सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता संख्याकस्य ‘अस्यवामस्यपलितस्यहोतुः' इति सूक्तस्य तथा ‘यज्जाग्रत दैवम्’ इति शिवससंकल्पदृष्टस्य षड्ऋचस्य वा सकृज्जप उक्तः सोऽत्यन्तनिर्गुण स्वामेिकस्वर्णहरणे गुणवतोऽपहर्तुर्दष्टव्यः । सुवर्णन्यूनपरिमाणविषयोऽनुग्राह कप्रयोजकविषयो वा । आवृत्तौ तु ‘महापातकसंयुक्तोऽनुगच्छेत्’ इत्यादिनोत्तं ४७३ क्रमप्रासं गुरुतल्पगप्रायश्चित्तमाह सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः । गौर्दया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी ।। ३०४ ।। गुरुतल्पगस्तु सहस्रशीर्षेति षोडशर्चसूक्त नारायणदृष्टं पुरुषदैवत्यमानुष्टुभं त्रिष्टुबन्तं जपंस्तस्मात्पापान्मुच्यते । सहस्रशीर्षाजापीति ताच्छील्यप्रत्ययादावृत्ति गैम्यते । अतएव यमेनोक्तम्--'पौरुषं सूक्तमावलै मुच्यते सर्वकिल्बिषात्’ इति । आवृत्तौ च संख्यापेक्षायामधस्तनश्क्षेोकगता चत्वारिंशत्संख्यानुमीयते । अत्रापि प्राक्तनश्लोकगतं त्रिरात्रोपोषित इति संबध्यते । अतएव बृहद्विष्णु

  • त्रिरात्रोपोषितः पुरुषसूक्तजपहोमाभ्यां गुरुतल्पगः शुद्धयेत्’ इति । एभिश्च सुराप

सुवर्णस्तेनगुरुतल्पगैस्त्रिभिः पृथक्पृथगस्य त्रिरात्रव्रतस्यान्ते बहुक्षीरा गौर्देया । इदमकामविषयम् । यतु मनुना ( ११।२५१ )-'हविष्पान्तीयमभ्यस्य नतमंह इतीति च । जलवा तु पौरुषं सूक्तं मुच्यते गुरुतल्पगः ॥' इति । ‘हविप्पान्तमजरं --स्वर्विदं’, ‘नतमंहोनदुरितं’, ‘इति वा इति मे मनः’, ‘सहस्रशीर्षे'त्येषामन्यतमस्य मासं प्रत्यहं षोडशषोडशकृत्वो जप उक्तः सोऽप्यकामविषय एव । कामतस्तु मत्रैः शाकलहोमीयैः’ इति मनूत्तं द्रष्टव्यम् । यत्तु षटूत्रिंशन्मतेऽभिहितम् ‘कार्यो । महाव्याहृतिभिहमस्तिलैः द्विजन्मना उपपातकशुद्धयर्थ सहस्त्रपरिसं ख्यया ॥ महापातकसंयुक्तो लक्षहोमेन शुद्धयति ॥’ इति , तदावृत्तिविषयम् । यत्त यमेनोक्तम्--'जपेद्वाप्यस्यवामीयं पावमानीरथापि वा । कुन्तापं वालखि ल्यांश्च ॥ होतृन्रुद्रान्सकृजस्वा मुच्यते सर्वपातकैः ॥ निवित्प्रैषान्वृषाकपिम् इति तच्यभिचारिणीगमनविषयम् ॥ यानि पुनः गुरुतल्पातिदेशविषयाणि तत्स मानि वातिपातकोपपातकपदाभिधेयानि तेषु तुरीयांशन्यूनमधेनं च क्रमेण वेदितव्यम् । संनिपाते वा अघम पातकातिपातकोपपातकमहापातकानामेकतमे र्षणमेव त्रिर्जपेदिति हारीतोक्तं वा द्रष्टव्यम् । महापातकसंसर्गिणश्च स तस्येव ब्रतं कुर्यादिति वचनाद्येन सह संसर्गस्तदीयमेव प्रायश्चित्तम् । नच वाच्यं अत्रा ध्यापनादिसंसर्गस्यानेककर्तृकसंपाद्यत्वाद्रहस्यत्वानुपपत्तिरिति । यतः सत्यप्यने रहस्यत्वम् । ककर्तृत्वे परदारगमनवत् कर्तृव्यतिरिक्ततृतीयाद्यपरिज्ञानमात्रेणैव अतो भवत्येव रहस्यप्रायश्चित्तम् । एवमतिपातक्यादिसंसर्गिणोऽपि तदीयमेव प्रायश्चित्तं वेदितव्यम् ।। ३०४ ।। ॥ इति महापातकरहस्यप्रायश्चित्तप्रकरणम् ॥ १ षोडशत्राचां चत्वारिंशत्संख्याकजप उक्तः ख