अन्वोय:
क्रीडापरः सः श्रायसपञ्जरस्थान् केसरिणां किशोरान् पीडयन् भाविरि पुद्विपेन्द्रयुद्धेोपयोगि तदीयशौर्य समाददे इव |
व्यख्या
क्रीडापरो बालक्रीडासक्तः स आयसपञ्जरस्थान् लौहनिर्मितपिञ्जरस्थितान् लोहोऽस्त्री शास्त्रक तीक्ष्णं पिण्डं कालायसायसी' इत्यमरः । केसरिणां सिंहानां किशोरान् शिाशून् पीडयन् बाधमानो भाविषु भविष्यत्सु रिपव एव द्विपेन्द्रास्तेषां शत्रुगजेन्द्राणां युद्धेषु जन्येषु ‘युद्धमायोजनं जन्यं प्रधनं प्रविदारणम्' इत्यमरः । उपयोगि कार्यसाधक विजयकारीतिभावः । तदीयं सिंहशिशुसम्बन्धिशौर्य पराक्रमं समाददे व गृहीतवानिव । सिंहोऽनायासेन स्वशौर्येण गज हन्ति तदीयशीर्येणाऽयमपि भविष्यत् काले रिपुगजेन्द्रं हनिष्यतीति भावः । रूपकसह कृतोत्प्रेक्षालङ्कारः ।
भाषा
खेल्कुद् में लगे हुए उस बालक ने लोहे के पिंजरे में के शेर के बच्चों को तन्ग कर् भावी शत्रुरुगी गजेन्द्रो के युद्धों में उपयोगी उनके शौर्य को मानों ले लिया । रिंह ही का शौर्य गजेन्द्रों के मारने में समर्थ होता है । इसलिये इसन शाश्रुग्गी गर्जन्द्रों को मारने के लिये मानों इनसे शौर्य छीन लिया ।
|
प्राप्तोदयः पादनखैश्चकासे स बालचन्द्रः परिवर्द्धमानः । |