सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रदाः' इत्यमरः । कान्तिः प्रभा तया धवलदन्तकान्तिछद्मना प्रसादरूपा या मुक्तानां मौक्तिकानामावलिर्माला तां क्षिपन्निव च निदधदिव चोवाचं जगाद । भाषा सर्व अङ्गों में रोमाञ्च से युक्त उस राजा आहवमल्ल देव ने अपने पुत्र विक्रमाङ्क देव को प्रेम पूर्वक अपनी गोद में बैठाकर और उसके गले में अपनी श्वेत दन्तकान्ति के मिष से मानों प्रेम से समर्पित मोतियों की माला को पहनाते हुए, कहा । भाग्यैः प्रभूतैर्भगवानसौ मे सत्यं भवानीदयितः प्रसन्नः । चालुक्यगोत्रस्य विभूषणं यत् पुत्रं प्रसादीकृतवान्भवन्तम् ॥४॥ अन्वयः असौ भगवान् भवानीदयितः मे प्रभूतैः भाग्यैः सत्यं प्रसन्नः । यत् चालुक्यगोत्रस्य विभूषणं भवन्तं पुत्रं प्रसादीकृतवान् । व्याख्या असौ भगम् विद्यते यस्मिन् स भगवान् ‘भगं श्री काममाहात्म्यवीर्ययत्नार्क कीर्तिषु' इत्यमरः । ‘भगं श्री योनिवीर्येच्छाज्ञानवैराग्यकीर्तिषु । माहात्म्यै श्वर्येयत्नेषु धर्मे मोक्षेऽथ ना रवौ' । इति मेदिनी । भवान्याः पार्वत्या दयितो वल्लभः ‘अभीष्टेऽभीप्सितं हृद्य दयितं वल्लभं प्रियम्' इत्यमरः । शिवो मे प्रभूतैर्बहुलैभर्गिभगिधेय: ‘दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिविधिः' इत्यमरः। सत्यं ध्रुवं प्रसन्नः प्रीतः । यद्यस्मात्कारणात् चालुक्यगोत्रस्य चालुक्यवंशस्य