पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रतिबिम्बव्याजेन क्षमां प्रार्थयितुमिव याचितुमिव लुलोठ प्पात्। अत्रोप्रेक्ष लङ्करः । सब तेजस्वियों में श्रेष्ठ इस राजपुत्र के, मस्तक पर का मुकुटमणि, रत्न जड़ित पांव रखने की चौकी पर पड़ी अपनी परछाहीं के मिष से (उस तेजस्वी के भी ऊपर बैठने के अपराध से) मानों क्षमा याचना करने के लिये उसके पैरों पडता था । अत्रान्तरेऽभूञ्जयसिंहनामा पुत्रस्तृतीयोऽपि नराधिपस्य । स्वझेऽपि संवादयशोदरिद्रश्चन्द्रार्द्धचूडस्य न हि प्रसादः ॥२५॥

                अन्वयः

अत्र अन्तरे नराधिपस्य जयसिंहनामा तृतीयः अपि पुत्रः अभूत् । हि चन्द्रार्द्धचूडस्य प्रसादःस्वन्ने अपि संवाद्यशोदरिद्रः न (भवति) ।

अत्रान्तरेऽस्मिन्नवकाशे 'अन्तरमवकाशावधिपरिधानान्तधिभेदतादथ्र्ये' इत्य मरः । नराधिपस्याऽऽहवमल्लदेवराजस्य जयसिंहनामा जयसिंहनामकस्तृती योऽपि पुत्रः सूनुरभूदजायंत । हि यस्मात्कारणात् चन्द्रार्द्धश्चूडायां शिरांसि यस्य तस्य शिवस्य प्रसादोऽनुग्रहः स्वप्नेऽपि कथमपीतिभावः । संवादस्य स्वानुकूल फलदानरूपस्य वचनस्य यद्यशस्तेन दरिद्रो रहितो न, नभवतीत्यर्थः । शिवप्रसादप्राप्तिप्रयोजकवचनस्य सदैव सत्यत्वमिंति कृतस्तद्वचनस्य मिथ्या भाव प्रसङ्गः इति भावः । अत्र पूर्वाद्वक्तस्य द्वितीयांद्वक्तेनाऽर्थेन समर्थना