पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः असौ अकायें अपि कुमारस्य तात्पर्यम् अतनोत् । लक्ष्मीसुखमुग्धानां दुरात्मनाम् असम्भाव्यं किम् । अथवा असौ कुमारस्य अपि अकार्ये तात्पर्यम् अतनोत् । शेषं पूर्ववत् । व्याख्या असौ सोमदेवोऽकार्येऽपि प्रजापीडनरूपदुराचारेपि कुमारस्य विक्रमाङ्कदेवस्य तात्पर्यमिच्छामतनोत् प्रकटीचकार । यत्प्रजाप्रपीडनं भवति तद्विक्रमाङ्कदेवे च्छयैव भवतीति प्रकटीचकारेति भावः । अथवा असौ सोमदेवः कुमारस्याऽपि विक्रमाङ्कदेवस्याऽप्यकार्ये मारणे तात्पर्यमिच्छामतनोदकरोत् । अथवा—असौ सोमदेवः कुमारस्य विक्रमाङ्कदेवस्य तात्पर्य सद्विचारमप्यकार्येऽसद्विचारेऽतनोत् कृतवान् परिणतवानित्यर्थः । विक्रमाङ्कदेवस्य सत्परामर्षे दोषं निष्पाद्य तं हानिकरं स्वविरुद्धञ्च गृहीतवानित्यर्थः । यस्मात् लक्ष्म्याः सम्पात्याः सुखेनाऽऽनन्देन मुग्धानां मूढानामज्ञानिनां दुरात्मनां दुष्टस्वभावानां पापरतानामित्यर्थः । जनानामसम्भाव्यमकरणीयं किम् न किमपीत्यर्थः । अत्रार्थान्तरन्यासो नामा लङ्कारः पूर्वार्द्धस्योत्तराद्धेन समर्थनात् । भाषा राजा सोमदेव अपने किये हुए प्रजापीडनादि बुरे कार्यो में कुमार विक्रमाङ्कदेव की भी सम्मति है ऐसा प्रकट करने लगा । अथवा राजा सोमदेव कुमार विक्रमाङ्कदेव को मारडालने की भी इच्छा करने लगा ।