहतम्
कुलदेवार्चाविहतं धर्षितं गृहदैवतैः

नक्षत्रपीडामपरे गरकर्माणि चापरे
वदन्ति सन्निपातं तु भिषजः कूटपाकलम्

सद्यः स्वस्थस्य युगपद्यदा कुप्यन्ति ते त्रयः
तदा निर्वर्तते देहे पिडका विषसंज्ञिता
विरुद्धभोजनात् कालात् परिणामाच्च कर्मणाम्
प्रकुप्यत्यनिलः शीघ्रं सोऽस्याग्निमुपहन्त्यनु
तस्योपहतकायाग्नेः पूर्ववत् पिबतोऽश्नतः
कफीभवति भूयिष्ठं यदादत्ते चतुर्विधम्

तं कफं वायुरादाय स्रोतांस्यस्य विधावति
तस्य स्रोतांसि सर्वाणि सूक्ष्माणि च महान्ति च

पूरयित्वा पिधायास्ते संरुद्धः पवनस्ततः
पित्तं प्रकोपयत्यस्य तत् पित्तं मारुतेरितम्

सर्वतः श्लेष्मणा रुद्धमन्योन्यमिथुनाश्रयात्
ज्वरं हृल्लासमरुचिं पर्वभेदं विसूचिकाम्

रोगान् नानाविधांश्चान्यान् कुर्वन्मृद्नाति देहिनम्
प्रकृतेर्वा विपर्यासात् प्रकृत्या वा प्रकुप्यति

यथा यथोद्बलत्वं वा प्राप्नुवन्ति गदाधिपाः
तथैकद्व्युद्बलानाहुर्हीनमध्याधिकानपि

कूटस्थे तु समैर्दोषैर्जायते कूटपाकलः
एवमेते विनिर्देश्याः सन्निपातास्त्रयोदश

विपन्नस्तु रसो योऽस्य धावन् यात्यनिलेरितः
विषादं गौरवं मूर्च्छां कुर्याच्चास्याङ्गवेदनाम्

स्वलक्षणेषु दोषाणां भिषक् प्राज्ञो न विभ्रमेत्
उदीरिता हि संसृष्टा दुर्बला एकदोषजाः

सन्निपातेषु दाहार्तं यः सिञ्चेच्छीतवारिणा
आतुरः स कथं जीवेद्भिषग्वा स कथं भवेत्

सन्निपातेषु कम्पन्तं विलपन्तं च यो घृतम्
पाययेद्भोजयेद्वाऽपि तौ च स्यातामुभौ कथम्

सन्निपातेषु तृष्यन्तं पार्श्वरुक्तालुशोषिणम्
यः पाययेज्जलं शीतं स मृत्युर्नरविग्रहः

समुद्रतरणं ह्येतद्वदन्ति भिषजोऽश्मना
मृत्युना सह योद्धव्यं सन्निपातं चिकित्सता

सन्निपातार्णवे मग्नं योऽभ्युद्धरति देहिनम्
कस्तेन न कृतो धर्मः कां च पूजां स नार्हति

सन्निपाते समुत्पन्ने किमादावभ्युपक्रमेत्
एतत् प्रश्नमतश्चोर्ध्वं चिकित्सोपक्रमं शृणु

संमोहमत्र भूयिष्ठं भिषजो यान्त्यनिश्चिताः
अग्रे मूले च भैषज्यं कुर्वन्तो घ्नन्ति मानवान्

यं दोषमुद्बलं पश्येत् सन्निपाते स्वलक्षणैः
तस्याग्रे निग्रहं कुर्यादित्यन्यभिषजो विदुः

वृद्धजीवक नैवं तु वयं कुर्मश्चिकित्सितम्
असम्यग्दर्शिनस्ते तु य एवं भिषजो विदुः

श्लेष्मनिग्रहमेवादौ कुर्याद्व्याधौ त्रिदोषजे
निरस्ते श्लेष्मणि ह्यस्य स्रोतःसूद्घाटितेषु च
लाघवं जायते सद्यस्तृष्णा चैवोपशाम्यति

शिरोहृदयकर्णस्य पार्श्वरुक् चोपशाम्यति
जिह्वागुरुजडत्वं च दृष्टिश्चैव प्रसीदति

तस्मात् पुनः पुनः कुर्याच्छ्लेष्मकर्षणमौषधैः
उदीर्णदोषं प्रथमे दिवसे वामयेन्नरम्

विशोषितं न वमयेदमेध्यं हि वमेत्तथा
सर्वेषु सन्निपातेषु न क्षौद्रमवचारयेत्

शीतोपचारि हि क्षौद्रं शीतं चात्र विरुध्यते
उष्णोपचारी सततं सन्निपाती प्रशस्यते

वर्जयेच्च दिवास्वप्नं धृति सत्त्वं च संश्रयेत्
लङ्घनं स्वेदनं नस्यं मर्दनं कवलग्रहः

एतान्यादौ प्रयुञ्जीत सन्निपातेषु युक्तिवित्
त्रिरात्रं पञ्चरात्रं वा दशरात्रमथापि वा

लङ्घनं सन्निपाते तु कुर्याद्वाऽऽरोग्यदर्शनात्
प्रकाङ्क्षा लाघवं ग्लानिः स्वच्छता संप्रसन्नता

उपद्रवनिवृत्तिश्च सम्यग्लङ्घितलक्षणम्
अग्लानिगौरवाश्रद्धाविकृतिश्चाविशोषिते
संमोहक्षामशैथिल्यवातरुक् चातिलङ्घिते
स्वेदाध्याये यथा प्रोक्ताः स्वेदाः सर्वाङ्गिकास्तथा

तच्चास्य स्वेदयेत् प्रायो यत्र यत्रास्य वेदना
कफो हि वायुना क्षिप्तो विष्टब्धः पार्श्वयोर्हृदि

खरीकृतश्च पित्तेन शल्यवद्बाधते नरम्
तस्याशुष्कस्य लीनस्य विलग्नस्य कृशात्मनः

दुःखनिर्हरणं कर्तुं तीक्ष्णादन्यन्न भेषजात्
तस्य तीक्ष्णानि नस्यानि तीक्ष्णाश्च कवलग्रहाः

स्वेदं दिवाजागरणं विदद्ध्यात् पार्श्वशूलिनः
मातुलुङ्गार्द्रकरसं कोष्णं त्रिलवणान्वितम्

अन्यद्वा सिद्धिविहितं तीक्ष्णं नस्यं विधापयेत्
तेन प्रभिद्यते श्लेष्मा प्रस्विन्नश्च प्रसिच्यते

शिरोहृदयमन्यास्यं दृष्टिश्चास्य प्रसीदति
प्रमीलकस्तालुशोषः श्वासः कासश्च शाम्यति

पुनः पुनश्च निद्रायां कटु नस्याञ्जनं हितम्
तीक्ष्णैर्द्रव्यैः सलवणैर्मातुलुङ्गरसद्रवैः

द्रवाम्लयुक्तैरथवा कोष्णाः स्युः कवलग्रहाः
आर्द्रकस्वरसोपेतं सैन्धवं सकटुत्रिकम्

आकर्षं धारयेदास्ये निष्ठीवेच्च पुनः पुनः
तेनास्य हृदयश्लेष्मा मन्यापार्श्वशिरोगलात्
लीनो व्याकृष्यते शुष्के लाघवं चास्य जायते
पर्वभेदो ज्वरो निद्राश्वासकासगलामयाः

मुखाक्षिगौरवं जाड्यमुत्क्लेशश्चोपशाम्यति
सकृद्द्वित्रिचतुः कुर्याद् दृष्ट्वा दोषबलाबलम्

एतद्धि परमं प्राहुर्भेषजं सन्निपातिनः
श्लेष्मणा कृष्यमाणस्य सततं सन्निपातिनः

तृष्णा भवति शुष्कास्यहृत्कण्ठगलतालुनः
तस्य तृष्णाप्रशमनं पानीयमुपदेक्ष्यते

दीपनं कफवातघ्नं त्रिदोषघ्नमथापि वा
तेनास्य पच्यते श्लेष्मा पक्वः स्थानं विमुञ्चति

कफे विमुक्ते च ततो याति वातोऽनुलोमताम्
कफानिलानुलोम्येन पित्तमल्पबलीकृतम्

सुचिकित्स्यं भवत्यस्य तस्य ह्यनुबलः कफः
अथैनं लङ्घितं ज्ञात्वा स्वल्पाबाधं प्रकाङ्क्षितम्

दीपनीयोदके सिद्धां पेयामस्योपहारयेत्
शालीनां षष्टिकानां वा पुराणानां तु तण्डुलैः

भृष्टैस्त्रिः प्रस्रुता रूक्षा सुखोष्णा लवणैर्युता

शस्यते नातिबहला नचैनं बहु भोजयेत्

स चेज्जीर्यत्यविघ्नेन तं विद्याज्जीवितं नरम्
मुद्गमण्डस्तु तत्रैव तोये श्लेष्माधिके हितः
सहार्द्रकः समरिचः ससौवर्चलसैन्धवः
मृद्वीकां भक्षयित्वाऽग्रे शर्कराक्षौद्रसंयुताम्

पित्ताधिके च ससितां पेयामेवावचारयेत्
न तु स्नेहान्नपानं वा गुरूण्यन्यानि वा भिषक्

भोजयेत् संनिपातेषु तद्ध्यस्य विषभोजनम्
पेयामरोचकार्ताय भिषग्दद्यात् सदाडिमाम्

नात्युष्णां नातिलवणां फलाम्लां यूषमेव वा
प्रदोषे भोजयेच्चैनं भुक्तमात्रे यथा स्वपेत्

गुप्ते निवातेऽग्निमति सुखप्रावरणास्तृते
सप्ताहं भोजयेच्चैनमन्नवृद्ध्याऽल्पमल्पशः

ततो विरसिकां दद्यात्तक्रदाडिमसाधिताम्
यथादोषं कषायांश्च सन्निपातज्वरापहान्

सम्यक्परिणते चान्ने विदद्ध्याज्जाङ्गलं रसम्
रूक्षोष्णव्योषलवणं तेन वा त्र्यहमाशयेत्

ततो बदरमात्रस्तु स रसस्त्र्यहमिय्यते
दशमूलादिनिर्यूहे लावाद्यादानसंस्कृतः

व्यक्ताम्ललवणस्नेहो रसः स्यादनिलोत्तरे
सर्पिषा मुद्गनिर्यूहः प्रत्यादानेन संस्कृतः

मन्दस्नेहाम्ललवणः कार्यः पित्तोत्तरे गदे
तथा कुलत्थनिर्यूहे शशाद्यादानसंस्कृतः
सबालमूलकव्योषः किञ्चित्स्नेहः कफोत्तरे
जातप्राणं तु दृष्ट्वैनमीषद्रोगावलम्बितम्

विस्रंसनेन मृदुनाऽऽभोज्य स्निग्धं विरेचयेत्
दोषशेषं तु तद्ध्यस्य विरिक्तस्योपशाम्यति

इति क्रमः समुद्दिष्टः कषायानपि मे शृणु
पिप्पलीपिप्पलीमूलचव्यचित्रकनागरम्

दीपनीयः स्मृतो वर्गः कफानिलगदापहः
रोचनो दीपनो हृद्यो लघुः सांग्राहिकः परः

शटीपौष्करपिप्पल्यो बृहती कण्टकारिका
शुण्ठी कर्कटकी भार्गी दुरालम्भा यवानिका

शूलानाहविबन्धघ्नं शट्याद्यं कफवातनुत्
मुस्तपर्पटकोशीरदेवदारुमहौषधम्

त्रिफला सदुरालम्भा नीली कम्पिल्लकस्त्रिवृत्
किराततिक्तकं पाठा वचा कटुकरोहिणी

मधुकं पिप्पलीमूलं मुस्ताद्यो गण उच्यते
संशोधनः संशमनस्त्रिदोषघ्नोऽग्निदीपनः

अष्टादशाङ्गमुदकमेतद्वा स्यात् सपार्वतम्
पित्तोत्तरे सन्निपाते प्रशस्तं तीर्थकर्तृभिः

दीपनं पञ्चमूलं वा शट्याद्यं वा प्रकल्पितम्
सपञ्चदशमूलं वा शृतं पेयं लघूदकम्
सुखोष्णं वा भृशोष्णं वा दृष्ट्वा दोषबलाबलम्
पार्वत्याः पञ्चमूल्या वा शृतं तोयं सदीपनम्

समुस्तकं पर्पटकमथवा सदुरालभम्
पेयं पित्तोत्तरे व्याधौ कोष्णं सर्वं च शस्यते

पिप्पल्यादिर्वचादारुवयस्थासरन्वितः
पेयः कफोत्तरे सामे सहिङ्गुक्षारसैन्धवः

दोषास्तेनाशु पच्यन्ते विबन्धश्चोपशाम्यति
अभया कट्फलं भार्गी भूतीकं देवदारु च

वचा पर्पटकं मुस्तं धान्यकं विश्वभेषजम्
सहिङ्गमाक्षिकः पेयो व्याधौ वातकफोत्तरे

दुरालभा वचा दारु पिप्पली भद्ररोहिणी
महौषधं कर्कटकी बृहती कण्टकारिका

क्वाथः सलवणः पेयः सन्निपातज्वरापहः
त्रिफला रोहिणी निम्बं पटोलं कटुकत्रयम्

पाठा गुडूची वेत्राग्रं सप्तपर्णं सवत्सकम्
किराततिक्तकं मुस्ता वचा चेत्येकतः शृतम्

कफोत्तरं निहन्त्येतत् पानादग्निं च दीपयेत्
आरग्वधवचानिम्बपटोलोशीरवत्सकम्

शार्ङ्गेष्टाऽतिविषा मूर्वा त्रिफला सदुरालभा
भद्रमुस्ता बला पाठा मधुकं भद्ररोहिणी
कषाय एष शमयेज्ज्वरमाशु त्रिदोषजम्
जाड्यं सशोफमाध्मानं गुरुत्वं चापकर्षति

मन्यास्तम्भमुरोघातमुरःपार्श्वशिरोरुजः
उपनाहैः सलवणैरभ्युष्णैरुपनाहयेत्

चिरकालोपवासस्य नस्योष्णकवलग्रहैः
हृदयं क्षण्यते जन्तोः पार्श्वकण्ठौष्ठतालु च

क्षतोरस्को घनं श्लेष्म सरक्तं ष्ठीवते ततः
ष्ट्यूते चायम्यते मूर्च्छंस्तेन जन्तुर्विगच्छति

दह्यते जठरं चास्य किञ्चिच्च परिकूजति
निद्रायते च पीत्वाऽऽशु जीर्णे जागर्ति चोदके

लङ्घनोष्णोपचाराद्वा व्याधौ पित्तोत्तरे नृणाम्
तीक्ष्णौषधप्रयोगाच्च पित्तमस्य प्रकुप्यति

पित्तोत्तरं सन्निपातमेभिर्ज्ञात्वा तु कारणैः
मुस्तादिक्वथितं तोयं शीतं समधुशर्करम्

पाययेदातुरं काले तेन शर्म लभेत सः
विस्रस्यतेऽल्पमपि चेत्तेनैवाशु सुखी भवेत्

त्रिफला पिप्पली श्यामा केसरं शर्करा त्रिवृत्
सक्षौद्रो मोदको ह्येष पित्तोत्तरमपोहति

यवकोलकुलत्थानां पञ्चमूलद्वयस्य च
त्रिफलायाश्च निष्क्वाथे सर्पिर्धीरो विपाचयेत्
संहृत्य कल्कानेतांश्च सुपिष्टान् भागकल्पितान्
मुस्ता पाठा वचा शुण्ठी रोहिणी चव्यचित्रकौ
शृङ्गी दुरालभा शिग्रुः कैरातो रजनीद्वयम्
तेजोवती सोमवल्कः सप्तपर्णः सकेवुकः

वयस्था पिप्पलीमूलं पिप्पली गजपिप्पली
छिन्नरुहा चातिविषा पत्रं निम्बपटोलयोः

कण्डोपपुष्पी गोजिह्वा नक्तमालफलानि च
तुम्बुरुं पौष्करं मूलं मूलं च मदनार्कयोः

क्षाराः सपञ्चलवणा हिङ्गुमात्रासमन्वितम्
सिद्धमेतैर्यथान्यायं सर्पिः कटुकसंज्ञितम्

पाययेन्मात्रया काले सन्निपातज्वरार्दितम्
लीनदोषावशेषं च विषमज्वरपीडितम्

हृद्रोगं ग्रहणीदोषं वातगुल्मं प्लिहोदरम्
श्वासं कासं च शमयेद्बलमग्नेश्च दीपयेत्

सन्निपातेषु भूयिष्ठं निवृत्तोपद्रवेष्वपि
श्लेष्मा च पार्श्वशूलं च निवर्तेत समश्नतः

तस्याग्निं चिरकारित्वाद्भिषक् संदीपयेत् पुनः
न चातिविश्वसेद्वैद्यो जितो व्याधिर्मयेति ह

कृशे विरुद्धसेवित्वाच्चिराद्दोषः प्रकुप्यति
व्यावृत्तश्च पुनर्हन्ति सन्निपातो यथा विषम्

सन्निपातात् समुत्तीर्णो यदि जीवति मानवः
क्षीणौजोबलमांसात्मा शीर्णश्मश्रशिरोरुहः

स्वरस्मृतिपरिभ्रष्टः क्षीणशुक्रो हतेन्द्रियः
अव्यक्तवाग्विवर्णश्च मन्दाग्निश्च भवत्यसौ

सन्निपातेन मुक्तस्तु चिरादाप्यायते नरः
दृष्ट्वा संभोजनीयश्च पुनर्जन्म हि तस्य तत्

तदवस्थो व्यभिचरेद्यदि रोगानवाप्नुते
ज्वरशोषारुचिप्लीहयक्ष्मपाण्डून्न जीवति

सर्वलक्षणसंपन्नः सर्वोपद्रवसंयुतः
त्रिरात्रोपेक्षितश्चापि सन्निपातो न सिद्ध्यति

सन्निपाते निवृत्ते तु यो व्याधिरवलम्बते
सोपद्रवाँस्ताँश्चिकित्सेद्यथास्वैः स्वैश्चिकित्सितैः

एकाहारब्रह्मचर्यलघुपानान्नसेवनम्
अकर्मण्यमनायासः सुखशय्यासनस्थितिः

दिवाजागरणं सद्भिः सुहृद्भिश्च सहासनम्
अभ्यङ्गाच्छादने चित्रं कदाचित् स्नेहमेव तु

जाङ्गलाँश्च रसानुष्णान् कुलत्थरससाधितान्
वास्तुकं तण्डुलीयं च संस्कृतं बालमूलकम्

सेवेत विधिवच्चैव द्वौ मासौ जीवितार्थिकः
त्रीन्मासाँश्चतुरो वाऽपि जिह्मत्वादस्य यक्ष्मणः
सशृतेन समश्नीयात् पयसाऽऽज्येन पैत्तिकः
शर्कराक्षौद्रयुक्तेन गवां क्षीरेण वा पुनः

कर्पूरचूर्णं तृष्णायां वदने धारयेत् सदा
तैलानि गन्धपुष्पाणि नित्यं मुख्यानि धारयेत्

औदकानूपमांसानि माषपिष्टतिलोत्कृतम्
मन्दजातानि मद्यानि गुरूण्यभिनवानि वा

पायसं कृसरं चुक्रं शष्कुल्यो यवकं दधि
वर्जयेत्तानि सर्वाणि श्रद्धाभोजनमेव च

अश्वव्यायामसंक्लेशं शीताम्बु मदिरासवम्
अवश्यायं पुरोवातमभ्युष्णं च विवर्जयेत्

यानि तस्य प्रशस्यन्ते श्रद्धाभोज्यानि जीवक
पथ्यानि चान्नपानानि यथास्वं तानि मे शृणु

गुडसर्पिषि पिप्पल्यः संस्कृता दधिसाधिताः
तथा मुख्यं गुडकृतं भक्ष्या मुद्गमयाश्च ये

यवगोधूमसंस्कारा दाधिकं शुष्कमूलकम्
मुद्गामलकयूषश्च तिक्तसूपश्च सर्पिषा

एवं श्रद्धाविनयनं भिषक्कुर्यादरोचके
अप्रमादेन धर्मार्थी चिकित्सेन्मतिमान् भिषक्

सूतिकोपक्रमाध्याये यच्च वक्ष्ये खिले मुने
तदिहापि प्रयोक्तव्यं सन्निपातचिकित्सितम्
इति ह स्माह भगवान् कश्यपः
इति कल्पस्थाने विशेषकल्पः

संहिताकल्पाध्यायः
अथातः संहिताकल्पं व्याख्यास्यामः १
इति ह स्माह भगवान् कश्यपः २
संहिताध्ययने युक्तः शुचिः साधुर्जितेन्द्रियः
वैद्यो वैद्यकुले जातो ग्रन्थे चार्थे च निष्ठितः ३
स पृष्टोऽन्येन वैद्येन प्रब्रूयात् संहिताविधिम्
कति स्थानमिदं तन्त्रं कस्मात्तन्त्रमिति स्मृतम् ४
स्थानानां कानि नामानि कर्माध्यायानि यानि च
स्थाननामानुपूर्वीं च श्रोतुमिच्छामि तत्त्वतः ५
अष्टौ स्थानानि वाच्यानि ततोऽतस्तन्त्रमुच्यते
अध्यायानां शतं विंशं योऽधीते स तु पारगः ६
सूत्रस्थाननिदानानि विमानान्यात्मनिश्चयः
इन्द्रियाणि चिकित्सा च सिद्धिः कल्पाश्च संहिता ७
सूत्रस्थानं चिकित्सा च त्रिंशदध्यायके उभे
निदानानि विमानाश्च शारीराण्यष्टकानि तु ८
सिद्धयो द्वादशाध्यायाः कल्पाश्चैवेन्द्रियाणि च
खिलान्यशीतिरध्यायास्तन्त्रं सखिलमुच्यते ९
धारणं ह्यस्य तन्त्रस्य वेदानां धारणं यथा
पुण्यं मङ्गल्यमायुष्यं दुःस्वप्नकलिनाशनम् १०
धर्मार्थकाममोक्षाणां धर्म्यमायतनं महत्
सुखप्रदं नृणां शश्वद्धनमानयशस्करम् ११
नाधार्मिको न चापुत्रो नाविद्वान्न च गर्हितः
नापूजितो नाविदितो लोके भवति पारगः १२
सततं चाप्यधीयानः सम्यगध्यापयन् भिषक्
इह लोके यशः प्राप्य शक्रलोके महीयते १३
दक्षयज्ञे वधत्रासाद्देवर्षीणां पलायताम्
रोगाः सर्वे समुत्पन्नाः संतापाद्देहचेतसोः १४
ज्वरो गुरुत्वाद् गुल्मस्तु धावतां प्लवनात् प्लिहा
भ्रमो विषादाद्विड्भेदो धावतां वेगधारणात् १५
तृष्णा च रक्तपित्तं च श्रमादुष्णे च धावताम्
हिक्काश्वासौ कफाधिक्याद्धावतां पिबतां जलम् १६
प्रागुत्पत्तिस्तथाऽन्येषां रोगाणां परिकीर्तिता
कृतत्रेतान्तरत्वेन प्रादुर्भूता यथा नृणाम् १७
धर्मार्थकाममोक्षेषु विद्याबलयशोहराः
ततो हितार्थं लोकानां कश्यपेन महर्षिणा १८
पितामहनियोगाच्च दृष्ट्वा च ज्ञानचक्षुषा
तपसा निर्मितं तन्त्रमृषयः प्रतिपेदिरे १९
जीवको निर्गततमा ऋचीकतनयः शुचिः
जगृहेऽग्रे महातन्त्रं संचिक्षेप पुनः स तत् २०
नाभ्यनन्दन्त तत् सर्वे मुनयो बालभाषितम्
ततः समक्षं सर्वेषामृषीणां जीवकः शुचिः २१
गङ्गाह्रदे कनखले निमग्नः पञ्चवार्षिकः
वलीपलितविग्रस्त उन्ममज्ज मुहूर्तकात् २२
ततस्तदद्भुतं दृष्ट्वा मुनयो विस्मयं गताः
वृद्धजीवक इत्येव नाम चक्रुः शिशोरपि २३
प्रत्यगृह्णन्त तन्त्रं च भिषक्च्छ्रेष्ठं च चक्रिरे
ततः कलियुगे नष्टं तन्त्रमेतद्यदृच्छया २४
अनायासेन यक्षेण धारितं लोकभूतये
वृद्धजीवकवंश्येन ततो वात्स्येन धीमता २५
अनायासं प्रसाद्याथ लब्धं तन्त्रमिदं महत्
ऋग्यजुःसामवेदाँस्त्रीनधीत्याङ्गानि सर्वशः २६
शिवकश्यपयक्षांश्च प्रसाद्य तपसा धिया
संस्कृतं तत् पुनस्तन्त्रं वृद्धजीवकनिर्मितम् २७
धर्मकीर्तिसुखार्थाय प्रजानामभिवृद्धये
स्थानेष्वष्टसु शाखायां यद्यन्नोक्तं प्रयोजनम् २८
तत्तद्भूयः प्रवक्ष्यामि खिलेषु निखिलेन ते
इति ह स्माह भगवान् कश्यपः
इति वृद्धजीवकीये तन्त्रे कौमारभृत्ये वात्स्यप्रतिसंस्कृते
कल्पेषु संहिताकल्पो नाम द्वादशः
समाप्तं च कल्पस्थानम्
समाप्ता चेयं सहिता
अतः परं खिलस्थानं भवति