पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/27

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे




[ ज्योतिषशास्त्र-प्रशंसा ]

श्रुत्युत्तमाङ्गमिदमेव यतो नियोगः कालेऽयनर्तुतिथिपर्वदिनादिपूर्वे ।
वेदीककुब्भवनकुण्डतदन्तरादि ज्ञेयं स्फुटं श्रुतिविदां बहुमान्यमस्मात् ॥ ४ ॥



[ राद्धान्त-परिभाषा ]

समयमितिरशेषा साधनं खेचराणां गणितमखिलमुक्तं यत्र कुट्टाद्युपेतम् ॥
ग्रहभगणमहीनां संस्थितिर्यत्र सम्यक् स खलु मुनिवरिष्ठैः स्पष्टराद्धान्त उत्तः ॥ ५ ॥

[ ग्रहनक्षत्राणां सृष्टिः ]

आदौ ससर्ज भगणं झषमेषसन्धिसंस्थग्रहै: सह ग्रहस्फुरदंशुजालम् ।
ब्रह्मा प्रतिक्षणगमर्कजसो[म]कक्ष्यावक्त्रध्रुवप्रतिनिबद्धमिनेन्दुवश्यम् ॥ ६ ॥

[ कालपरिच्छेदाः ]

कमलदलनतुल्यः काल उक्त[स्त्रुटि]स्त-
च्छतमिह लवसंज्ञस्तच्छतं स्यान्निमेषः
सदलजलधिई भिस्तैर्गुविहैवाक्षरं तत्
कृतपरिमितकाष्ठा तच्छरार्धेन चासुः ॥ ७ ॥


Text of Ms. A :

[4] श्रुत्पुत्तमांगमिदमेव पतो नियोगः कालेयनर्तुतिथिपर्वदिनादिपूर्वे ।

वेदीककुव्भवनकुंडतदंतरादि ज्ञेयं स्फुटं श्रुतिविदां वहुमन्पमस्मात्। ४ ।।

[5] समयमितिरशेषा सावनं खेचराणां गणितमखिलमुक्त यत्र कुट्टाद्युपेतं ।

ग्रहभगणमहीनां संस्छितिर्यत्र सम्यक् स खलु मुनिवरिष्टैः स्पष्टराद्धांत कुतः ॥ ५ ॥

[6] आदौ ससर्ज भगण झषमेषसंधिसंस्छग्रहैस्सह ग्रहस्फुरदंशुजाल ।

व्रह्मा प्रतिक्षणगमार्कजसोकाष्टावक्त्रध्वप्रतिनिवद्धमिनेंदुवश्यं ॥ ६ ॥

[7] कमलदलन तस्मित्काल उक्त्तस्तस्छतमिह लवसंज्ञस्तश्छतं स्पान्निमेषः ॥ ७ ॥

सदलजलधिमिस्तैर्गुर्विहैवाक्षर तात्कृतपरिमितकाष्टा तश्छराधेन वासु