सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रख्यातिबीजवापाय चखानेव नभस्थलीम् । ११२॥ अन्वयः सह् द्विपेन्द्रम् अधिरुह्य दर्पात् अन्कुषम् भ्रामयन् अख्यातिबीजवापाय इव नभस्थली चखान| व्याख्या सः सोमदेवो द्वाभ्यां मुखशुण्डाभ्यां पिबन्तीति द्विपास्तेषामिन्द्रं श्रेष्ठं गजेन्द्र मधिरुह्य समारुह्य दर्पावहध्ङ्कुशं सृणि ‘अङकुशोऽस्त्री सृणिः स्त्रियाम् इत्यमरः । गजनियन्त्रणकारकम् शस्त्रं भ्रामयन् संचालयन्नख्यातेर्दूयशसो वोजानां वापायेव रोपणायेव नभस्थलीं गगनस्थलीं चखान निखातवान् । हस्तिपका वङकुशं गृहीत्वा दर्पणाऽस्त्रमिव भ्रामयतस्तस्याऽपकीर्तिलॉकहास्यञ्च जातम् । तत्कार्य नभस्थल्यामख्यातिबीजरोपणायेव नभस्थलीकर्षणरूपमिति कविरुत्प्रेक्षते अर्थात् न केवलं पृथ्व्यां किन्तु नभस्थल्यामपि तस्याऽयशः प्रसृतमिति भावः । अत्रोत्प्रेक्षालङ्कारः । अख्यातिबीजवापाय भाषा उत्तम गज पर सवार होकर, अभिमान से अङ्कुश को आकाश में चारो ओर फेरने वाले सोमदेव ने मानो अपयश के बीज को बोने के लिये आकाश रूपी खेत को जोता । अर्थात् इस लोक में ही नहीं किन्तु ऊध्र्व लोक में भी प्रणयप्रवणैवासीत् तस्य श्रीः सपरिग्रहा । परं नाङ्गीकरोति स्म विक्रमाङ्कः कलङ्किनीम् ॥१३॥