पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
६०
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

विण्लखाः । श्रेष्मा-श्रु दृषेिका स्वेदो द्वादशैते नृणां मलाः ॥' तथा--'मानुषास्थि शवं विष्टा रेतो मूत्रातैवं वसा । स्वेदा-श्रु दूषिका लेप्म मर्छ चामेध्य मुच्यते ॥' इति । अमेध्यादयो मला मनुदेवलादिभिः प्रतिपादिताः तेर्वसादि रक्तलिप्सममेध्यात्तं तस्य मृदा तोयेन च शुद्धिः कर्तव्या र्गन्धापकर्षणेन । आदिग्रहणालेपस्यापि ग्रहणम् । यथाह गौतम –“लेपगन्धापकर्पणेः शौचममे ध्यलिसस्य’ इति । सर्वशुद्धिषु च प्रथमं मृत्तोयैरेव लेपगन्धापकर्पणं कार्यम् । यदि गान्धादि मृत्तोयैर्न गच्छति तदान्येन ।–“अशक्तावन्येन मृदद्भिः पूर्व मृदा च' इति गौतमस्मरणात् । वसादिग्रहणं च सर्वेषाममेध्यत्वं प्रतिपादयितुं न समानोपधाताय–‘मछैमूत्रपुरीषेश्च श्रेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्धयेत पुनःपाकेन मृन्मयम् ॥’ इत्युपघाते विशेषाभिधानात्–अमेध्यत्वं चैववमेपां देहाचैव मलाश्युताः’ इति वचनाद्देहच्युतानामेव न स्वस्थानावस्थितानाम् । पुरुषस्य नाभेरूध्र्व करव्यतिरिक्ताङ्गनामन्यामेध्यस्पर्श स्नानम् । यथाह देवल मानुषास्थि वसां विष्टामार्तवं मूत्ररेतसी । मज्ज्ञानं शोणितं स्पृष्टा परस्य स्नानमाचरेत् ॥’ इत -“तान्येव स्वानि संस्पृश्य प्रक्षाल्याचम्य शुद्धयति इति । तथा-‘ऊध्र्व नाभेः करौ मुक्त्वा यदङ्गमुपहन्यते । तत्र स्रानमधस्तातु प्रक्षाल्याचवम्य शुद्धयति ॥’ इति । कृतेऽपि यथोक्तशौचे मनसोऽपरितोषाद्यत्र शुद्धिसंदेहो भवति तद्वाक्शस्तं शुवि । शुद्धमेतदस्त्विति ब्राह्मणवचनेन शुद्धं भवतीत्यर्थः । अम्बुनिर्णितं यत्र प्रतिपदोत्ता शुद्धिनीस्ति तस्य प्रक्षालनेन शुद्धिः । प्रक्षालनासहस्य प्रोक्षणेन । अज्ञातं च सदा यत्काकाद्युपहतमुपयुक्तं न कदाचिदपि ज्ञायते तच्छुचि । तदुपयोगाद्दृष्टदोषो नास्तीत्यर्थः । नन्वेतद्वि रुद्रयते–“संवत्सरस्यैकमपि चरेत्कृच्छं द्विजोत्तमः । अज्ञातभुक्तशुद्धयर्थ ज्ञातस्य तु विशेषतः ॥' इत्यदृष्टदोषेऽपि प्रायश्चित्तप्रतिपादनात् । नैतत् । प्रायश्चित्तस्य जग्धिविषयत्वात् दोषाभावेस्य चान्योपयोगेिविषयत्वात् ॥ १९१ ॥

शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ।
तथा मांसं श्वचण्डालक्रव्यादादिनिपातितम् ।। १९२ ।।

महीगतं भूमिस्थमुदकं एकगवीतृसिजननसमर्थ चण्डालादिभिरस्पृष्टं प्रकृ तिस्थं रूपरसगन्धस्पशान्तरमनापन्न शुचि आचमनादियोग्यं भवति । महीग तमेित्यशुचिभूगतस्य शुचित्वनिषेधार्थ नत्वान्तरिक्षोदकस्य शुद्ध चच्यावृत्यर्थम् । नाप्युद्धतस्य–“उद्भट्टताश्चापि शुद्धयन्ति शुद्वैः पात्रैः समुद्रुताः । एकरात्रोषिता आपस्त्याज्याः शुद्धा अपि स्वयम् ॥' इति देवलवचनात् । तथा चण्डालादि कृते तडागादौ न दोषः–‘अन्यैरपि कृते कूपे सेतैौ वाप्यादिके तथा । तत्र स्रात्वा चव पीत्वा च प्रायश्चित्तं न विद्यते ॥’ इति शातातपस्मरणात् । तथा


१ गंधापकर्षणात् क. २ ङ्गानां मत्या क. ३ उपभुक्तं ख. ४ नतु तद्धि ख. ५ भावस्य