चोलभूमिपतिरुज्ज्वलैर्गुणैः किं नु वक्ति भवतानुरञ्जितः । पश्यतस्तृणसमां तव श्रिय श्रीप्रदानकथनेन लञ्जते ।॥४४॥ अन्वयः भवता उज्ज्वलैः गुणैः अनुरञ्जितः चोलभूमिपतिः किं नु वक्ति । श्रियं तृणसमां पश्यतः तव श्रीप्रदानकथनेन लज्जते । व्याख्या भवता विक्रमाङ्कदेवेनोज्जलैः श्रेष्टैर्गुणैर्दयादाक्षिण्यादिभिरनुरञ्जितस्समा कर्षितश्चोलभूमिपतिश्चोलदेशाधिपो वीरराजेन्द्रः किं नु बक्ति न किमपि वक्तुं पारयति । श्रियं लक्ष्मीं तृणसमां तृणसदृशीं तुच्छां पश्यतो भावयतस्तव श्रियो लक्ष्म्याः प्रदानं त्वदायत्तीकरणं तत्कथनेन लक्ष्मीसमर्पणकथनेन लज्जते हिय माप्नोति । विशिष्टलक्ष्मीत्यागमूर्तेस्तव पुरतः स्वाल्पलक्ष्मीप्रदानप्रस्तावेऽपि लज्जां धत्ते इति भावः । आप के श्रेष्ठ दया दाक्षिण्य आदि गणों से आकर्षित चोलदेश का बीर राजेन्द्र नाम का राजा आप के सामने क्या कहे । बह, लक्ष्मी को तृण के समान तुच्छ समझने वाले आप को घन देने की बात कहने में भी लज्जित होता है । अन्यपौरुषगुणेष्वपि श्रुतिं प्राप्तवत्सु घनगर्जितेष्विव । राजहंसवनितेव मानसान्नास्य निःसरति तावकी स्तुतिः ॥४५॥
पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२४
दिखावट