पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । मानससरसो वा राजहंसवनितेव मरालीव तावकी त्वदीया स्तुतिः स्तवः ‘स्तवः स्तोत्रं स्तुतिर्नुतिः' इत्यमरः । न निःसरति न पृथग्भवति । तन्मनस्येव निश्चला तिष्ठत इति भावः । घनगर्जितं श्रत्वा यथा मराली मानससरोवरादन्यत्र न गच्छति तत्रैव तिष्ठति च तथैव बहूनां राज्ञामपि पुरुषार्थकथां श्रुत्वा तव स्तुतिश्चोलदेशाधिपतेर्मनसो न पृथग्भ वतीत्यर्थः । अत्रोपमालङ्कारः । भाषा मेघ की गरज के समान अन्य राजाओं के भी पुरुषार्थ के महत्व को सुन कर चोलदेश के राजा वीरराजेन्द्र के मन से तुम्हारी स्तुति मानस सरोवर से राजहंसी के समान नहीं हटती है । अर्थात् जैसे मेघ के शब्द सुनकर राजहंसी मानस सरोवर में ही रहती है और वहां से अन्यत्र नहीं हटती वैसे ही अन्य राजाओं के पौरुष के महत्व को सुनने पर भी तुम्हारी स्तुति उस चोल राजा के मन से नहीं हटती किन्तु उसके मन में विद्यमान है । कन्यकां कुलविभूषणं गुणैरद्भुतैत्रिभुवनातिशायिनीम् । त्वत्करप्रणयिनीं विधाय सः प्राप्तुमिच्छति समस्तवन्द्यताम् ॥४६॥ अन्वयः सः कुलविभूषणम् अद्भुतैः गुणैः त्रिभुवनातिशायिनीं कन्यकां त्वत्कर प्रणयिनीं विधाय समस्तवन्द्यतां प्राप्तुम् इच्छति । व्याख्या स वीरराजेन्द्रनामकश्चोलदेशराजः कुलस्य वंशस्य भूषणमलङ्कारभूतामद्भु तैराश्चर्यकरैर्गुणैः शीललज्जादिभिस्त्रयाणां भुवनानां समाहारस्त्रिभुवनं तमतिशेते