पृष्ठम्:याज्ञवल्क्यस्मृतिः.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
द्रव्यशुद्धिप्रकरणम् ८ ]
५७
मिताक्षरासहिता ।

पात्राणां गोवालैरुद्धर्षणाच्छुद्धि । यज्ञपात्राणां त्रुक्लुवादीनां यज्ञकर्मणि प्रयुज्य मानानां दक्षिणेन हतेन दभैर्दशापवित्रेण वा यथाशास्त्र कर्माङ्गतया मार्जनं कर्तव्यम् । एतच श्रौतमुदाहरणमन्येषामपि सौवर्णादीनां पात्राणां स्मार्तलौकिक कर्मसु कृतशौचानामेवाङ्गत्वमिति दर्शयितुम् । यज्ञाङ्गानां पुनः कृतशौचानामिदं दशापवित्रादिभिर्मार्जनं संस्कारार्थमिति शेषः ॥ १८५ ॥
इदानीं सलेपानामेव केषांचिछेपापकर्षणे विशेषंहेतूनाह--

सोषरोदकगोमूत्रैः शुद्धयत्याविककैौशिकम् ।
सश्रीफलैरंशुप सारिटैः कुतपं तथा ।। १८६ ।।

ऊषरमृत्तिकासहितेन गोमूत्रेणोदकेन वा लेपापेक्षया । आविकमूर्णामयम् । कौशिकं कोशप्रभवं तसरीपट्टादि प्रक्षालितं शुद्धयति । उदकगोमूत्रैरिति बहुवचनं पश्चादप्युदकप्राझ्यर्थम् । अंशुपटं वल्कलतन्तुकृतम् । सश्रीफलैर्बिल्वफलसहितैः । कुतपः पार्वतीयच्छागरोमनिर्मितकम्बलः । अरिष्टसहितैरुदकगोमूत्रैः शुद्धयतीत्यनु वर्तते । एतचोच्छिष्टत्रेहादियोगे सति वेदितव्यम् । अल्पोपघाते तु प्रोक्षणादि । क्षालनासहत्वात् । सर्वत्र द्रव्याविनाशेनैव शुद्धेरिष्टत्वात् । तथाच देवल ऊर्णाकौशेयकुतपपट्टक्षौमदुकूलजाः। अल्पशौचा भवन्त्येते शोषणप्रोक्षणादिभिः । इत्यभिधायाह-‘तान्येवामेध्ययुक्तानि क्षालयेच्छोधनैः स्वकैः । धान्यकल्कैस्तु फलजै रसैः क्षारानुगैरपि ।।' इति । क्षौमवदेव शाणस्य समानयोनित्वैोत् । ऊर्णा दिग्रहणं तदारब्धतूलिकादिप्राप्यर्थम् । अतस्तस्याल्पोपघाते नैव क्षालनं कार्यम् । अमेध्यलेपादन्यत्र–‘तूलिकामुपधानं च पुष्परक्ताम्बरं तथा । शोषयित्वातपे किंचित्करैः संमार्जयेन्मुहु ॥ पश्चाच वारिणा प्रोक्ष्य विनियुञ्जीत कर्मणि । तान्यप्यतिमलिष्ठानि यथावत्परिशोधयेत् ॥’ इति देवलस्मरणात् । पुष्परक्तानि कुङ्कुमकुसुम्भादिरक्तानि । पुष्परक्तग्रहणमन्यस्यापि हरिद्रादिरक्तस्य क्षालनासहस्य प्रास्यर्थम्। न मञ्जिष्ठादेः । तस्य क्षालनसहत्वात् । शङ्गेनाप्युक्तम्--'रागद्रव्याणि प्रोक्षितानि शुचीनि' इति ॥ १८६ ॥

सगौरसर्षपैः क्षौमं पुनः पाकान्महीमयम् ।
कारुहस्तः शुचिः पण्यं भैक्षं योषिन्मुखं तथा ।। १८७ ।।

गौरसर्षपसहितैरुदकगोमूत्रैः क्षौमं क्षुमा अतसी तत्सूत्रनिर्मितं पटादि शुद्धयति । पुनःपाकेन मृन्मयं घटादि । एतञ्चोच्छिष्टलेहलेपे वेदितव्यम् । मनुः (५॥१२३)–‘मैचैत्रैः पुरीषेर्वा ष्ठीवनैः पूयशोणितैः । संस्पृष्टं नैव शुद्धलत पुन पाकेन मृन्मयम् ॥’ इति स्मरणात् । चण्डालाद्युपघाते तु त्याग एव । यथाह पराशरः–“चण्डालाचैस्तु संस्पृष्टं धान्यं वस्रमथापि वा । प्रक्षालनेन शुद्येत परित्यागान्महीमयम् ॥’ इति । कारवो रजकचैलधावकसूपकाराद्यास्तेषां हस्तः


१ हेतुलक्षणेनाह क. २ अरिष्टफलसहितैः ख. अरिष्टसहितैः फेनकसहितैः क. ३ योगत्वात् ख. ४ मद्यमूत्रपुरीधैश्च क्षेष्मपूयाश्रुशोणितैः क