सामग्री पर जाएँ

पृष्ठम्:विक्रमाङ्कदेवचरितम् .djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्वयः क्रमागता इयं श्रीः मम गुणैः सदृशम् आश्रयं पुरः अवीक्षमाणा पयोधिमध्यस्थितपोतकूपकस्थिता शकुन्ती इव मुहुः प्रकम्पते ।

                 व्याख्या

क्रमेण कुलक्रमेणाऽऽगता प्राप्तेयं श्री राज्यलक्ष्मी मम गुणैः शौर्यादिभिः सदृशं समानमत एव योग्यमाश्रयमाश्रयभूतं स्थानं पुरोऽग्रेऽवीक्षमाणाऽनवलोकयन्ती पयोधेः समुद्रस्य मध्ये मध्यभागे स्थितो विद्यमानः पोतो यानपात्रं 'यानपात्रे शिशौ पोतः' इत्यमरः । तस्य कूपको गुणवृक्षको नौमध्यस्थितरज्जुबन्धनदण्डः तस्मिन् स्थितोपविष्टा शकुन्तीव पक्षिणीव मुहुरभीक्षणं ‘मुहुः पुनः पुनः शश्वद भीक्ष्णमसकृत्सभा :' इत्यमरः । प्रकम्पते बिभेति । स्थिरमाश्रयमपश्यमाणा स्वस्थितेस्सन्देहास्पदत्वाद्भीतेत्यर्थः । अत्रोपमालङ्कारः ।

                 भाषा

कुल परम्परागत यह राज्य श्री, मेरे गुणों के ऐसे गुण वाले आश्रय को आगे न देखकर वीच समुद्र में

विद्यमान जहाज के मस्तूल पर बैठी चिड़िया

के समान रह रह कर काँपती है । अर्थात् स्थिर आश्रय न देखकर अपने अस्तित्व के सन्देह से भयभीत होती है ।

प्रियप्रसादेन विलाससम्पदा तथा न भूषाविभ्वेन गेहिनी । सुतेन निव्यजमलीकहासिना यथाङ्कपर्यङ्कगतेन शोभते ॥३२॥