दायविभागप्रकरणम् ८] मिताक्षरासहिता । एवं स्त्रीधनमुत्तं तद्विभागमाह अतीतायामप्रजसेि बान्धवास्तदवापुयुः ।। १४४ ।। तत्पूर्वोक्त स्रीधनमप्रजसेि अन्नपत्याया दुहितृदौहित्रीदैौहित्रपुत्रपौत्ररहितायाँ स्त्रियामतीतायां बान्धवा भत्रद्यो वक्ष्यमाणा गृह्णन्ति ॥ १४४ ।। सामान्येन बान्धवा धनग्रहणाधिकारिणो दर्शिताः । इदानीं विवाहभेदेना धिकारिभेदमाह अप्रजत्रीधनं भर्तुब्रह्मादिषु चतुष्र्वपि । दुहितृणां प्रसूता चेच्छेषेषु पितृगामि तत् ॥ १४५ ।। अँग्रजस्त्रियाः पूर्वोक्तायाः ब्राह्मदैवार्षप्राजापत्येषु चतुषु विवाहेषु भार्यात्वं प्रा साया अतीतायाः पूर्वोत्कं धनं प्रथममं भर्तुर्भवति । तँदभावे तत्प्रत्यासन्नानां सपिण्डानां भवति । शेषेष्वासुरगान्धर्वराक्षसपैशाचेषु विवाहेषु तदप्रजखीधनं पितृगामि । माता च पिता च पितरौ तौ गच्छतीति पितृगामि । एकशेषनि र्दिष्टाया अपि मातुः प्रथमं धनग्रहणं पूर्वमेवोक्तम् । तदभावे तत्प्रत्यासन्नानां धनग्रहणम् । सर्वेष्वेव विवाहेषु प्रसूतापत्यवती चेहुहितृणां तद्धनं भवति । अत्र दुहितृशब्देन दुहितृदुहितर उच्यन्ते । साक्षाहुहितृणां ‘मातुदुहितरः शेषम् इत्यत्रोक्तत्वात् अतश्च मातृधनं मातरि वृत्तायां प्रथमं दुहितरो गृह्णन्ति । चोढानूढासमवायेऽनूद्वैव गृह्णाति । तदभावे च परिणीता । तत्रापि प्रतिष्ठिताऽप्रतिष्ठितासमवायेऽप्रतिष्ठिता गृह्णाति । तदभावे प्रतिष्ठिता । यथाह गौतमः–“स्त्रीधनं दुहितृणामप्रत्तानामप्रतिष्ठितानां च' इति । तत्र चवशब्दात्प्र तिष्ठितानां च । अप्रतिष्ठिता अनपत्या निर्धना वा । एतञ्च शुल्कव्यतिरेकेण । शुल्कं तु सोदर्याणामेव । --*भगिनीशुल्कं सोदर्याणामूध्र्व मातुः’ इति गौतम वचनात् । सर्वासां दुहितृणामभावे दुहितृदुहितरो गृह्णन्ति । ‘दुहितृणां प्रसूता चेत्’ इत्यस्माद्वचनात् । तासां भिन्नमातृकाणां विषमाणां समवाये मातृद्वारेण भागाकल्पना । ‘प्रतिमातृतो वा स्वर्गेण भागविशेषः’ इति गौतमस्मरणात् ॥ दुहितृदैौहित्रीणां समवाये दौहित्रीणां किंचिदेव दातव्यं । यथाहमनुः (९॥ १९३)
- यास्तासां स्युर्तुहितरस्तासामपि यथाऽर्हत । मातामह्या धनात्किंचित्प्रदेयं
प्रीतिपूर्वकम् ॥' इति ॥ दौहित्रीणामप्यभावे दौहित्रा धनहारिण । यथाहः नारदः–‘मातुर्गुहितरोऽभावे दुहितृणां तदन्वयः’ इति । तच्छब्देन संनिहेि तदुहितृपरामशत् ॥ दौहित्राणामभावे पुत्रा गृह्णन्ति । ताभ्य ऋत्तेऽन्वय इत्यु चक्तत्वात् । मनुरपि दुहितृणां पुत्राणां च मातृधनसंबन्धं दर्शयति (९॥१९२ ) १ चतुष्वैपीत्यपिशब्दाद्भान्धर्वग्रहणम् । यद्वा अतदुणसंविशानबहुत्रीहिणा ब्राह्मभिन्ना दैवार्षप्राजापत्यगान्धर्वाश्चत्वारः । तेन ‘ब्राह्मदैवार्षगान्धर्वप्राजापत्यषु यद्धनम् । अप्रजायाम तीतायां भर्तुरेव तदिष्यते ॥’ इति न मनुवचनविसंवादः. २ अप्रजसः स्त्रियाः घ. ३ भत्रैभावे तत्प्रत्यासन्नानां सपिण्डानां पित्रभावे च तत्प्रत्यासन्नानां सपिण्डानामिति तत्रापि तेनास्या प्रत्यासन्नास्तत्प्रत्यासन्नाःlतद्भारा तत्कुले प्रत्यासन्ना इति यावत्.४स्वर्गे भाग ग. स्वस्ववर्गेण ध