पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५८
[ आचाराध्यायः
याज्ञवल्क्यस्मृतिः

सदा शुचिः । शुचित्वं तत्साध्ये कर्मणि । वस्त्रधावनादौ सूतकादिसं भवेऽपि । तथाच स्मृत्यन्तरम्-‘कारवः शिल्पिनो वैद्या दास्यो दासास्तथैव च । राजानो राजभृत्याश्च सद्यःशौचाः प्रकीर्तिताः ॥' इति । पण्यं पणार्ह विक्रेयं यवत्रीह्यादि । अनेकक्रेतृजनकरपरिघट्टितमप्यप्रयतं न भवति । सूतकादिनि मित्तेन च वणिजाम् । भिक्षाणां समूहो भैक्षं तब्रह्मचार्यादिहस्तगतं अनाचान्त स्रीप्रदानाऽशुचेिरथ्याक्रमणादिना निमित्तनापि न दुष्यति । तथा योषिन्मुखं संभोगकाले शुचि । ‘खियश्च रतिसंसर्गे' इति स्मरणात् ॥ १८७ ॥
इदानीं भूशुद्धिमाह--

भूशुद्धिर्मार्जनाद्दाहात्कालादोक्रमणात्तथा ।
सेकादुछेखनाछेपाट्टहं मार्जनलेपनात् ।। १८ ।।

मार्जन्यां पांसुतृणादीनां प्रोत्सारणं मार्जनम् । दाहस्तृणकाष्टाचैः । कालो यावता कालेन लेपादिक्षयो भवति तावान् । गोक्रमणं गवां पादपरिघट्टनम् । सेकः क्षीरगोमूत्रगोमयवारिभिः प्रवर्षणं वा । उछेखनं तक्षणं खननं वा । लेपो। गोमयादिभि । एतैर्मार्जनादिभिः समतैव्र्यस्तैर्वा अमेध्यादिदुष्टा मलिना च भूमिः शुद्धयति । तथाच देवल -'यत्र प्रसूयते नारी म्रियते दह्यतेऽपि वा । । चण्डालाध्युषितं यत्र यत्र विष्ठादिसंहँतिः ॥ पुवं कश्मलभूयिष्ठा भूरमेध्या प्रकीर्तिता । श्वसूकरखरोष्ट्रादिसंस्पृष्टा दुष्टतां वजेत् ॥ अङ्गारतुपकेशास्थिभस्मा चैर्मलिना भवेत् ॥' इत्यमेध्या दुष्टा मलिनेति शोध्यभूमेखैविध्यमभिधाय शुद्धि विभागं दर्शयति-“पञ्चधा वा चतुर्धा वा भूरमेध्यैपि शुद्धञ्जति । दुष्टान्विता त्रिधा द्वेधा शुद्धयते मलिनैकधा ।।' इति । यत्र मनुष्या दह्यन्ते यत्र चण्डालैर ध्युषितं तत्रै पञ्चभिर्दहनकालगोक्रमणसेकोछेखनैः शुद्धिः । यत्र मनुष्या जायन्ते यत्र म्रियन्ते यत्र चात्यन्तं विष्टादिसंहतिः तासां दाहवर्जितैस्तरेव चतुर्भिः । श्वसूकरखरैश्चिरकालमध्युषितायाः गोक्रमणसेकोलेखनैस्त्रिभिः । उष्ट्रग्रामकुकुटा दिभिश्चिरकालमधिवासितायाः सेकोछेखनाभ्यां शुद्धिः । अङ्गरतुषकेशादिभिः चिरकालमधिवासिताया उलेखनेन शुद्धिः । मार्जनानुलेपने तु सर्वत्र समुच्चीयते । एवं गृहं मार्जनलेपनाभ्यां शुद्धयति । गृहस्य पृथगुपादानं संमार्जनलेपनयोः प्रतिदिवसं प्राप्स्यर्थम् ॥ १८८ ॥

गोघ्रातेऽने तथा केशमक्षिकाकीटदूषिते ।
सलिलं भस्म मृद्वापि प्रक्षेप्तव्यं विशुद्धये ।। १८९ ।।

गोघ्राते गोनिःश्वासोपहतेऽन्ने अदनीयमात्रे । तथा केशमक्षिकाकीटैर्दूषिते । केशग्रहणं लोमादिप्रास्यर्थमं । कीटाः पिपीलिकादयः । उदकं भसा मृद्वा यथा संभवं प्रक्षेसव्यं शुद्धयर्थम् । यत्तु गौतमेनोक्तम्—‘नित्यमभोज्यं केशकीटाव पन्नम्’ इति तत्केशकीटादिभिः सह यत्पञ्चकं तद्विषयम् ॥ १८९ ॥


१ संगतिः ख . २ विशुद्धति क.. ३ तस्याः पञ्चका. तयोः पञ्च ख