सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ याज्ञवल्क्यस्मृतिः। [ प्रायश्चित्तायाः चाकामकृतब्रह्मवधविषया । ( ११॥८९)-‘इयं विशुद्धिरुदिता प्रमाप्याकामतो द्विजम् । कामतो ब्राह्मणवधे निष्कृतिर्न विधीयते ॥' इति मनुस्मरणात् ॥ अत्रेदं चिन्तनीयम् । किं द्वित्रंब्राह्मणवधे प्रायश्चित्तस्य तत्रत्वमुतावृत्तिरिति । तत्र केचिन्मन्यन्ते ब्रह्महा द्वादशाब्दानीत्यत्र ब्रह्मशब्दस्यैकमिन्द्वयोर्बहुषु साधा रणत्वादेकस्मिन्ब्राह्मणवधे यत्प्रायश्चित्तं तदेव द्वितीये तृतीयेऽपि । तत्रैकब्राह्मण वधनिमितैकप्रायश्चित्तानुष्ठाने सतीदं कृतमिदं नेति न शक्यते वक्तम् । देशकालकर्तृणां प्रयोगानुबन्धभूतानामभेदेनागृह्यमाणविशेषत्वात्तत्रानुष्ठानेनैव पापक्षयलक्षणकार्यनिष्पत्तिर्युक्ता । यथा तत्रानुष्टितैः प्रयाजादिभिराझेयादिषु तत्रेणैवानेकोपकारलक्षणकार्याणां निष्पत्ति । नचैवं वाच्यम् ‘द्वित्रेब्राह्मण वधे पापस्य गुरुत्वादेनसि गुरुणि गुरूणि लघुनि लघूनि' इति, गौतमवचना दावृत्तमेव प्रायश्चित्तानुष्ठानं युक्तम्, विलक्षणकार्ययोस्तत्रेण निष्पत्त्यनुपपत्ते रिति । यतो नेदं वचनमावृत्तिविधायकं किंतूपदिष्टानां गुरुलघुकल्पानां व्यवस्थाप्रतिपादनपरम् । नच द्वितीयब्राह्मणवधे पापस्य गुरुत्वं, प्रमाणा भावात् । यञ्च मनुदेवलाभ्यामुक्तम्-विधेः प्राथमिकादस्माद्वितीये द्विगुणं भैभवेत् । तृतीये त्रिगुणं प्रोक्तं चतुर्थे नास्ति निष्कृति ॥” इति, तदपि ‘प्रति निमित्तं नैमित्तिकशास्त्रमावर्तते’ इति न्यायेन, द्वित्रब्राह्मणवधगोचवरनैमित्तिक शाखावृत्यनुवादेन चतुर्थे तदभावविधिपरम्, न पुनर्द्धितीयब्रह्मवधे प्रायश्चित्ता नुष्ठानद्वैगुण्यविधिपरमैपि । वाक्यभेदप्रसंगातू । तस्मात् द्वित्रब्राह्मणवधेऽपि सकृदेव द्वादशवार्षिकाद्यनुष्ठानं युक्तम्, यथा “अझये क्षामवते पुरोडाशमष्टाकपालं निर्वपे'दित्याद्विगृहदाहादिनिमित्तेषु चोदितानां क्षामवत्यादीनां युगपदनेकेष्वपि गृहदाहादिनिमित्तषु सकृदेवानुष्ठानम् । अत्रोच्यते । नहि वचनविरोधे न्याय प्रभवति । वचनं च विधेः प्राथमिकादित्यादिकं द्वित्रब्राह्मणवधे प्रायश्चित्तानुष्ठाना । एवं सति न्यायलभ्यतत्रानुष्ठानबाधेनावृत्तिविधाचिदं वचनं प्रवृत्तिविशेषकरं स्यात् । इतरथा शास्रतः प्रास्यनुवादकत्वेनानर्थकं स्यात् । नच वाक्यभेदः । चतुर्थादिब्रह्मवधपर्युदासेनेतरत्रावृत्तप्रायश्चित्तविधानेनैकार्थत्वात् । किंच । ‘चतुर्थे नास्ति निष्कृतिरिति लेि ङ्गदर्शनाद्धन्यमानब्राह्मणसंख्योत्कर्षे दोषगौरवं गम्यते । तथा देवलादिवचनाच ‘यत्स्यादनभिसंधाय पापं कर्म सकृत्कृतम् । तस्येयं निष्कृतिर्छष्टा धर्मविद्भिर्मनीषिभिः ॥’ इति । नच विलक्षण योर्गुरुलघुदोषयोः क्षयस्तत्रेण निष्पद्यते । अत एवंविधेषु दोषगुरुत्वेन कार्य वैलक्षण्यादपि प्रतिनिमित्तं नैमित्तिकस्यावृत्तिर्युक्ता । क्षामवत्यादिषु पुनः कार्य स्यावैलक्षण्याद्युक्तस्तन्नभाव इत्यलं प्रपञ्चेन । यचेदं “चतुर्थे नास्ति निष्कृति'रिति तदपि महापातकविषयम् । पापस्यातिगुरुत्वेन प्रायश्चित्ताभावप्रतिपादनपर ॐवात् । अतः शूद्रान्नसेवनादौ बहुशोऽप्यभ्यस्ते तदनुगुणप्रायश्चित्तावृत्तिः कल्प नीया न पुनः प्रायश्चित्ताभाव । अत एवोक्तं मनुना ( ११।१४० )-‘पूर्णे १ किं तत्र द्वित्रिब्राह्मणवधे ड. २ द्वित्रिब्राह्मण ख. ३ द्विगुणं चरेत् ख. ४ नैमित्तिक मावर्तते ख. ५ परममिति ख. परमेव ग. ६ वृत्तिप्रायश्चित्त ङ