सामग्री पर जाएँ

पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/२५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२८ याज्ञवल्क्यस्मृतः । [ व्यवहाराध्याय ीबादिपतीनां विशेषमाह अपुत्रा योषितथैषां भर्तव्याः साधुवृत्तयः । निर्वास्या व्यभिचारिण्यः प्रतिकूलस्तथैव च ।। १४२ ॥ एषां क्रीबादीनामपुत्राः पढ्यः साधुवृत्तयः सदाचाराश्चद्वर्तव्या भरणीयाः । व्यभिचारिण्यस्तु निर्वास्या । प्रतिकूलास्तथैव च निर्वास्या भवन्ति भरणीयाश्च । अव्यभिचारिण्यश्चेत् न पुनः प्रातिकूल्यमात्रेण भरणमपि न कर्तव्यम् ॥ १४२ ॥ विभजेरन्सुताः पित्रोरित्यत्र स्त्रीपुंधनविभागं संक्षेपेणाभिधाय पुरुषधनवेि भागो विस्तरेणाभिहितः । इदानीं स्त्रीधनविभागं विस्तरेणाभिधास्यंस्तत्स्वरूपं पितृमातृपतिभ्रातृदत्तमध्यश्युपागतम् । आधिवेदनिकाद्य च स्त्रीधनं परिकीर्तितम् ।। १४३ ।। पित्रा मात्रा पत्या भ्रात्रा च यद्दत्तं यच्च विवाहकालेऽझावधिकृत्य मातुलादि भिर्दत्तं आधिवेदनिकं अधिवेदननिमित्तं ‘अधिविन्नस्रियै दद्यादिति वक्ष्यमाणं । आद्यशब्देन रिक्थक्रयसंविभागपरिग्रहाधिगमप्रासं एतत्स्त्रीधनं मन्वादिभि रुक्तम् । स्त्रीधनशब्दश्च यौगिको न पारिभाषिकः । योगासंभवे परिभाषाया अयुक्तत्वात् । यत्पुनर्मनुनोक्तम् (९॥१९४)-“अध्यझ्यध्यावहनिकं दत्तं च प्रीतिकर्मणि । भ्रातृमातृपितृप्रासं षड़िधं स्त्रीधनं स्मृतम् ॥' इति स्त्रीधनस्य षड़िधत्वं तन्यूनसंख्याव्यवच्छेदार्थ नाधिकसंख्याव्यवच्छेदाय ॥ अध्ययादि खरूपं च कात्यायनेनाभिहितम्-“विवाहकाले यत्खीभ्यो दीयते ह्यग्निसं निधौ । तद्ध्यमिकृतं सद्भिः स्त्रीधनं परिकीर्तितम् ॥ यत्पुनर्लभते नारी नीय माना पितुर्गुहात् । अध्यावहनिकं नाम स्रीधनं तदुदाहृतम् । प्रीत्या दत्तं तु यत्किंचिच्छुश्रुवा वा श्वशुरेण वा । पादवन्दनिकं चैव प्रीतिदत्तं तदुच्यते । ऊढया कन्यया वाऽपि पत्युः पितृगृहेऽपि सकाशात्पित्रोर्वा लब्धं वा ॥ ३भ्रातुः .. सौदायिकं स्मृतम् ॥’ इति ॥ १४३ ॥ बन्धुदत्तं तथा शुल्कैमन्वाधेयकमेव च । किंच । बन्धुभिः कन्याया मातृबन्धुभिः पितृबन्धुभिश्च यद्दत्तं शुल्कं यदृहीत्वा कन्या दीयते । अन्वाधेयकं परिणयनादनु पश्चादाहितं दत्तम् । उत्तं च कात्या यनेन–‘विवाहात्परतो यच्च लब्धं भर्तृकुलात्स्त्रिया । अन्वाधेयं तु तद्रव्यं लब्धं पितृकुलात्तथा ॥’ इति स्त्रीधनं परिकीर्तितमिति गतेन संबन्धः । १ भर्तुः सकाशादिति पाठः. २ वीरमित्रोदयस्त्वेवमव्याख्यत्-गृहोपस्करणादीनां यन्मू लां कन्यार्पणोपाधित्वेन वरादिभ्यः कन्याभरणरूपेण गृह्यते तच्छुल्कमिति मदनरले व्याख्या तम् । उभयत्रापि पित्रादीनां कन्याया इदमित्युद्देशेो विवक्षितः । ‘यदानेतुं भर्तृगृहे शुल्कै तद्वप्ररिकीर्तितम्’ इति व्यासोतं वा भर्तृगृहगमनार्थमुत्कोचादि यद्दत्तं तच्छुल्कमित्यर्थ इति । अन्यथा तत्सत्वाभावेन स्त्रीधनत्वव्यपदेशानुपपत्ते