भाषा विक्रमाङ्कदेव के मलयाचल के कुञ्ज में प्रविष्ट होने पर उसकी सेना के हाथियों के कानरूपी ताड़ के पंखों से, चैत का महीना न होने पर भी, विरहिणियों को सन्तप्त करने वाला, चन्दन की सुगन्ध से युक्त दक्षिणानिल बहने लगा ।
श्रदर्शयत्कामपि राजहंस-लीलामसौ कुन्तलराजसूनुः । नित्स्त्रिशधाराजलसङ्गतं यद् द्विषां यशः क्षोरमिवाचकर्ष ॥६४॥
अन्वयः असौ कुन्तललराजसूनुः काम् अपि राजहंसलीलाम् अदर्शयत् । यत् नित्स्त्रिशधाराजलसङ्गतं द्विषां यशः क्षीरम् इव प्राचकर्ष ।
व्याख्या असौ कुन्तलराजस्य कुन्तलदेशाधिपस्य सूनुः पुत्रो विक्रमाङ्कदेवो कामपि विचित्रां राजहंसस्य राजश्रेष्ठस्य हंसपक्षिणो वा लीलां क्रीडाविलासमदर्शयत् प्रकटयाम्बभूव । ‘राजहंसास्तु ते चञ्चुचरणैलोहितैस्सिताः' इत्यमरः यद्यस्मात्कारणात् निर्गतस्त्रिशङ्कयोऽङगुलिभ्य इति निस्त्रिशः खङ्गः ‘तूण्यां खङ्ग तु निस्त्रिश चन्द्रहासासिरिष्टयः' इत्यमरः । तस्य धाराजलेन तीक्ष्णाग्रभागजलेन सङ्गतं मिश्रितं द्विषां शत्रूणां ‘द्विड्विपक्षा हितामित्रदस्युशात्रवशात्रवः' इत्यमरः । यशाः कीर्ति क्षीरमिव दुग्धमिवाऽऽचकर्ष पृथक् कृतवान् । हंसो मिश्रित नीरक्षीरयोः क्षीरं पिबति नीरं त्यजतीति प्रसिद्धिः । कुन्तलराजपुत्रोऽपि स्वखङ्गः धाराजलमिश्रितशत्रुयशसो यशः पृथक्त्वेन स्वीचकारेति भावः । श्लेषानुप्राणि तातिशयोक्तिनिदर्शना वाऽलङ्कारः ।
भाषा