४५० याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः मनतान्यप्यपाङ्गेयप्रायश्चित्तानि “षष्टान्नकालता मासम्’ इत्यादीन्यपि जात्याद्य पेक्षया योज्यानि । तदुक्तापाङ्कयमध्येऽपि कितवादिव्यसनिनां पठितत्वात् । आत्मविक्रये शूद्रसेवायां च सामान्यप्रायश्चित्तानि प्राग्वदेव योज्यानि ॥ यत्त बौधायनेनोक्तम्--'समुद्रयानं ब्राह्मणस्य न्यासापहरणं सर्वपण्यैव्र्यवहरणे भूम्यनृतं शूद्रसेवा यश्च शूद्रायामभिजायते तेन यदपत्यं च भवति तेषां तु निर्देशः, चतुर्थकालं मितभोजिनः स्युरपोऽभ्युपेयुः सवनानुकल्पम् । स्थानासनाभ्यां विहरन्त एतैस्त्रिभिर्वर्षेस्तदपहरन्ति पापम् ॥’ इति तद्धहुकालसेवाविषयम् । हीनजातिभिः सख्ये तूपातकसामान्यप्रायश्चित्तान्येव । यत्तु प्रचेतसोक्तम् मित्रभेदनकरणादहोरात्रमनश्क्षन् हुत्वा पयः पिबेत्’ इति, तदहीनसख्यभेदन विषयम् ॥ हीनयोनिनिषेवणेऽप्युपपातकसामान्यप्रायश्चित्तानि योज्यानि ॥ यत्तु शातातपेनोक्तम्-‘ब्राह्मणो राजकन्यापूर्वी कृच्छं द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेद्वैश्यापूर्वी तु तसकृच्छू शूद्रापूर्वी तु कृच्छूतिकृच्छू राजन्यश्चेद्वैश्यापूर्वी कृच्छू द्वादशरात्रं चरित्वा निविशेत्तां चैवोपयच्छेच्छूद्रापूर्वी त्वतिकृच्छू वैश्यश्चच्छूद्रापूर्वी कृच्छू द्वादशरात्रं चरित्वा तां चोपयच्छेत्’ इति तत्र निविशेत्तां चोपयच्छेदिति कृच्छ्ानुष्टानोत्तरकालं सवर्णापरिणयनादूध्र्व तां च राजन्यादिकामुपयच्छेदित्यर्थः । इदं चाज्ञानविषयम् । ज्ञामतस्तूपातकसामान्य प्रायश्चित्तं व्यवस्थितमेव द्रष्टव्यम् । साधारणखीसंभोगे च हीर्नयोनिनिषेवण मित्युक्तं तत्रापि ‘पशुवेश्याभिगमने प्राजापत्यं विधीयते’ इति संवतक्त मकामतो द्रष्टव्यम् । कामतस्तु यमेनोक्तं द्रष्टव्यम्-वेश्यागमनजं पापं व्यपोहन्ति द्विजातयः । पीत्वा सकृत्सकृत्तसं सप्सरात्रं कुशोदकम् ॥’ इति । उप पातकसामान्यप्रायश्चित्तानि च कामाकामतोऽभ्यासापेक्षया योज्यानि । तत्र मत्या भ्यासे तु प्रतिनिमित्तं नैमित्तिकमावर्तते’ इति न्यायात्प्रतिनिमित्तं नैमित्तिकावृत्तौ प्रसक्तायां लौगाक्षिणा विशेष उक्त –अभ्यासेऽहर्गुणा वृद्धिर्मासादर्वाग् विधीयते । ततो मासगुणा वृद्धिर्यावत्संवत्सरं भवेत् ॥ ततः संवत्सरगुणा यावत्पापं समाचरेत् ॥’ इति । इदं मतिपूर्वविषयम् । अमतिपूर्ववृत्तौ चतुर्विशतिमते विशेष उक्त –*सकृत्कृते तु यत्प्रोत्तं त्रिगुणं तत्रिभिर्दिनै । मासात्पञ्चगुणं प्रोक्तं षण्मासाद्दशधा भवेत् ॥ संवत्सरात्पञ्चदशं त्र्यब्दाशिगुणं भवेत् । ततोऽप्येवं प्रकल्प्यं स्याच्छातातपवचो यथा ॥' इति ॥ यत्पुनः ‘विधेः प्राथमिकादस्मात् द्वितीये द्विगुणं चरेत्’ इति प्रतिनिमित्तमावृत्तिविधायकं तन्महापातकविषयमित्युक्त प्राकू । यत्त यमेन साधारणस्रीगमनमधिकृत्य गुरुतल्पत्रतमतिदिष्टम्-गुरु तल्पव्रतं केचित्केचिचान्द्रायणत्रतम् । गोघ्रस्येच्छन्ति केचित्तु केचिदेवावकीर्णि नः ॥’ इति । एतच्च जन्मप्रभृतिसानुबन्धानवच्छिन्नाभ्यासविषयम् । अनन्तरं तथैवानाश्रमे वास इत्युक्तं तन्न हारीतेन विशेष उक्तः –‘अनाश्रमी संव त्सरं प्राजापत्यं कृच्छं चरित्वाश्रममुपेयात् । द्वितीयेऽतिकृच्छू तृतीये कृच्छूति कृच्छूमत ऊध्र्व चान्द्रायणम्’ इति, एतदसंभवविषयम् । संभवे तु सामान्येनो २ पूर्वाभ्यासे
पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७४
दिखावट