सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यदुथतः साऽङ्गुअलसग्रहण यात्काच्जदव्यत्तुमवाचतोप । अभीक्ष्णमक्ष्णैः श्रवसोश्च तेन क्षमापतेः संवननं बभूव ॥८।।

                              अन्वयः
      यत् सः अङ्गुलिसंग्रहेण उत्थितः अपि यत् किञ्चित् अव्यत्तुम्

अवोचत तेन क्षमापतेः अक्ष्णोः श्रवसोः च अभीक्ष्णं संवननं बभूव ।

                               व्याख्या
       यद्यस्मात्कारणात् स बालकोऽन्येषां जनानामङगुलिसंग्रहेणऽड्गुलि धत्वोत्थितः

समुत्थानं कृतवान् ‘ अडगुल्यः करशाखास्स्युः इत्यमरः । अपि चाऽन्यच्च यत्किञ्चिदव्ययक्तमस्पष्टमवोचत संजगाच तेन कारणेन क्षमायाः पतिः स्वमी तस्याऽवनिभर्तुः ‘क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु । ’ ‘धवः प्रियः पतिर्भर्ता' इत्यमरः । अक्ष्णोर्नयनयोः ‘लोचनं नयनं नेत्र मीक्षणं चक्षुरक्षिणी' इत्यमरः। श्रबसोश्च कर्णयोश्च ' 'कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्त्री अवणं श्रवः' इत्ममरः। अभीक्ष्णं पुनः पुनः ‘मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समः' इत्यमरः। संवननं वशीकरणं ‘वशक्रिया संबननं' इत्यमरः। अभूत् बभूव। तस्य बालस्यो डार्गुल संग्रहयोत्थानं यत्किञ्चिदस्पष्टं संभाषणञ्च श्रुत्वा राजा वशीकरण मन्त्राभिभूत इव जातः । सर्वं कार्यजातं त्यक्त्वा तदवलोकनश्रवणयोर्मग्त इति भावः ।

                              भाषा
        चूंकि यह बालक दूसरों की अंगुली पकड़ कर उठने लगा और साफ् २

समझ में न आने वाले शब्दों को बोलने लगा इससे राजा की आँखों व कानों का बार २ वशीकरण होता था । अर्थात् राजा सब । कामों को छोड़ इस बालक की लीला देखने में ही परम मुदित होता था ।