आक्षं पलं षडसवो घटिका पलानां
षष्ट्या दिनं च घटिकाः खलु षष्टिरह्नाम् ॥
मासः खवह्नि[ ३०]भिरथाब्दमिना [१२] हतः [सः
क्षेत्र च] कालसदृशावयव विनासुम्1 ॥ ८ ॥
[ ब्रह्मणः आयुपरिमाणम् ]
दन्ताब्धयोऽयुतहता [४३२००००] युगमर्क[वर्षा दस्राद्रयो ७२]|युगगणा मनुरेक उत्तः ।
कल्पश्तुचर्दशमनुर्द्युनिशं च तौ द्वौ कस्य स्ववर्षशतमत्र तदायुरुक्त्तम् ॥ ९ ॥
[ शकारम्भे ब्रह्मणः आयु: ]
कजन्मनोऽष्टौ सदलाः समा ययुस्तथाऽर्धमासो मनवो दिनस्य षट् ॥ युगात्रिवृन्दं [२७] सदृशाङघ्रयस्त्रयः कलेर्नवागैकगुणाः [ ३१७९] शकावधेः ॥ १० ॥
[ग्रहाणां युगभगणाः]
खाभ्रखाभ्रदशनाब्धयो [४३२००००] युगे भार्गवेन्दुसुतसूर्यपर्ययाः । शीघ्रतुङ्गभगणाः प्रकीतिताः सूर्यसूनुसुरपूजितासृजाम् ॥ ११ ॥
Text of Ms. A :
[8] आक्षं पलं षडसवो घटिका पलानां षष्ट्या दिनं च घटिका खलु षष्टिमहं ।
- मासः खवह्निभिरथाब्दमिनाहत • • • • • • • कालसदृशावयवं विनासु ॥ ८ ॥
[9] दंताव्धयो युतहता युगमर्क • • • • • • * * * युगगुणा मनुरेक उक्तः ।
- कल्पश्चतुर्दशमनुद्युनिशं च तौ द्वौ कस्प स्ववर्षशतमत्र तदायुरुक्तं ॥ ९ ॥
[10] कजन्मनोष्टौ सदलास्समाययुस्तथा चमासो मनवो दिनस्प षट् ।
- युगात्रिवृदं सदृशांघ्रयस्त्रयः कलेर्नवार्गकगुणाः शकावधेः ॥ १० ॥
[11 ] खाभ्रखाभ्रदशनाब्धयो युगे भार्गवेन्दुसुतसूर्यपर्ययाः ।
- शीघ्रतुंगभगणाः प्रकीतितास्सूर्यसूनुसुरपूजितासृजां ॥ ११ ॥
1. विनासु ( = असुपर्यन्तं विना)= पलाद्यं or विनाडिकाद्यं .. see BrSps, i. 6(c-d)
क्षेत्रविभागस्तृल्यः कालेन विनाडिकाद्येन ॥