पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ याज्ञवल्क्यस्मृतिः । क्रमप्राप्त गोवधादिषट्पञ्चाशदुपपातकप्रायश्चित्तमाह प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानामनादिष्टस्य चैव हि ।। ३०५ ।। [ प्रायश्चित्ताध्यायः गोवधादिषट्पञ्चाशदुपपातकजातानामनादिष्टरहस्यत्रतानां च जातिभ्रंशक रादीनां सर्वेषामपनुत्तये प्राणायामानां शतं कार्यम् । तथा सर्वेषाँ महापातका दीनां प्रकीर्णकान्तानामप्यपनुत्तये प्राणायामाः कार्याः । तत्र च महापातकेषु चतुःशतम्, अतिपातकेषु त्रिशतम्, अनुपातकेषु द्विशतमिति संख्याविवृद्धि कल्पनीया । प्रकाशप्रायश्चित्तेषु महापातकप्रायश्चित्ततुरीयांशस्योपपातकेषु विधा नदर्शनात् प्रकीर्णकेषु च हासः कल्प्यः । अतएवोक्तं यमेन–‘दृशप्रणवसंयुतैः प्राणायामैश्चतुःशतैः । मुच्यते ब्रह्महत्यायाः किं पुनः शेषपातकै ॥’ इति । बौधायनेनाप्यत्र विशेष उक्त –“अपिवाकूचक्षुःश्रोत्रत्वकूम्राणमनोव्यतिक्रमेषु त्रिभिः प्राणायामैः शुद्धयति । शूद्रस्रीगमनान्नभोजनेपु पृथक्पृथकू सप्ताहं सप्त प्राणायामान्धारयेत् । अभक्ष्याभोज्यामेध्यप्राशनेपु तथा वाऽपण्यविक्रयेषु मधु मांसघृततैललाक्षालवणरसान्नवर्जितेषु यच्चान्यदप्येवं युक्तं स्याद्वादशाहं द्वादश द्वादश प्राणायामान्धारयेत् । अथ पातकोपपातकवज्यं यचाप्यन्यदप्येवं युक्तः स्यादर्धमासं द्वादश द्वादश प्राणायामान्धारयेत् उपपातकपतनीयवर्ज यञ्चाप्य न्यदेवं युक्तं स्यान्मासं द्वादशार्धमासान् द्वादशद्वादश प्राणायामान्धारयेत् । अन्यपातकवज्र्य यच्चान्यदप्येवं युक्तं द्वादश अंधेमासान् द्वादश प्राणायामान् धारयेत् । अथ पातकेषु संवत्सरं द्वादशद्वादश प्राणायामान् धारयेदिति । तत्र वाक्चक्षुरित्यादिप्राणायामत्रयं प्रकीर्णकाभिप्रायम् । शूद्रस्रीगमनान्नभोजनेत्या दिनोक्ता एकोनपञ्चाशत्प्राणायामा उपपातकविशेषाभिप्रायाः । तथा अभक्ष्या भोज्येत्यादिनोक्ताश्चतुश्चत्वारिंशदधिकशतप्राणायामा अप्युपपातकविशेषाभिप्राया एव । अथ पातकोपपातकवज्र्यमित्यादिनोक्ताः साशीतिशतप्राणायामा जाति भ्रशकराद्यभिप्रायाः । अथ पातंकपत्तनीयवज्र्यमित्यादिनोक्ताः पष्टयधिकशतत्रय प्राणायामाः गोवधाद्युपपातकाभिप्राया । अथ पातकवज्र्यमित्यादिनोक्ताः षष्टय ईधिकद्विशतसहितद्विसहस्रसंख्याकाः प्राणायामाः अतिपातकानुपपातकाभिप्रायाः । अथ पातकेष्वित्यादिनोक्ता विंशत्यधिकशतत्रययुक्ताश्चतुःसहस्रप्राणायामा महा पातकविषयाः । इदं चाभक्ष्यभोज्येत्यादिनोत्तं प्रायश्चित्तपञ्चकमत्यन्ताभ्यास विषयं, समुचितविषयं वा यत्तु मनुना । (११॥२५२)-‘एनसां स्थूल सूक्ष्माणां चिकीर्षन्नपनोदनम् । अवेत्यूचं जपेदब्दं यत्किचेदमितीति वा ॥ इत्यब्दं यावत्प्रत्यहमर्थान्तराविरुद्धेषु कालेषु ‘अवतेहेळोवरुण’ इत्यस्या ऋचो ‘यत्किचेदम्’ इत्यस्याः, ‘इति वा इतिमेमनः’ इत्यस्याश्च जप उक्तः सोऽप्यभ्यास विषयः ॥ ३०५ अर्धमासद्वादशद्वादश ख. २ पातवज्र्यमित्यादि ख