४५२ याज्ञवल्क्यस्मृतिः। [ प्रायश्चित्ताध्यायः जात्याश्रयादिदोषेण निन्द्यान्नादेश्च शब्दतः । योगीन्द्रोक्तत्रतत्रातः सांप्रतं तु प्रतन्यते ॥ तत्र जातिदुष्टपलाण्ङ्कादिभक्षणे कामतः सकृत्कृते ‘पलाण्डं विड्राहं च इत्यादिना चान्द्रायणमुक्तम् । कामतोऽभ्यासे तु निषिद्धभक्षणं जैह्मयं' इत्यादि नोक्तं सुरापानसभप्रायश्चित्तम् । अकामतः सान्तपनम् सुकृद्भक्षणे । तत्रैवा भ्यासे यतिचान्द्रायणम् । (५॥२०)–“अमलेयैतानि षड् जग्ध्वा कृच्छं सान्त पनं चरेत् । यतिचान्द्रायणं वापि शेषेपूपवसेदहः ।' इति मनुस्मरणात् । यत्तु बृहृद्यमेनोक्तम्-‘खड़वार्ताककुम्भीकत्रश्चनप्रभवाणि च चैव खुखण्डं कवकानि च । एतेषां भक्षणं कृत्वा प्राजापत्यं चरेद्विजः ।' इति, तत्कामतोऽभ्यासविषयम् । ‘मत्स्यांश्च कामतो जग्ध्वा सोपवासख्यहं क्षिपेत् । इति योगीश्वरेण कामतः सकृद्भक्षणे त्र्यहस्योक्तत्वात् । खङ्घाख्यः पक्षी । कुसु म्भमेित्यन्ये । कवकं राजसर्षपाख्यं शाकम् । खुखण्डं तद्विशेषो गोबलीवर्दन्या येन निर्दिष्ट । यत्तु यमेनोक्तम्-तन्दुलीयककुम्भीकवश्वनप्रभवांस्तथा । नालिकां नारिकेलीं च श्लेष्मातकफलानि च ॥ भूतृणं शियुकं चैव खट्टाख्यं कवकं तथा । एतेषां भक्षणं कृत्वा प्राजापत्यं ब्रवतं चरेत् ॥' इति, तदपि मतिपूर्वाभ्यास विषयम् । नालिका नारिकेली च शाकविशेषौ । खङ्काख्यश्च । अकामतः सकृ द्रक्षणे तु “शेषेपूपवसेदहः' इति मनूतै द्रष्टव्यम् । तत्रैवाभ्यासे त्वावृत्ति कल्प्या । अत्यन्ताभ्यासे तु —‘संसर्गदुष्टं यच्चान्न क्रियादुष्टमकामतः । भुक्त्वा स्वभावदुष्टं च तसकृच्छू समाचरेत् ।।' इति प्रचेतोभिहितं द्रष्टव्यम् । नील्या स्त्वकामतः सकृद्भक्षणे चान्द्रायणम्–“भक्षयेद्यदि नीलीं तु प्रमादाद्राह्मण कचित् । चान्द्रायणेन शुद्धिः स्यादापस्तम्बोऽब्रवीन्मुनिः ॥’ इति आपस्तम्ब स्मरणात् । कामतोऽभ्यासे चावृत्तिः कल्प्या ॥ यदपि षट्त्रंशन्मतेऽभिहि तम्-‘शणपुष्पं शाल्मलं च करनिर्मथितं दधि । बहिर्वेदिपुरोडाशं जग्ध्वा नाद्याद्हर्निशम् ॥” इति, तदप्यकामविषयम् । यत्तु सुमन्तुनोक्तम्-लशुन पलाण्डुगृञ्जनकवकभक्षणे सावित्र्यष्टसहस्त्रेण मू िसंपातान्नयेत्’ इति, तद्वला त्कारेणानेिच्छतो भक्षणविषयम् । तदेकसाध्यव्याध्युपशमार्थे वा भक्षण द्रष्टव्यम् । अतएवानन्तरं तेनैवोक्तम्-“एतान्येव व्याधितस्य भिषक्क्रियायामप्रति श्रिद्धानि भवन्ति । यानि चैवंप्रकाराणि तेष्वपि न दोषः' इति । संपातान्नयेदुदक बिन्दून्प्रक्षिपेत् । अथ जातिदुष्टसंधिन्यादिक्षीरदाने प्रायश्चित्तम् । तत्र चाकामतः सकृत्पाने (५॥८-१०)-‘अनिर्दशाया गोः क्षीरमौष्ट्रमेकशर्फ तथा । अविर्क संधिनी क्षीरं विवत्सायाश्च गोः पयः ॥ आरण्यानां च सर्वेषां मृगाणां महिषीं विना । स्रीक्षीरं चैव वज्र्यानि सर्वशुक्तानि चैव हि ॥ दधि भक्ष्यं च शुत्क्तषु सर्व च दधिसंभवम्’ इत्युक्त्वा ‘शेषेधूपवसेदहः’ इति भनूक्त उपवासो द्रष्टव्यः । काम तस्तु योगीश्वरोक्तस्त्रिरात्रोपवासो द्रष्टव्यः ॥ यत्तु पैठनसेिनोक्तम्-*अवेि खरोष्ट्रमानुषीक्षीरप्राशाने तप्तकृच्छूः पुनरुपनयनं च । रप्राशने षङ्कात्रमभोजनम् । सर्वासां द्विस्तनीनां क्षीरपानेऽप्यजावर्जमेतदेव'
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७६
दिखावट