पृष्ठम्:महासिद्धान्तः.djvu/301

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टकाध्यायः । RY अत्रोपपतिः । करण्या भत्ताभ्यां भाज्यहराम्यां दृढाभ्यां मिथो। भजनादत्र करणीस्थाने रूपं शेषं भवति तत्रैव फलविरामः । अर्ततोऽग्रे करणीजं फलं न ग्राह्यं कुट्टकविधेरग्राह्यत्वादिति ॥६६॥ इदानीं गुणनफलादीनां शुद्धांशुद्धत्वज्ञानमाह । गुण्यगुणकगुणनभुवां राशीनां स्वाङ्कयोगकः कार्यैः । क-स्थानान्तस्तद्वद्राज्यच्छेदासिशेषकादीनाम्र॥६७॥ । तद्गुण्यगुणकहातयुतितुल्ये गुणनोद्रवे स्फुर्ट गुणनम्र । अाप्तिश्*च्छेदकघाते शेषयुते यो भवेदङ्कः ॥६८॥ तेन समाने भाज्ये स्पष्ट लब्ध तथा शेषम्। वर्गेक्ये पदयुतिकृतिशेपैक्यसमे स्फुर्टी स्वपदवर्गी ॥६९॥ घनयोगसमे घनपदयोगघनैक्य सशेषके तौ च । एवं गुणनादीनां शोधनिकेयं सुखोपायात् ॥७०॥ इति श्रीमदाचार्यार्यभटविरचिते महासिद्धान्ते गोलाध्याये कुट्टकाधिकारो नामाष्टादशोऽध्यायः सम्पूर्णः ॥१८॥ गुण्यगुणकगृणनभुवां गुण्यगुणकगुणनष्फलानां राशीनां स्वाङ्गयोगकः स्वस्वस्थानीयाङ्कानां योगः क-स्थानान्तो रूपस्थानान्तः कार्येः अचैतदुत भवति। स्थानाङ्कानां योग यदि स्थाने वास्थानानि स्युस्तईि पुनर्योंगस्थानीयाङ्कानां कार्यस्तत्रापि यदि स्थाने वा स्थानानि स्युस्तर्हि पुनरेतत्स्थानाङ्कानां योगः कार्येः । एवं तावद्यावद्योगे चैकस्थानं स्यात् । एवमत्र सर्वत्र योगशब्देन स्थानाङ्कयोगपरम्परासु एकस्थानीयो योगो विज्ञेयः तद्वतथैव भाज्यच्छेदासिशेषकादीनां भाज्यभाजकलब्धिशेषणां । स्थानाङ्कानां योगः कार्येः । आदिशब्देन वर्ग-वर्गमूल-घन-घनमूलानि तत्तच्छेषाण च गृह्यन्ते । गुणनेौद्धवे गुणनफलोत्पन्ने योगे गुण्यगुणकहति युतितुल्ये गुण्यगुणकस्थानाङ्गसवन्धितद्येोगघाते या संख्या a छद्यच्छदक घात इति वि. पुस्तके आमादक: पाठ: ।