पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

की कृपा की है । एतानि निर्यान्ति वचांसि वक्त्रात् कस्यापरस्य श्रवणामृतानि । मधूनि लेह्यानि सुरद्विरेफै—र्न पारिजातादपरः प्रसूते ॥४५॥ अन्वयः एतानि श्रवण्णामृतानि वचांसि अपरस्य कस्य वक्त्रात् निर्यान्ति । सुरद्विरेफैः लेह्यानि मधूनि पारिजातात् अपरः न प्रसूते। व्याख्या एतानीमानि श्रवणयोः कर्णयोरमृतान्यमृततुल्यानि कर्णामृतानि वचांसि वचनानि ‘व्याहार उक्तिर्लपितं भाषित्तं वचनं वचः' इत्यमरः । त्वदपरस्य कस्य पुरुषस्य वक्त्रान्मुखान्नियन्ति निर्गच्छन्ति । न कस्यापि त्वदपरस्य मुखादिति भावः । सुराणां देवानां द्विरेफैभ्रमरैः सुरलोकस्थैद्विरेफैरित्यर्थः । लेह्यान्या स्वादनीयानि मधूनि पुष्परसान् ‘मधु मद्ये पुष्परसे क्षौद्रे' इत्यमरः । पारिजाताद्दे ववृक्षादपरो वृक्षो न प्रसूते न जनयति । दृष्टान्तालङ्कारः । भाषा कान को अमृत के समान सुख देने वाले ये वचन अन्य किसके मुख से निकल सकते हैं । पारिजात वृक्ष के अतिरिक्त अन्य किसी वृक्ष में, स्वर्गलोग के भ्रमरों के आस्वाद लेने योग्य पुष्परस, नहीं उत्पन्न होता है। । यस्याः कृते भूमिभृतां कुमाराः केषां न पात्रं नयविप्लवानाम् । उन्मत्तमातङ्गसहस्रगुर्वी सा राज्यलक्ष्मीस्तृणवलघुस्ते ॥४६॥