पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/४१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८ याज्ञवल्क्यस्मृतिः । [ प्रायश्चित्ताध्यायः इति तस्यैवपुंत्रादिहिताचरणेऽधिकृतत्वात् । यत्र पुनः कस्मिंश्चिब्रह्मवधे प्रयो जैकभावमापन्नस्यान्यस्मिन्साक्षात्कर्तृत्वे गुरुलघुप्रायश्चित्तसंपातस्तत्र द्वादशवार्षेि कादिगुरुप्रायश्चित्तान्तःपातिनः प्रयोजकसंबन्धिलघुप्रायश्चित्तप्रसङ्गात्कार्यसिद्धिः । नचैवं सत्यविशेषालघुकल्पेन महतोऽपि सिद्धिः स्यादित्याशङ्कनीयम् । अत्र ह्यन्तःपातितयानुष्ठाने विशेषानवगमात्प्रसङ्गात्कार्यसिद्धिरैवगम्यते । नच लध्व न्तःपाती महाकल्प इति कुतः प्रसङ्गाशङ्का । नच चैत्रवधजनितकल्मषक्षयार्थ नुिष्ठितेन कथं विष्णुमित्रवधोत्पाद्यपापनिवृत्तिरिति वाच्यम् । चैत्राद्युद्देशस्या तत्रत्वात् । अतो यथा काम्यनियोगनिष्पत्त्यर्थं स्वर्गार्थ वानुष्ठितैराझेयादिभिर्नित्यः नियोगनिष्पत्तिस्तद्वलघुप्रायश्चित्तस्यापि कार्यसिद्धिः । यत्पुनर्मध्यमाङ्गिरो वचनम्–‘गवां सहस्त्रं विधिवत्पात्रेभ्यः प्रतिपादयेत् । ब्रह्महा विप्रमुच्येत सर्व पापेभ्य एव चव ॥’ इति, तत्सवनस्थगुणवब्राह्मणविषयम् । एतञ्च ‘द्विगुणं सव नस्थे तु ब्राह्मणे बतमादेिशेत्’ इत्येतद्वाक्यविहितद्विगुणद्वादशवार्षिकत्रतवर्या शक्तस्य वेदितव्यम् । प्रायश्चित्तस्यातिगुरुत्वात् । न त् वनावृत्तद्वादशवार्षिकविषयम् । तत्र हि द्वादशदिनान्येकैकप्राजापत्यमिति गणनायां प्राजापत्यानां षष्टयधिक शतत्रयं भवति । यद्यपि प्राजापत्यस्यान्ते त्र्यहमुपवासोऽधिकस्तथाप्यत्र वनवास जटाधारणवन्याहारत्वादिरूंपतपोविशेषयुक्तत्वादुपवासाभावेऽप्येकैकस्य द्वादशा हस्य प्राजापत्यतुल्यत्वम् । ततश्च–“प्राजापत्यक्रियाशक्तौ धेर्नु दद्याद्विचक्षणः । गावामभावे दातव्यं तन्मूल्यं वा न संशय ॥’ इत्यनेन न्यायेन प्रतिप्राजापत्य मेकैकस्यां धेन्वां दीयमानायां धेनूनामपि षट्यधिकं शतत्रयं भवति न पुनः सहू खम् । अतो यथोक्त एव विपयो युक्तः । यदपि शङ्खवचनम्–“पूर्ववदमति पूर्वं चतुषु वर्णेषु विग्रं प्रमाप्य द्वादशवत्सरान्षट् त्रीन्सार्ध संवत्सरं च ब्रता न्यादिशेत्तेषामन्ते गोसहस्त्रं तदर्ध तस्यार्ध तदर्ध च दद्यात्सर्वेषां वर्णानामानु पूब्र्येणे'ति द्वादशवार्षिकगोसहस्रयोः समुच्चयििवधिर्परं तदाचार्यादिहननविषयं द्रष्टव्यम् । तस्यातिगुरुत्वात् । तथाच दक्ष –“सममब्राह्मणे दानं द्विगुणं ब्राह्मण बुवे । आचार्ये शतसाहस्र श्रोत्रिये दत्तमक्षयम् ॥’ इति प्रतिपाद्योतैवान् समद्विगुणसाहस्रमानन्त्यं च यथाक्रमम् । दाने फलविशेषः स्याद्धिंसायां तद्वदेव हेि ॥’ इति । तथापस्तम्बेन द्वादशवार्षिकमुक्त्वोक्तमस्मिन्नेव विषये–‘गुरुं हत्वा श्रोत्रियं वा एतदेव व्रतमोत्तमादुच्छासाचरेत्’ इति, तत्र यावज्जीवमाव तैमाने बते यदा त्रैगुण्यं चातुर्गुण्यं वा संभाव्यते तदा तत्र समर्थस्य बहु धनस्यायं दानतपसोः समुच्चयो द्रष्टव्य । द्वादशवार्षिकव्यतिरिक्तानां तु सुमन्तुपराशराद्युक्तानां प्रायश्चित्तानामुत्तरत्र व्यवस्थां वक्ष्यामः । ननु द्वादशवार्षिकादिकल्पानां व्यवस्था कुतोऽवसिता । न तावङ्कादशवार्षिका द्विविधायकवाक्यैरिति युक्तम् । तत्राप्रतीते । नचव वाच्यं प्रमाणावगतगुरु ड. ३ सिद्धिरुच्यते ५ रूपतया बिशेष. ६ समुच्चयपरं ख .. ७ चोक्तत्वात् ख ४ मनुष्टयेन ख