पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता ४७१ एवं सकलरहस्यसाधारणधर्ममभिधाय प्रकाशप्रायश्चित्तवब्रह्महत्यादिक्रमेणैव हस्यप्रायश्चित्तान्याह त्रिरात्रोपोषितो जवा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुद्धयेत दत्त्वा गां च पयस्विनीम् ।। ३०१ ।। त्रिरात्रमुपोषितोऽन्तर्जलेऽघमर्षणेन महर्षिणा दृष्टं सूक्तं अघमर्षणं ‘ऋत्तं च सत्यं च' इति तृचवमानुष्टुभं भाववृत्तदेवताकं जप्त्वा त्रिरात्रान्ते पयस्विनीं गाँ दत्त्वा ब्रह्महा विशुद्धयति । जपश्चान्तर्जले नेिमझेन त्रिरावर्तनीयः । यथाह सुमन्तुः–“देवद्विजगुरुहन्ताप्सु निमझेोऽघमर्षणे सूक्तं त्रिरावर्तयेत् । मातरं भगिनीं गत्वा मातृष्वसारं सुलुषां सखीं वान्यद्वैाऽगम्यागमनं कृत्वाऽघमर्षण मेवान्तर्जले त्रिरावत्यै तदेतस्मात्पूतो भवति' इति । एतञ्चाकामकारविषयम् । यत्तु मनुनोक्तम् (११॥२४८)-‘सव्याहृतिप्रणवकाः प्राणायामास्तु षोडश । अपि भ्रणहणं मासात्पुनन्त्यहरहःकृता ॥” इति, तदप्यस्मिन्नेव विषये गोदाना शक्तस्य वेदितव्यम् । यत्तु गौतमेन षट्टत्रिंशदात्रतमुक्त्वोत्तं ‘तद्रत एव ब्रह्महत्यासुरापानसुवर्णस्तेयगुरुतल्पेषु प्राणायामैः स्रातोऽघमर्षणं जपेत्’ इति तदकैमतः सकृद्वधविषयम् । यत्तु बौधायनेनोक्तम् ।–‘ग्रामात्प्राचीं वोदीचीं दिशमुपनिष्क्रम्य स्रातः शुचिः शुचिवासा उद्दुकान्ते स्थण्डिलमुपलिप्य सकृ छुिकुन्नवासँाः गोशकृत्पूतेन पाणिनादित्याभिमुखोऽघमर्षणं स्वाध्यायमधीयीत । --प्रातः शतं मध्याहे शतमपराहे शतै परिमितं चोदितेषु नक्षत्रेषु प्रसृतियावर्क प्राश्रीयातू । ज्ञानकृतेभ्योऽज्ञानकृतेभ्यश्चोपपातकेभ्यः सप्सरात्रात्प्रमुच्यते द्वादश रात्रान्महापातकेभ्यो ब्रह्महत्यासुरापानसुवर्णस्तेयानि वर्जयित्वा एकविंशतिरात्रेण तान्यपि तरति' इति तत्कामकारविषयम्, अकामतः श्रोत्रियाचार्यसवनस्थवध विषयं वा । यत्तु मनुनोक्तम् (११॥२५८)-‘अरण्ये वा त्रिरभ्यस्य प्रयतो वेदसंहिताम् । मुच्यते पातकैः सर्वेः पराकैः शोधितस्त्रिभिः ॥” इति, तत्कामत श्रोत्रियाद्विधविषयमितरत्र कामतोऽभ्यासविषयं वा । यतु बृद्विष्णुनोक्तम् ब्रह्महत्यां कृत्वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य प्रभूतेन्धनेनाझेि प्रज्वाल्याघमर्षणेनाष्टसहस्रमाज्याहुतीर्जुहुयात्तत एतस्मात्पूतो भवति’ इति, तन्नि र्गुणवधविषयमनुग्राहकविषयं वा । यत्तु यमेनोक्तम्--'व्यहं तूपवसेद्युक्त खिरहोऽभ्युपयन्नपः । मुच्यते पातकैः सवैस्त्रिवर्जपित्वाघमर्षणम् ॥' इति तदुण वतो हन्तुर्निर्गुणवधविषयं प्रयोजकानुमन्तृविषयं वा । यत्तु हारीतेनोक्तम्

  • महापातकातिपातकानुपपातकोपपातकानामेकतममेव संनिपाते चवाघमर्षणमेव

त्रिर्जपेत्’ इति तन्निमित्तकर्तृविषयम् । एवमन्यान्यपि स्मृतिवाक्यान्यन्विष्यै वमेव विषयेषु विभजनीयानि ग्रन्थगौरवभयान्न लिख्यन्ते । एतदेव ऋतजातं यागस्थयोषित्क्षत्रविट्स्वात्रेयामाहिताग्निपल्यां गर्भिण्यामविज्ञाते च गर्भ व्यापा दिते तुरीयांशन्यूनमनुष्ठेयम् ॥ ३०१ ॥ १ च . ङ. २ न्यद्वा गमनं ख. ३ कामतो वध ख. ४ वासाः सकृत् ख गां दत्त्वा पयः