पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । १ जाप्यनिरतः ख. गृहीत्वा तु ख. पपातकप्रायश्चित्तानि कामाकामतो व्यवस्थापनीयानि । परपाकरुचेित्वासच्छा स्राधिगमनाकराधिकारभार्याविक्रयेषु च मनुयोगीश्वरप्रतिपादितोपपातकसा मान्यप्रायश्चित्तानि जातिशक्तिगुणाद्यपेक्षया व्यवस्थापनीयानि ॥ २८८ ॥ भार्याया विक्रयश्चैषामेित्यत्र चशब्दो मन्वाद्युक्तासत्प्रतिग्रहनेिन्दितान्नाद् नादीनामुपलक्षणार्थमित्युक्तम् । तत्रासत्प्रतिग्रहे प्रायश्चित्तविशेषमाह गोष्ठ वसन्ब्रह्मचारी मासमेकं पयोव्रतः । गायत्रीजप्यनिरतः शुद्धयतेऽसत्प्रतिग्रहात् ।। २८९ ॥ यस्त्वसत्प्रतिग्रहं नेिषिद्धप्रतिग्रहं करोति स ब्रह्मचर्ययुक्तो गोष्ठे वसन् गायत्री जप्यनिरतो गायत्रीजपशीलो मासं पयोत्रतेन शुद्धयतीति । प्रतिग्रहस्य चासत्वं दातुर्जातिकर्मनिबन्धनं यथा चण्डालादेः पतितादेश्च । तथा देशकालनि बन्धनं च यथा कुरुक्षेत्रोपरागादौ तथा प्रतिग्राह्यद्रव्यनिबन्धनं च यथा सुरा। मेषीमृतशय्योभयतोमुख्यादेः । यदा तु पतितादेर्मेष्यादिकं प्रेतिगृह्णाति तदै तदुरुप्रायश्चित्तं द्रष्टव्यम् । व्यतिक्रमद्वयदर्शनेन निमित्तस्य गुरुत्वात् । तत्र जपे मनुना संख्याविशेष उक्तः (११।१९४)–‘जपित्वा त्रीणि सावित्र्याः सह स्राणि समाहितः । मासं गोष्ठ पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥’ इति प्रत्यहं त्रिसहस्रजपो द्रष्टव्यः । मासमिति द्वितीयया त्रिसहस्रसंख्याकस्य जपस्य प्रतिदिवसव्यापित्वावगमात् । यदा तु न्यायवर्तिब्राह्मणादेः सकाशानिषिद्ध मेषादिकं गृह्णाति, पतितादेर्वा भूम्यादिकमनिषिद्धं तदा षट्रत्रिंशन्मतोत्तै द्रष्टव्यम्–“पवित्रेष्टया विशुद्धयन्ति सर्वे घोराः प्रतिग्रहाः । ऐन्दवेन मृगारेष्ठया कदाचिन्मित्रविन्दया ॥ देव्या लक्षजपेनैव शुद्धयन्ते दुष्प्रतिग्रहात् ॥' इति । यतु बृहद्धारीतवचनम्--'राज्ञः प्रतिग्रहं कृत्वा मासमप्सु सदा वसेत् । षष्ठ काले पयोभक्षः पूर्णे मासे विशुद्धयति ॥ तर्पयित्वा द्विजान्कामैः सततं नियतत्रतः ॥” इति । तत्पूर्वोक्तविषयेऽभ्यासे द्रष्टव्यम् । अथवा पतितादेः कुरु क्षेत्रेोपरागादौ कृष्णाजिनादिप्रतिग्रहविषयम् । तथा प्रतिग्राह्यद्रव्याल्पतया प्राय श्चित्ताल्पत्वम् । यथाह हारीतः–“मणिवासोगवादीनां प्रतिग्रहे सावित्र्यष्ट संहस्त्रं जपेत्’ इति । तथा षट्रत्रिंशन्मतेऽपि–“भिक्षामात्रे गृहीते तु पुण्यं मत्रमुदीरयेत् । प्रतिप्रहेषु सर्वेषु षष्ठमंशं प्रकल्पयेत् ॥’ इतीदं च प्रायश्चित्तजातं द्रव्यत्यागोत्तरकालं द्रष्टव्यम्। (११॥१९३)–“यद्भर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम्। तस्योत्सर्गेण शुद्धयन्ति जप्येन तपसैव च ॥’ इति मनुस्मरणात् । एवमन्या न्यपि स्मृतिवाक्यानि द्रव्यसाराल्पत्वमहत्वाभ्यां विषयेषु व्यवस्थापनीयानि ॥ इत्युपपातकप्रायश्चित्तप्रकरणम् । २ दिकं गृह्णाति ङ . ४५१ ३ पूर्णमासे प्रमुच्यते इति पाठः, ४ मात्रं