त्रपुसीसकताम्राणां क्षाराम्लोदकवारिभिः ।
भस्माद्भिः कांस्यलोहानां शुद्धिः प्रावो द्रवस्य तु ॥१९०॥
पुष्प्रभृतीनि प्रसिद्धानि तेषां क्षारोदकेनाम्लोदकेन वारिणा वोपघातापे
क्षया समस्तैव्यैतैर्वा शुद्धिः काय । कांस्यलोहानां भस्मोदकेन । ताम्रग्रहणाद्री
तिकापित्तलयोर्मुहणम् एकयोनित्वात् एतञ्च ताम्रा दीनामम्लोदकादिभि
शुद्धयभिधानं न नियमार्थम् । ‘मलसंयोगजं तज्जं यस्य येनोपहन्यते । तस्य
तच्छोधनं प्रोक्तं सामान्यं द्रव्यशुद्धिकृतू ॥’ इत्यविशेषेण स्मरणात् । अतो न
ताम्रादेरुच्छिष्टोदकादिलेपस्यान्येनापगमसंभवे नियमेनाम्लोदकादिने शुद्धि
कार्या । अतएव मनुना सामान्येनोक्तम् ताम्राय:कांस्यरेत्यानां त्रपुणः सीस
कस्य च । शौचं यथार्ह कर्तव्यं क्षाराम्लोदकवारिभिः ॥' इति । यत्तु–“भस्मना
शुद्धयते कांस्यं ताम्रमम्लेन शुद्धयति’ इति, तत्ताम्रादेः शौचस्य परां काष्ठाँ
प्रतिपादयितुं नान्यस्य निषेधाय यदा तूपधातातिशयस्तदाम्लोदकादीनामा
गवाघ्रातानि कांस्यानि शूद्रोच्छिष्टानि यानि च । शुद्धयन्ति दृशभि
क्षारैः श्वकाकोपहतानि च इति स्मरणात् । दशाक्षरानाह-"तलमुष्क
कशियूणां कोकिलाक्षपलाशयोः । काकजङ्का तथावज्ञविञ्चाश्वत्थवटस्य च
एभिस्तु दशभिः क्षारैः शुद्धिर्भवति कांस्यके शुद्धिः एावो द्ववस्य त्विति ।
द्वचस्य द्रवद्रव्यस्य घृतादेः प्रस्थप्रमाणाधिकस्य श्वकाकाद्युपहतस्य अमेध्यसंस्पृ
छटस्य च शावः पावनं समानजातीयेन द्रवद्रव्येण भाण्डस्यातिपूरणं यावन्नि
सरणं शुद्धिरित्यनुवर्तते । ततोऽल्पस्य त्यागः । बह्वल्पत्वं च कालाद्यपेक्ष
यापि वेदितव्यम् । यथाह बौधायनः–“देशं कालं तथा मानं द्रव्यं द्रव्यप्रयो
जनम् । उपपत्तिमवस्थां च ज्ञात्वा शैौचं प्रकल्पयेत् ॥’ इति । कोटाद्युपह
तस्य तूत्पवनम् । यथाह मनुः-'द्रवाणां चैव सर्वेषां शुद्धिरुत्पवनं स्मृतम्
इति । उत्पवनं चात्र वस्रान्तरिते पात्रे प्रक्षेपः । अन्यथा कीटाद्यपगमस्या सभ
वात् । शूद्रभाण्डस्थितस्य मधूदकादेः पात्रान्तरानयनाच्छुद्धि मधूदक पय
स्तद्विकाराश्च पात्रात्पात्रैान्तरानयने शुद्धाः’ इति बौधायनस्मरणातू । मधुघृतैा
पात्रान्तरानयन पुनः पवन च कायम् । यथाह
शङ्खः-‘अभ्यवहार्याणां घृतेनाभिघारितानां पुनः पवनमेवं खेहानां तेहवद्र
सानाम्’ इति ॥ १९० ॥
सौवर्णराजतादीनामेतत्प्रकरणप्रतिपादितानां सर्वेषामुच्छिष्टखेहाद्युपघातेशुद्धिमुक्त्वेदानीं तेषामेवामेध्योपहतानां शुद्धिमाह--
अमेध्याक्तस्य मृत्तोयैः शुद्धिर्गन्धादिकर्षणात् ।
वाक्शस्तमम्बुनिर्णिक्तमज्ञातं च सदा शुचि ।। १९१ ।।
अमेध्याः शरीरजा मला वसाशुक्रादयः ।--'वसा शुक्रमसृङ्जामूत्रविट्कर्ण-
१ दकवारिणा क २ दकादिभिः क. ३ इदं क. पुस्तकेऽधिकम्. ४ अमेध्यद्रव्य क ५ तथात्मानं ख. ६ घृतादेहींनवर्णा क. ७ पचनं कार्य ख