पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/29

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अधिकारः I
वटेश्वरसिद्धान्ते मध्यगत्यधिकारे

शशिनो रसवह्निसुरेषुनग क्षितिभृविषया[५७७५३३३६]स्तनयस्य भुवः ।

गजपक्षगजाङ्गनवद्विभुजाः [२२९६८२८]

खयमाक्षिकृतर्तुगुणाश्च [३६४२२०] गुरोः ॥ १२ ॥

[1]रविजेभरसानिलषण्मनवः [१४६५६८] शशिसूनुचलस्य रसाग्नियुताः ॥

नखखाद्रिगुणाड्कनगक्षितयो [१७९३७०५६] भृगुपुत्रचलस्य बुधैर्गदिताः ॥ १३ ॥

रसशैलगुणाक्षिभुजाभ्रनगाः [७०२२३७६] [2]शशिखाश्विकरीभपयोनि[ध]यः[४८८२११] ॥

हिमगूच्चयुगार्क्षगणाः कृतपुंद्विभुजाग्निभुजाः [ २३२२३४] शशिपातभवाः ॥ १४ ॥

[सप्तषि-युगभगणाः]

कमलविष्टरवक्त्रसरोरुहस्फुटगिराऽभिहिता मुनिपर्ययाः । य इह तानपि वच्मि युगोद्भवान् द्युचरलब्धवरो भुजगोऽष्टयः [१६९२] ॥ १५ ॥


Text of Ms. A :

[12] शशिनो रसवह्निसुरेषुनगक्षितिभृद्विषयास्तुयषस्प भुवः ।

गजपक्षगजांगनवद्विभुजाः खपमाक्षिकृतर्तुगुणाश्च गुरोः ॥ १२ ॥

[13] रविजस्य भुजंगरसानिलषण्मनवः शशिसूनुचलस्य रसाग्नियुताः ।

नखस्वाग्निगुणांकनखक्षितयो भूगुपुत्रचलस्प बुधैर्गदिता: ॥ १३ ॥

[14] रसशैलगुणाक्षिभुजाभ्रनगा: शिश्विखाश्विकरीभपयोनिय:।

हिमगूश्चयुगर्क्षगणाः कृतपुंद्विभुजाग्रिचुजा: शशिपातयुगं ॥ १४ ॥

[15] कमलविष्टरवक्त्रसरोरुहस्फुटगिराभिहित्ता मुनिपर्ययाः

य इह तानपि वच्मि युगोद्भवान्द्युचरलब्दवरो भुजगोष्टयः

^ रविजस्य भुजंग of the original text has been replaced by रविजेभ to rectify the metrical defect.

^ The reading शिखिखाश्विकरीभपयेनिधयः(488203) adopted by Ram Swarup Sharma and Mukund Mishra is incorrect, because it does not agree with the statements made in section (pariccheda) 5, viss. 19. 28, 39-43, 48-51, 60-64(a-c), 74(c-d)-75(a-b), 95, 97-105(a-b), and 106, below. The reading शशिखाश्चिकरीभपयोनिधय: (488211)agrees with all of them. Kha here means Brahma and therefore 1.