पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ याज्ञवल्क्यस्मृतः [प्रायश्चित्ताध्याय प्रायश्चित्तान्तरमाहः -- लोमभ्यः स्वाहेत्यथवा दिवसं मारुताशनः । जले स्थित्वाभिजुहुयाचत्वारिंशदृताहुतीः ।। ३०२ ॥ अथवाहोरात्रमुपोषितो रात्रावुदके वासं कृत्वा प्रातर्जलादुत्तीर्य लोमभ्यः स्वाहेत्याद्वैरष्टभिर्मत्रैरेकेन पञ्चपञ्चाहुतय इत्येवं चत्वारिंशदृताहुतीर्जुहुयात् । इदं च पूर्वोक्तसमानविषयम् । उदवासस्य केशबाहुल्यात् ॥ ३०२ ॥ क्रमप्रासं सुरापानप्रायश्चित्तमाह त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्धतं शुचिः । सुरापश्चत्वारिंशदृताहुतीरित्यनुवर्तते । त्रिरात्रमुपोषितः कूष्माण्डीभिः ‘यद्दे . वादेवहेळनमि'त्याद्याभिः कूष्माण्डदृष्टाभिरनुष्टुभिर्मत्रलिङ्गदेवताभित्रग्भिश्चत्वा रिंशङ्कताहुतीर्डत्वा शुचिर्भवेत्। तथा बौधायनेनाप्युक्तम्—‘अथ कूष्माण्डी भिर्जुहुयाद्योऽपूत एवात्मानं मन्येत यावदर्वाचीनमेनो भ्रूणहत्यायास्तस्मान्मु च्यते । अयोनौ वा रतः सिक्त्वान्यत्र स्वमात्’ इति (११॥२४९)–‘कौत्सं जस्वाप इत्येतद्वासिष्ठं च प्रतीत्यूचम् । माहित्रे शुद्धवत्यश्च सुरापोऽपि विशुद्धयति ॥' इति । मासं प्रत्यहं षोडशकृत्वोऽपनःशोशुचद्धं प्रतिस्तोमेभिरुषसं वासिष्टम् । महेित्रीणामवोस्त्वेतोन्विन्द्वस्तवामेत्येतेषामन्यत मस्य जप उक्तः स त्रिरात्रोपवासकूष्माण्डहोमाशक्तस्य वेदितव्यः । एताचाका मतः पैष्टयाः सकृत्पाने, गौडीमाध्व्योस्तु पानावृत्तौ च वेदितव्यम् । यञ्च मनुना (११॥२५६)–“मत्रैः शाकलहोमीयैरब्दं हुत्वा घृतं द्विजः । स गुर्व प्यपहन्त्येनो जष्वा नम इत्युचवम् ॥' इति । संवत्सरं प्रत्यहं “देवकृतस्यैनस इत्यादिभिरष्टभिर्मत्रैहॉमो नम इदुग्रं नम आवेिवासे' इत्येतस्या ऋचो वा जप उक्तः स कामकारविषयः । यत्तु ‘महापातकसंयुक्तोऽनुगच्छेद्भाः समाहित । अभ्यस्याब्दं पावमानीभेक्षाहारो विशुद्धयति ॥' इति तदभ्यासविषयम्, समुचित महापातकविषयं चा सुवर्णस्तेयप्रायश्चित्तमाह ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः ।। ३०३ ।। ब्राह्मणस्वर्णहारी पुनस्त्रिरात्रोपोषितः जलमध्यस्थो ‘नमस्ते रुद्र मन्यव' इति शतरुद्रियजपयुक्तः शुद्धयतीति ॥ शातातपेनात्र विशेप उक्तः–“मद्य पीत्वा गुरुदारांश्च गत्वा स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा । भस्माच्छन्नो भस्मशय्याश यानो रुद्राध्यायी मुच्यते सर्वपापै ॥’ इति । जपश्चैकादशकृत्वः कार्यः । ‘एकाद् शगुणान्वापि रुद्रानावत्र्य धर्मवित् । महापापैरपि स्पृष्टो मुच्यते नात्र संशयः ॥’ इत्यत्रिरूमरणात् ॥ यत्तु मनुना ( ११॥२५०)–‘सकृजस्वास्यवामीयं शिवः संकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मल ॥' इति द्विपञ्चाशदृकू १ मासं जश्वाप इष्येतद्वासिष्ठं च तृचं प्रति । माहित्र्यं शुद्ध ख