सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः अथ कदाचित् सः नृपः श्रीविक्रमादित्यं सर्वासु वेिद्यासु अकुण्ठं समरोत्सवेभ्यः किमपि उत्कण्ठमानम् अवलोक्य चिन्तयामास । व्याख्या अथाऽनन्तरं कदाचित् कस्मिश्चित्समये सः प्रसिद्धो नृपो भूपतिराहवमल्लदेवः श्रीविक्रमादित्यं तन्नामकं स्वसुतं सर्वासु सकलासु विद्यासु शस्त्रशास्त्रविद्यास्वकुण्ठ ममन्दं निपुणंमित्यर्थः ‘कुण्ठी मन्दः क्रियासु यः' इत्यमरः । समरोत्सवेभ्यो युद्धकार्येभ्यः किमपि अनिर्वचनीयतयोत्कण्ठमानं समुत्सुकमवलोक्य दृष्ट्वा चिन्तया मास विचारयामास । भाषा कुछ काल के अनन्तर, समग्र शस्त्र और शास्त्र विद्याओं में निपुण अपने मध्यम पुत्र श्री विक्रमादित्य को संग्राम महोत्सवों के लिए विशेष लालायित देखकर राजा आहबमल्लदेव सोचने लगे । अलङ्करोत्यद्भुतसाहसाङ्कः सिंहासनं चेढ्यमेकवीरः । एतस्य सिंहीमिव राजलच्मीमङ्कस्थितांकः क्षमतेऽभियोक्तुम् ॥२७॥ अन्वयः अयम् अद्भुतसाहसाङ्कः एकवीरः सिंहासनम् अलङ्करोति चेत् (तर्हि) एतस्य अङ्कस्थितां सिंहीम् इव राजलक्ष्मीम् अभियोक्तुं कः क्षमते ।