अन्वयः कवित्ववत्कृत्वफला सरस्वती लावण्यलुब्धाभिः भूपालकन्यामधुपाङ्ग नाभिः अलब्धम् एव तस्य मुखारविन्दं चुचुम्ब ।
व्याख्या
कवित्वं काव्यकर्तृत्वं वक्तृत्वं वाग्मिता च फलं यस्याः सा सरस्वती वाग्देवता, यस्यास्समवधाने सति कवित्वं वक्तृत्वञ्चाऽनायासेनैव प्रतिफलतीति भावः । लावण्ये कुमारस्य सौन्दर्ये लुब्भाभिस्तद्रसाकाङिक्षणीभिभूपालानां राज्ञां कन्या राजकुमार्य एव मधुपानां भ्रमराणामङ्गनाः स्त्रियस्ताभिरलब्धमप्राप्तं तस्य कुमारस्य मुखमेवाऽरविन्दं कमलं, ‘वा पुंसि पद्यमं नलिनमरविन्दं महोत्पलम् इत्यमरः । चुचुम्ब तस्य मुखे निवासं चकारेत्यर्थः । सरस्वती कुमारवृत्तान्ते नायकव्यवहारसमारोपात्समासोक्तिरलङ्कारः । भूपालकन्यासु भ्रमराङ्गन्नात्वा भेदारोपान्मुखे चाऽरविन्दत्वाभेदारोपादूपकालङ्कारः । तेन चाऽस्य विलक्षणं कवित्वं वाग्मित्वञ्च व्यज्यते ।
भाषा
उस राजकुमार के सौन्दर्य पर मोहित राजकन्या रूपी भ्रमराङ्गनाओं से अप्राप्य उसके मुख कमल को कवित्व तथा वक्तृत्व शक्ति देनेवाली सरस्वती ने चूमलिया। अर्थात् सरस्वती ने उसके मुख में वास कर लिया । अतएव वह कुमार बाल्यकाल में ही कविता बनाने में और युक्तिपूर्ण बातें करने में अत्यन्त निपुण हो गया । तं बालचन्द्रं परिपूर्यमाण-मालोक्य लावण्यकलाकलापैः । कम्द्तेनमेव् कमेएनेनम् नेषास् नेद्रा विमुरीबभव ॥२०॥