पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/30

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
परिच्छेदः 1]
भगणनिर्देशः



[ ब्रह्मायुषि मन्दोच्चभगणाः ]

मन्दतुङ्गभगणाः कजीविते भूवियद्ग जशराष्टयो [१६५८०१] रवेः ।
लोहितस्य शरषट्छवोरगा [८११६५] धीकृताङ्कदहनेन्दवो [१३९४८] गुरोः ॥ १६ ॥
कृतसप्तनगर्तवः [६७७४] शनेः क्षितिगोदोर्मुनिभूभृदब्धयः [४७७२९१] ।
शशिजस्य सुरारिमन्त्रिणो द्विकृताष्टद्विकपञ्चभूमयः [१५२८४२] ॥ १७ ॥[1]

[ ब्रह्मायुषि पातभगणाः ]

नवकुनगाष्टकुवेदरसेषुश्रुतिहरिणाङ्कभधीमतिनन्दाः [९८८२७१४५६४१८७१९] ।
शरबिलधीरसरामरसाभ्र
द्विपकृतिभेन्दुरसाङ्कशशाङ्काः [१९६१२७६४०६३६८९५] ॥ १८ ॥
जलधिगजर्तुनखा [२०६८४] यमशून्य[द्वि]घनगुणा [३८०२] द्रिकृतेषुभुव[१५४२]श्च ।
बुध-सित-भूज-सुरेज्य-शनीनां कमलभवायुषि पातभसङ्घाः ॥ १९ ॥[2]


Text of Ms. A :

[16] मंदत्तुंगभगणाः कुजीविते भूवियद्गजशराष्टयो रवे:

लोहितस्प शरषट्छवोरगा धीकृताकदहनेन्दवो गुरोः ॥ ॥

[17] कृतसप्तनवतवः शनेः क्षितिगोदोर्मुनिभूभृदब्धयः

शशिजस्प सुरारिमंत्रिणो द्वकृताष्टद्विकपंचभूमयः ॥ ॥

[18] नवकुनगाष्टकुवेटरसेषुश्रुतिहरिणाकभधीमतितंदाः

शविशिलधीरसरामप्रसाभ्रद्विपकृतिभिन्दुरसांकशशांकाः ॥ ॥

[19] जलधिगजर्तुनखा यमशून्पघनगुणा द्विक्वतेषुभुवश्च ।

वुधासेतभूजसुरेज्पशनीनां कमलभवायुषि पातभसंघाः ॥ ॥

MS. B: 18b °श्रुति° °नंदाः


^  1. The revolutions of the apogees of the planets stated in verses 16 and 17 above agree with the positions of the apogees given in section 4, vss. 56(c-d)-59, below.

^  2. The revolutions of the ascending nodes of the planets stated in vSs. 18 and 19 above agree with the positions of the ascending nodes given in section 4, vss. 60-62, below.