पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५] मिताक्षरासहिता । इति । यच्च शङ्गेन-‘क्षीराणि यान्यभक्ष्याणि तद्विकाराशने बुधः । सप्सरात्रं त्रतं कुर्यात्प्रयखेन समाहितः ॥’ इति यावकत्रतमुक्तं तदुभयमपि कामतोऽभ्यास विषयम् । यत्तु शङ्कन-संधिन्यमेध्यभक्षयोः क्षीरप्राशने पक्षव्रतमुक्तम्

  • संधिन्यमेध्यभक्षयोर्मुक्त्वा पक्षत्रतं चरेत्’ इति, तदप्यभ्यासविषयम् । “सकृ

त्पाने गोऽजामहिषीवज्र्य सर्वाणि पयांसि प्राइयोपवसेत् । अनिर्दशाहं तान्यपि संधिनीयमसूस्यन्दिनीविवत्साक्षीरं चामेध्यभुजश्च' इति विष्णुनोपवासस्योक्त त्वात् । तथा वर्णनिबन्धनश्च प्रतिषेधः–*क्षत्रियश्चापि वृत्तस्थो वैश्यः शूद्रोऽ थवा पुन । यः पिबेत्कपिलाक्षीरं न ततोऽन्योऽस्त्यपुण्यकृत् ॥' इत्येवमादौ च यत्र प्रतिपदोत्तं प्रायश्चित्तं न दृश्यते तत्र ‘शेषेधूपवसेदहः’ इति साधारणः प्रायश्चित्तं मनूर्त्ततं द्रष्टव्यम् ॥ अथ स्वभावदुष्टमांसादिभक्षणे प्रायश्चित्तमुक्तम् । तत्र कामतः सकृद्भक्षणे ‘शेषे धूपवसेदहः’ इति मनूक्तं साधारणं प्रायश्चित्तं द्रष्टव्यम् । कामतस्तु-चाषांश्च रक्तपादांश्च सौनं वलूरमेव च । मत्स्यांश्च कामतो जग्ध्वा सोपवासस्यहं वसेत् ॥ इति योगीश्वरोक्तं द्रष्टव्यम् । कामतोऽभ्यासे तु ( ११॥१५२)-‘जग्ध्वा मांसमभक्ष्यं तु ससैरात्रं यवान्पिबेत्’ इति मनूत्तं द्रष्टव्यम् । इदं च वेिट्सूक रादिमांसव्यतिरिक्तविषयम् ( ११।१५६) –“क्रव्याद्विट्सूकरोष्ट्राणां कुकुटानां च भक्षणे । नरकाकखराणे च तप्तकृच्छू विशोधनम् ॥' इति मनुना जाति विशेषेण प्रायश्चित्तविशेषस्योक्तत्वात् । एतन्मूत्रपुरीषप्राशनेऽप्येतदेव ।–“वराहै कशफानां च काककुकुटयोस्तथा । क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥ मांसमूत्रपुरीषाणि प्राश्य गोमांसमेव श्वगोमायुकपीनां च तसकृच्छू विधी यते ॥ उपोष्य वा द्वादशाहं कूष्माण्डैर्जुहुयादृतम् ॥' इति बृहद्यमस्मरणात् । तत्र कामतस्तप्तकृच्छूः अभ्यासे तु कूष्माण्डसहितः पराक इति व्यवस्था ॥ तथा प्रचेतसाप्युक्तम्-‘श्वस्मृगालकाककुकुटपार्षतवानरचित्रकचाषक्रव्याद्खरोष्ट्रग जवाजिवेिङ्कराहगोमानुषमांसभक्षणे तसकृच्छूमादिशेदेषां मूत्रपुरीषभक्षणे त्वति कृच्छ्म् इति इद चव क मकारविषयम् । यत्तूशनसो वचनम्-‘नर मांसं श्वमांसं वा गोमांसं वाश्वमेव वा । भुक्त्वा पञ्चनखानां च महासान्तपनं चरेत् ॥’ इति, तदकामविषयम् ॥ यत्वङ्गिरोवचनम्–“बलाकाभासगृभ्राखु खरवानरसूकरान् । दृष्टा चैषाभमेध्यानि स्पृष्टाचम्य विशुद्धयति ॥ इच्छयैषाम मेध्यानि भक्षयित्वा द्विजातयः । कुर्युः सान्तपनं कृच्छू प्राजापत्यमनेिच्छया ॥ इति, तद्भक्षितोद्वारितविषयम् । सान्तपनशब्देन चात्र महासान्तपनमुच्यते । अकामतः प्राजापत्यविधानात् । यत्पुनरङ्गिरोवचनम्-‘नरकाकखराश्वानां जग्ध्वा मांसं गजस्य च । एषां मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥’ इति । बृहद्यमेनोक्तम्-‘शुष्कमांसाशने विप्रो व्रतं चान्द्रायणं चरेत्’ इति । तदुभयमपि कामतोऽभ्यासविषयम्। यत्पुनः शङ्गेनोक्तम्--'भुक्त्वा चोभयतो १ भक्षाया: ड . २ भक्षायाः ङ. ४५३ । ३ सप्तरात्रं पयः पिबेदिति क . . ४ खराश्धानां ङ