पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/401

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सः उभयतः प्रसरत् प्रहारसर्ज तत् बलयुगलम् अवेक्ष्य समुचितसमरोपभोगलोभात् उत्पुलर्क भुजद्वयं प्रतिकलम् वीक्षते स्म । अन्वयः स विक्रमाङ्कदेव उभयतोऽग्रतः पृष्ठतश्च प्रसरद्विस्तारमाप्नुवत्प्रहारे प्रहारकरणे सज्ज तत्परं तदद्भुतं बलयुगल सेनाद्वयमवेक्ष्य विलोक्य समुचितो योग्यस्समरो युद्ध तस्योपभोगास्याऽऽस्वादस्य लोभादिच्छात उद्गतः समुत्पन्नः पुलको रोमाञ्चो यस्मिंस्तद्भुजद्वयं बाहुयुगलं प्रतिकलं प्रतिक्षणं वीक्षते स्म दृष्टवान् । भाषा वह विक्रमाङ्कदेव, आगे और पीछे दोनों ओर से, विस्तृत तथा प्रहार करने में तत्पर, उन आश्चर्य जनक दोनों सेनाओं को देखकर, अपनी वीरता के अनुरूप युद्ध का आस्वादन करने के लोभ से, रोमांच्च से युक्त अपनी दोनों भुजाओं को क्षण क्षण में अर्थात् बार २ देखता था। मदकरटिनमुत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः । मथनगिरिमिवाधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार ॥६८॥ अन्वयः उत्कटप्रतापः प्रकटितवीरमृदङ्गधीरनादः (सः) मदकरटिनं मथनगिरिम्। इव अधिरुह्य वेगात् प्रतिबलवारिधिलोडनं चकार । व्याख्या उत्कट उत्कृष्टः प्रतापः प्रभावो यस्य स उत्कृष्टप्रभावः प्रकटितः प्रकाशितो वीराणा शक्तिशालिना मृदङ्गानामिव धीरो गम्भीरो नादो ध्वनिर्यस्य स