पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/२८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अपि कर्तव्यं न विवेद । व्याख्या असौ सोमदेवः पिशाच इव राक्षस इव सर्वेषां जनानां छलस्य कपटव्यवहार स्याऽन्वेषणे संपादने तत्परः परायणस्सन् मदेन राजमदेन या मूर्च्छा विवेकाविवेक शून्यत्वं तया किमपि किञ्चिदपि कर्तव्यं राज्यभारवहनकर्तव्यं न विबेद न जानाति स्म । यथा पिशाचः सर्वान् जनान् दुःखयितुं तत्परो भवति तथैवाऽयं राजाऽपि मदेन सर्वाः प्रजाः कपटव्यवहारेण पीडयन् स्वकर्तव्यं न पालयति स्मेति भावः । उपमालङ्करः । भाषा वह राजा सोमदेव राजमद की बेहोशी में विवेक शून्य हो कर राक्षस के समान सब को कष्ट देने में तत्पर अर्थात् सवके साथ कपट व्यवहार करने में तत्पर होने से अपने कर्तव्य पथ से च्युत हो गया । व्यरज्यत समस्तोऽपि लोभैकवसतेर्जनः । त्यागो हि नाम भूपानां विश्वसंवननौषधम् ॥१०॥ अन्वयः समस्तः अपि जनः लोभैकवसतेः (तस्मात्) व्यरज्यत । हि भूपानां त्यागः विश्वसंवननौषधं नाम (अस्ति) व्याख्या समस्तोऽखिलोऽपि जनः प्रजाजनः लोभस्याऽत्यागस्यैका वसतिः स्थानं तस्मादत्यन्तलोभसंपन्नात् सोमदेवा व्यरज्यत विरक्तो जातः स्नेहराहित्यं संप्राप्त