सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रायश्चित्तप्रकरणम् ५ ] मिताक्षरासहिता । ३८७ चवानस्यनस्था तु शूद्रहत्यात्रतं चरेत्’ इति । इदं च द्वादशवाषेवकं व्रतं साक्षा द्धन्तुरेव । ब्रह्महेति तस्यैवाभिधानात् । अनुग्राहकप्रयोजकादेस्तु तत्तद्दोषानु सारेण प्रायश्चित्ततारतम्यं कल्पनीयम् । तत्रानुग्राहको यत्प्रायश्चित्तभाजं पुरुष मनुगृह्णाति स तत्प्रायश्चित्तं पादोननं कुर्यात् । अतस्तस्य द्वादशवार्षिकेण पादोनं नववार्षिकं प्रयोजकस्त्वधनं षङ्गार्षिकं कुर्यात् । अनुमन्ता पुनः सार्धपादं सार्ध चतुर्वार्षिकं निमित्ती त्वेकपादं त्रिवार्षिकम् । अतएव सुमन्तु –‘तिरस्कृतो यदा विप्रो हत्वात्मानं मृतो यदि । निर्गुणः साहसात्क्रोधादृहक्षेत्रादिकारणात् । त्रैवार्षकं छतं कुर्यात्प्रतिलोमां सरस्वतीम् । गच्छेद्वापि विशुद्धयर्थ तत्पापस्येति निश्चितम् । अत्यर्थ निर्गुणो विप्रो ह्यत्यर्थ निर्गुणोपरि । क्रोधाद्वै त्रियते यस्तु निर्निमित्तं तु भत्सितः ॥ वत्सरत्रितयं कुर्यान्नरः कृच्छू विशुद्धये ॥’ इति । यदा पुनर्निमित्यत्यन्तगुणवान् आत्मघाती चात्यन्तनिर्गुणस्तदैकवर्षमेव ब्रह्महत्यात्रतं कुर्यात् । ‘केशश्मश्रुनखादीनां कृत्वा तु वपनं वने । ब्रह्मचर्य चरन्विप्रो वैषेणैकेन शुद्धयति ।।' इति तेनैवोक्तत्वात् । अनयैव दिशानुग्राहकप्रयोजकादीनां येऽनु ग्राहकप्रयोजकाद्यस्तेषामपि प्रायश्चित्तं कल्ण्यम् । अस्यां च कल्पनायाँ प्रयोजयेि तानुमन्ता कर्ता चेति स्वर्गनरकफलेषु कर्मसु भागिनो यो भूय आरभते तस्मि न्फलविशेषः' इत्यापस्तम्बीयं वचनं मूलम् । तथा प्रोत्साहकादीनामपि दण्ड प्रायश्चित्त कल्प्ये । यथाह पैठीनसिः–‘हन्ता मन्तोपदेष्टा च तथा संप्रति प्रोत्साहकः सहायश्च तथा मार्गानुदेशक भक्तदाता विकर्मिणाम् । उपेक्षकः शक्तिमांश्चेद्दोषवक्तानुमोदकः ॥ अकार्य कारिणस्त्वेषां प्रायश्चित्तं प्रकल्पयेत् । यथाशक्त्यनुरूपं च दण्डं चैषाँ प्रकल्पयेत् ॥ इति ॥ तथा बालवृद्धादीनां साक्षात्कर्तृत्वेऽप्यर्धमेव-‘अशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः। प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव चव ॥’ इत्यङ्गिर स्मरणात् ॥ तथा सुमन्तुः -‘अर्वात्कु द्वादशाद्वर्षादशीतेरूध्र्वमेव वा । । अर्धमेव भवेत्पुंसां तुरीयं तत्र योषिताम् ।।' इति । तथानुपनीतस्यापि बालकस्य पादमा त्रमेव प्रायश्चित्तम् । ‘खणिामर्ध प्रदातव्यं वृद्धानां रोगिणां तथा । पादो बालेषु दातव्यः सर्वपापेष्वयं विधि ॥' इति विष्णुस्मरणात् । अतश्च यच्छङ्गेन

  • उनैकादशवर्षस्य पञ्चवर्षात्परस्य च । प्रायश्चित्तं चरेद्राता पिता वान्यः सुह्य

जनः ॥’ इति प्रतिपाद्योक्तम्—‘अतो बालतरस्यास्य नापराधो न पातकम् । राजदण्डो न तस्यास्ति प्रायश्चित्तं न विद्यते ।' इति, तदपि संपूर्णप्रायश्चित्ताभाव प्रतिपादनपरै न पुनः सर्वात्मना । आश्रमविशेषनेिर पेक्षेण श्रूयमाणेषु ब्राह्मणो न हन्तव्यस्तस्माद्राह्मणराजन्यौ वैश्यश्च न सुरां पिबे दिलेयेवमादिष्वनपेक्षितवयोविशेषस्यैवाधिकारात् । अतश्च तदीयमपि प्रायश्चित्तं पित्रादिभिरेवाचरणीयम् ।–“पुत्रानुत्पाद्य संस्कृत्य वेदमध्याप्य वृत्तिं वेिदध्यात् १ अस्थिरहितानां प्राणिनां शकटपरिमितानां वधे इत्यर्थः. २ गुणवदुपरि आत्मघाती वा ३ वर्षकेण विशुष्यति ङ. ४ भागिनो भूय. ख . तथार्वातु ५ ख