पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुमुद्वतानामिव कुमुदिनीनामिव कामिनीनामङ्गनानां निद्रा विमुखीबभूवाऽपससार गतेत्यर्थः । यथा निशासु नवीनचन्द्रं विलोक्य कुमुदिनी विकसिता भवति स्वकुड् मलत्वरूपनिद्रां जहाति तथैव कामिन्योऽपि तंमद्भुतसौन्दर्ययुक्तं कुमारं निरीक्ष्य कामज्वरपीडिताः सत्यो रात्रौ निद्रां न लब्धवत्य इति भावः । अत्र कुमुद्वती कामिन्योर्द्धयोरेकक्रियान्वयात्तुल्ययोगितालङ्कारः ।

                        भाषा

रात्रियों में जिस प्रकार कलासमूहों से क्रमशः परिपूर्ण होने वाले नूतन चन्द्रमा को देखकर कुमुदिनी विकसित हो जाती है और उसकी कलीस्वरूपी निद्रा हट जाती है उसी प्रकार सौन्दर्य से परिपूर्ण होने वाले उस कुमार को देखकर सुन्दरियाँ काम ज्वर से पीड़ित हो जाती हैं अतएव रात्रियों में उनकी निद्रा दूर हो जाती है। धैर्येण तस्मिन्नवर्धीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् । आबद्धमुग्धध्रुकुटिच्छटानां पेतुः सकोपं नयनोत्पलानि ॥२१॥

धैर्येण अवधीर्य याति तस्मिन् स्मरोत्सुकानाम् आबद्धमुग्धध्रुकुटीच्छ टानां नगराङ्गनानां नयनोत्पलानि सकोपं पेतुः।

                      व्याख्या

धैर्येण धीरतया स्वस्वाभाविकगुणेन गाम्भीर्येणाऽवधीर्य कामिनीस्तिरकृत्य याति गच्छति तस्मिन् कुमारे स्मरेण कामवेगेनोत्सुकानामुद्वेल्लितमानसानामाबद्धाः सडकुचिता अत एव मुग्धा सुन्दर्यो या ध्रुकुटयस्तासां च्छटाः शोभा यासां तासां