महोत्सवो हषीं यस्मात्स तस्मिन् भुवनमहोत्सवे युद्ध इत्यर्थः । परिपन्यिनां शत्रूणां प्रमाथे मन्थने विनाशायेत्यत्र्थः । प्रगुणं सज्जं धनुश्चापो यस्य सः सज्जधनुर्भव संपद्यस्व । भुवि पृथिव्यामेषा तव ते स्थितिस्तावकीनाऽवस्थानं धर्मस्य सुकृतस्य विरोधिनः प्रतिकूलास्तेषां पापात्मनां वधाय ननु निश्चयेन तेषां विनाशायैवेति कि न, कर्थ न स्मरसि स्मरणगोचर करो षि । ས་ &TST इसलिये पृथ्वी को हर्पित करने वाले इस युद्ध में शत्रुओं का नाश करने के लिये धनुष तान कर तयार हो जाओ । इस पृथ्वी पर तुम्हारी स्थिति निश्चय पूर्वक पापियों के नाश के लिये ही है यह वात तुम्हें क्यों स्मरण नहीं है। गिरमिति स निशम्य विश्वभर्तुर्गिरितनयादयितस्य मुक्तनिद्रः । A. * es - Q'n ra वचनमिदमलङ्घयमिन्दुमौलेरिति रणकर्मणि निश्चयं चकार ॥६६॥ अन्वयः सः विश्वभर्तुः गिरितनयादयितस्य इति गिरं निशम्य मुक्तनिद्रः (सन्) इन्दुमौलेः इदं वचनम् अलङ्घयम् इति रणकर्मणि निश्चयं चकार । व्याख्या स विक्रमाङ्कदेवो विश्वस्य सकलसंसारस्य भर्ता पालकस्तस्य गिरेहिँमाद्रेस्तनयायाः कन्यायाः पार्वत्या दयितः पतिस्तस्य शिवस्येति पूर्वोक्तां गिरं वाणी निशम्य श्रुत्वा मुक्ता त्यक्ता निद्रा स्वापो येन स जागृतस्सन्निन्दुश्चन्द्रो मौलौ मस्तके यस्य स तस्य चन्द्रशेखरस्य शङ्करस्येदं स्वप्नोक्तं वचनं वचोऽलडघचमनतिक्रमणीयमिति हेतो रणकर्मणि युद्धकायें योदुमित्यर्थः । निश्चयं
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/400
दिखावट